001 मनुरुवाच 001a यथा व्यक्तमिदं शेते स्वप्ने चरति चेतनम् 001c ज्ञानमिन्द्रियसंयुक्तं तद्वत्प्रेत्य भवाभवौ 002a यथाम्भसि प्रसन्ने तु रूपं पश्यति चक्षुषा 002c तद्वत्प्रसन्नेन्द्रियवाञ्ज्ञेयं ज्ञानेन पश्यति 003a स एव लुलिते तस्मिन्यथा रूपं न पश्यति 003c तथेन्द्रियाकुलीभावे ज्ञेयं ज्ञाने न पश्यति 004a अबुद्धिरज्ञानकृता अबुद्ध्या दुष्यते मनः 004c दुष्टस्य मनसः पञ्च सम्प्रदुष्यन्ति मानसाः 005a अज्ञानतृप्तो विषयेष्ववगाढो न दृश्यते 005c अदृष्ट्वैव तु पूतात्मा विषयेभ्यो निवर्तते 006a तर्षच्छेदो न भवति पुरुषस्येह कल्मषात् 006c निवर्तते तथा तर्षः पापमन्तं गतं यथा 007a विषयेषु च संसर्गाच्छाश्वतस्य न संश्रयात् 007c मनसा चान्यदाकाङ्क्षन्परं न प्रतिपद्यते 008a ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः 008c अथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि 009a प्रसृतैरिन्द्रियैर्दुःखी तैरेव नियतैः सुखी 009c तस्मादिन्द्रियरूपेभ्यो यच्छेदात्मानमात्मना 010a इन्द्रियेभ्यो मनः पूर्वं बुद्धिः परतरा ततः 010c बुद्धेः परतरं ज्ञानं ज्ञानात्परतरं परम् 011a अव्यक्तात्प्रसृतं ज्ञानं ततो बुद्धिस्ततो मनः 011c मनः श्रोत्रादिभिर्युक्तं शब्दादीन्साधु पश्यति 012a यस्तांस्त्यजति शब्दादीन्सर्वाश्च व्यक्तयस्तथा 012c विमुञ्चत्याकृतिग्रामांस्तान्मुक्त्वामृतमश्नुते 013a उद्यन्हि सविता यद्वत्सृजते रश्मिमण्डलम् 013c स एवास्तमुपागच्छंस्तदेवात्मनि यच्छति 014a अन्तरात्मा तथा देहमाविश्येन्द्रियरश्मिभिः 014c प्राप्येन्द्रियगुणान्पञ्च सोऽस्तमावृत्य गच्छति 015a प्रणीतं कर्मणा मार्गं नीयमानः पुनः पुनः 015c प्राप्नोत्ययं कर्मफलं प्रवृद्धं धर्ममात्मवान् 016a विषया विनिवर्तन्ते निराहारस्य देहिनः 016c रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते 017a बुद्धिः कर्मगुणैर्हीना यदा मनसि वर्तते 017c तदा सम्पद्यते ब्रह्म तत्रैव प्रलयं गतम् 018a अस्पर्शनमशृण्वानमनास्वादमदर्शनम् 018c अघ्राणमवितर्कं च सत्त्वं प्रविशते परम् 019a मनस्याकृतयो मग्ना मनस्त्वतिगतं मतिम् 019c मतिस्त्वतिगता ज्ञानं ज्ञानं त्वभिगतं परम् 020a इन्द्रियैर्मनसः सिद्धिर्न बुद्धिं बुध्यते मनः 020c न बुद्धिर्बुध्यतेऽव्यक्तं सूक्ष्मस्त्वेतानि पश्यति