001 मनुरुवाच 001a अक्षरात्खं ततो वायुर्वायोर्ज्योतिस्ततो जलम् 001c जलात्प्रसूता जगती जगत्यां जायते जगत् 002a इमे शरीरैर्जलमेव गत्वा जलाच्च तेजः पवनोऽन्तरिक्षम् 002c खाद्वै निवर्तन्ति नभाविनस्ते ये भाविनस्ते परमाप्नुवन्ति 003a नोष्णं न शीतं मृदु नापि तीक्ष्णं नाम्लं कषायं मधुरं न तिक्तम् 003c न शब्दवन्नापि च गन्धवत्तन्न रूपवत्तत्परमस्वभावम् 004a स्पर्शं तनुर्वेद रसं तु जिह्वा घ्राणं च गन्धाञ्श्रवणे च शब्दान् 004c रूपाणि चक्षुर्न च तत्परं यद्गृह्णन्त्यनध्यात्मविदो मनुष्याः 005a निवर्तयित्वा रसनं रसेभ्यो; घ्राणं च गन्धाच्छ्रवणे च शब्दात् 005c स्पर्शात्तनुं रूपगुणात्तु चक्षुस्ततः परं पश्यति स्वं स्वभावम् 006a यतो गृहीत्वा हि करोति यच्च यस्मिंश्च तामारभते प्रवृत्तिम् 006c यस्मिंश्च यद्येन च यश्च कर्ता तत्कारणं तं समुपायमाहुः 007a यच्चाभिभूः साधकं व्यापकं च यन्मन्त्रवच्छंस्यते चैव लोके 007c यः सर्वहेतुः परमार्थकारी तत्कारणं कार्यमतो यदन्यत् 008a यथा च कश्चित्सुकृतैर्मनुष्यः शुभाशुभं प्राप्नुतेऽथाविरोधात् 008c एवं शरीरेषु शुभाशुभेषु; स्वकर्मजैर्ज्ञानमिदं निबद्धम् 009a यथा प्रदीपः पुरतः प्रदीप्तः प्रकाशमन्यस्य करोति दीप्यन् 009c तथेह पञ्चेन्द्रियदीपवृक्षा ज्ञानप्रदीप्ताः परवन्त एव 010a यथा हि राज्ञो बहवो ह्यमात्याः पृथक्प्रमाणं प्रवदन्ति युक्ताः 010c तद्वच्छरीरेषु भवन्ति पञ्च ज्ञानैकदेशः परमः स तेभ्यः 011a यथार्चिषोऽग्नेः पवनस्य वेगा मरीचयोऽर्कस्य नदीषु चापः 011c गच्छन्ति चायान्ति च तन्यमानास्तद्वच्छरीराणि शरीरिणां तु 012a यथा च कश्चित्परशुं गृहीत्वा धूमं न पश्येज्ज्वलनं च काष्ठे 012c तद्वच्छरीरोदरपाणिपादं छित्त्वा न पश्यन्ति ततो यदन्यत् 013a तान्येव काष्ठानि यथा विमथ्य धूमं च पश्येज्ज्वलनं च योगात् 013c तद्वत्सुबुद्धिः सममिन्द्रियत्वाद्बुधः परं पश्यति स्वं स्वभावम् 014a यथात्मनोऽङ्गं पतितं पृथिव्यां स्वप्नान्तरे पश्यति चात्मनोऽन्यत् 014c श्रोत्रादियुक्तः सुमनाः सुबुद्धिर्लिङ्गात्तथा गच्छति लिङ्गमन्यत् 015a उत्पत्तिवृद्धिक्षयसन्निपातैर्न युज्यतेऽसौ परमः शरीरी 015c अनेन लिङ्गेन तु लिङ्गमन्यद्गच्छत्यदृष्टः प्रतिसन्धियोगात् 016a न चक्षुषा पश्यति रूपमात्मनो न चापि संस्पर्शमुपैति किञ्चित् 016c न चापि तैः साधयतेऽथ कार्यं ते तं न पश्यन्ति स पश्यते तान् 017a यथा प्रदीपे ज्वलतोऽनलस्य सन्तापजं रूपमुपैति किञ्चित् 017c न चान्तरं रूपगुणं बिभर्ति तथैव तद्दृश्यते रूपमस्य 018a यथा मनुष्यः परिमुच्य कायमदृश्यमन्यद्विशते शरीरम् 018c विसृज्य भूतेषु महत्सु देहं तदाश्रयं चैव बिभर्ति रूपम् 019a खं वायुमग्निं सलिलं तथोर्वीं समन्ततोऽभ्याविशते शरीरी 019c नानाश्रयाः कर्मसु वर्तमानाः श्रोत्रादयः पञ्च गुणाञ्श्रयन्ते 020a श्रोत्रं खतो घ्राणमथो पृथिव्यास्तेजोमयं रूपमथो विपाकः 020c जलाश्रयः स्वेद उक्तो रसश्च वाय्वात्मकः स्पर्शकृतो गुणश्च 021a महत्सु भूतेषु वसन्ति पञ्च पञ्चेन्द्रियार्थाश्च तथेन्द्रियेषु 021c सर्वाणि चैतानि मनोनुगानि बुद्धिं मनोऽन्वेति मनः स्वभावम् 022a शुभाशुभं कर्म कृतं यदस्य तदेव प्रत्याददते स्वदेहे 022c मनोऽनुवर्तन्ति परावराणि जलौकसः स्रोत इवानुकूलम् 023a चलं यथा दृष्टिपथं परैति सूक्ष्मं महद्रूपमिवाभिपाति 023c स्वरूपमालोचयते च रूपं परं तथा बुद्धिपथं परैति