001 युधिष्ठिर उवाच 001a किं फलं ज्ञानयोगस्य वेदानां नियमस्य च 001c भूतात्मा वा कथं ज्ञेयस्तन्मे ब्रूहि पितामह 002 भीष्म उवाच 002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002c मनोः प्रजापतेर्वादं महर्षेश्च बृहस्पतेः 003a प्रजापतिं श्रेष्ठतमं पृथिव्यां देवर्षिसङ्घप्रवरो महर्षिः 003c बृहस्पतिः प्रश्नमिमं पुराणं पप्रच्छ शिष्योऽथ गुरुं प्रणम्य 004a यत्कारणं मन्त्रविधिः प्रवृत्तो ज्ञाने फलं यत्प्रवदन्ति विप्राः 004c यन्मन्त्रशब्दैरकृतप्रकाशं तदुच्यतां मे भगवन्यथावत् 005a यदर्थशास्त्रागममन्त्रविद्भिर्यज्ञैरनेकैर्वरगोप्रदानैः 005c फलं महद्भिर्यदुपास्यते च तत्किं कथं वा भविता क्व वा तत् 006a मही महीजाः पवनोऽन्तरिक्षं जलौकसश्चैव जलं दिवं च 006c दिवौकसश्चैव यतः प्रसूतास्तदुच्यतां मे भगवन्पुराणम् 007a ज्ञानं यतः प्रार्थयते नरो वै ततस्तदर्था भवति प्रवृत्तिः 007c न चाप्यहं वेद परं पुराणं मिथ्याप्रवृत्तिं च कथं नु कुर्याम् 008a ऋक्सामसङ्घांश्च यजूंषि चाहं छन्दांसि नक्षत्रगतिं निरुक्तम् 008c अधीत्य च व्याकरणं सकल्पं शिक्षां च भूतप्रकृतिं न वेद्मि 009a स मे भवाञ्शंसतु सर्वमेतज्ज्ञाने फलं कर्मणि वा यदस्ति 009c यथा च देहाच्च्यवते शरीरी पुनः शरीरं च यथाभ्युपैति 010 मनुरुवाच 010a यद्यत्प्रियं यस्य सुखं तदाहुस्तदेव दुःखं प्रवदन्त्यनिष्टम् 010c इष्टं च मे स्यादितरच्च न स्यादेतत्कृते कर्मविधिः प्रवृत्तः 010e इष्टं त्वनिष्टं च न मां भजेतेत्येतत्कृते ज्ञानविधिः प्रवृत्तः 011a कामात्मकाश्छन्दसि कर्मयोगा एभिर्विमुक्तः परमश्नुवीत 011c नानाविधे कर्मपथे सुखार्थी नरः प्रवृत्तो न परं प्रयाति 011e परं हि तत्कर्मपथादपेतं निराशिषं ब्रह्मपरं ह्यवश्यम् 012a प्रजाः सृष्टा मनसा कर्मणा च द्वावप्येतौ सत्पथौ लोकजुष्टौ 012c दृष्ट्वा कर्म शाश्वतं चान्तवच्च मनस्त्यागः कारणं नान्यदस्ति 013a स्वेनात्मना चक्षुरिव प्रणेता निशात्यये तमसा संवृतात्मा 013c ज्ञानं तु विज्ञानगुणेन युक्तं कर्माशुभं पश्यति वर्जनीयम् 014a सर्पान्कुशाग्राणि तथोदपानं ज्ञात्वा मनुष्याः परिवर्जयन्ति 014c अज्ञानतस्तत्र पतन्ति मूढा ज्ञाने फलं पश्य यथा विशिष्टम् 015a कृत्स्नस्तु मन्त्रो विधिवत्प्रयुक्तो यज्ञा यथोक्तास्त्वथ दक्षिणाश्च 015c अन्नप्रदानं मनसः समाधिः पञ्चात्मकं कर्मफलं वदन्ति 016a गुणात्मकं कर्म वदन्ति वेदास्तस्मान्मन्त्रा मन्त्रमूलं हि कर्म 016c विधिर्विधेयं मनसोपपत्तिः फलस्य भोक्ता तु यथा शरीरी 017a शब्दाश्च रूपाणि रसाश्च पुण्याः स्पर्शाश्च गन्धाश्च शुभास्तथैव 017c नरो नसंस्थानगतः प्रभुः स्यादेतत्फलं सिध्यति कर्मलोके 018a यद्यच्छरीरेण करोति कर्म शरीरयुक्तः समुपाश्नुते तत् 018c शरीरमेवायतनं सुखस्य दुःखस्य चाप्यायतनं शरीरम् 019a वाचा तु यत्कर्म करोति किञ्चिद्वाचैव सर्वं समुपाश्नुते तत् 019c मनस्तु यत्कर्म करोति किञ्चिन्मनःस्थ एवायमुपाश्नुते तत् 020a यथागुणं कर्मगणं फलार्थी करोत्ययं कर्मफले निविष्टः 020c तथा तथायं गुणसम्प्रयुक्तः शुभाशुभं कर्मफलं भुनक्ति 021a मत्स्यो यथा स्रोत इवाभिपाती तथा कृतं पूर्वमुपैति कर्म 021c शुभे त्वसौ तुष्यति दुष्कृते तु न तुष्यते वै परमः शरीरी 022a यतो जगत्सर्वमिदं प्रसूतं ज्ञात्वात्मवन्तो व्यतियान्ति यत्तत् 022c यन्मन्त्रशब्दैरकृतप्रकाशं तदुच्यमानं शृणु मे परं यत् 023a रसैर्वियुक्तं विविधैश्च गन्धैरशब्दमस्पर्शमरूपवच्च 023c अग्राह्यमव्यक्तमवर्णमेकं पञ्चप्रकारं ससृजे प्रजानाम् 024a न स्त्री पुमान्वापि नपुंसकं च न सन्न चासत्सदसच्च तन्न 024c पश्यन्ति यद्ब्रह्मविदो मनुष्यास्तदक्षरं न क्षरतीति विद्धि