001 मनुरुवाच 001a यदिन्द्रियैस्तूपकृतान्पुरस्तात्प्राप्तान्गुणान्संस्मरते चिराय 001c तेष्विन्द्रियेषूपहतेषु पश्चात्स बुद्धिरूपः परमः स्वभावः 002a यथेन्द्रियार्थान्युगपत्समस्तान्नावेक्षते कृत्स्नमतुल्यकालम् 002c यथाबलं सञ्चरते स विद्वांस्तस्मात्स एकः परमः शरीरी 003a रजस्तमः सत्त्वमथो तृतीयं गच्छत्यसौ ज्ञानगुणान्विरूपान् 003c तथेन्द्रियाण्याविशते शरीरी हुताशनं वायुरिवेन्धनस्थम् 004a न चक्षुषा पश्यति रूपमात्मनो; न पश्यति स्पर्शनमिन्द्रियेन्द्रियम् 004c न श्रोत्रलिङ्गं श्रवणे निदर्शनं तथागतं पश्यति तद्विनश्यति 005a श्रोत्रादीनि न पश्यन्ति स्वं स्वमात्मानमात्मना 005c सर्वज्ञः सर्वदर्शी च क्षेत्रज्ञस्तानि पश्यति 006a यथा हिमवतः पार्श्वं पृष्ठं चन्द्रमसो यथा 006c न दृष्टपूर्वं मनुजैर्न च तन्नास्ति तावता 007a तद्वद्भूतेषु भूतात्मा सूक्ष्मो ज्ञानात्मवानसौ 007c अदृष्टपूर्वश्चक्षुर्भ्यां न चासौ नास्ति तावता 008a पश्यन्नपि यथा लक्ष्म जगत्सोमे न विन्दति 008c एवमस्ति न वेत्येतन्न च तन्न परायणम् 009a रूपवन्तमरूपत्वादुदयास्तमये बुधाः 009c धिया समनुपश्यन्ति तद्गताः सवितुर्गतिम् 010a तथा बुद्धिप्रदीपेन दूरस्थं सुविपश्चितः 010c प्रत्यासन्नं निनीषन्ति ज्ञेयं ज्ञानाभिसंहितम् 011a न हि खल्वनुपायेन कश्चिदर्थोऽभिसिध्यति 011c सूत्रजालैर्यथा मत्स्यान्बध्नन्ति जलजीविनः 012a मृगैर्मृगाणां ग्रहणं पक्षिणां पक्षिभिर्यथा 012c गजानां च गजैरेवं ज्ञेयं ज्ञानेन गृह्यते 013a अहिरेव ह्यहेः पादान्पश्यतीति निदर्शनम् 013c तद्वन्मूर्तिषु मूर्तिष्ठं ज्ञेयं ज्ञानेन पश्यति 014a नोत्सहन्ते यथा वेत्तुमिन्द्रियैरिन्द्रियाण्यपि 014c तथैवेह परा बुद्धिः परं बुद्ध्या न पश्यति 015a यथा चन्द्रो ह्यमावास्यामलिङ्गत्वान्न दृश्यते 015c न च नाशोऽस्य भवति तथा विद्धि शरीरिणम् 016a क्षीणकोशो ह्यमावास्यां चन्द्रमा न प्रकाशते 016c तद्वन्मूर्तिवियुक्तः सञ्शरीरी नोपलभ्यते 017a यथा कोशान्तरं प्राप्य चन्द्रमा भ्राजते पुनः 017c तद्वल्लिङ्गान्तरं प्राप्य शरीरी भ्राजते पुनः 018a जन्मवृद्धिक्षयश्चास्य प्रत्यक्षेणोपलभ्यते 018c सा तु चन्द्रमसो व्यक्तिर्न तु तस्य शरीरिणः 019a उत्पत्तिवृद्धिव्ययतो यथा स इति गृह्यते 019c चन्द्र एव त्वमावास्यां तथा भवति मूर्तिमान् 020a नाभिसर्पद्विमुञ्चद्वा शशिनं दृश्यते तमः 020c विसृजंश्चोपसर्पंश्च तद्वत्पश्य शरीरिणम् 021a यथा चन्द्रार्कसंयुक्तं तमस्तदुपलभ्यते 021c तद्वच्छरीरसंयुक्तः शरीरीत्युपलभ्यते 022a यथा चन्द्रार्कनिर्मुक्तः स राहुर्नोपलभ्यते 022c तद्वच्छरीरनिर्मुक्तः शरीरी नोपलभ्यते 023a यथा चन्द्रो ह्यमावास्यां नक्षत्रैर्युज्यते गतः 023c तद्वच्छरीरनिर्मुक्तः फलैर्युज्यति कर्मणः