001 युधिष्ठिर उवाच 001a किमुत्तरं तदा तौ स्म चक्रतुस्तेन भाषिते 001c ब्राह्मणो वाथ वा राजा तन्मे ब्रूहि पितामह 002a अथ वा तौ गतौ तत्र यदेतत्कीर्तितं त्वया 002c संवादो वा तयोः कोऽभूत्किं वा तौ तत्र चक्रतुः 003 भीष्म उवाच 003a तथेत्येवं प्रतिश्रुत्य धर्मं सम्पूज्य चाभिभो 003c यमं कालं च मृत्युं च स्वर्गं सम्पूज्य चार्हतः 004a पूर्वं ये चापरे तत्र समेता ब्राह्मणर्षभाः 004c सर्वान्सम्पूज्य शिरसा राजानं सोऽब्रवीद्वचः 005a फलेनानेन संयुक्तो राजर्षे गच्छ पुण्यताम् 005c भवता चाभ्यनुज्ञातो जपेयं भूय एव हि 006a वरश्च मम पूर्वं हि देव्या दत्तो महाबल 006c श्रद्धा ते जपतो नित्यं भवितेति विशाम्पते 007 राजोवाच 007a यद्येवमफला सिद्धिः श्रद्धा च जपितुं तव 007c गच्छ विप्र मया सार्धं जापकं फलमाप्नुहि 008 ब्राह्मण उवाच 008a कृतः प्रयत्नः सुमहान्सर्वेषां सन्निधाविह 008c सह तुल्यफलौ चावां गच्छावो यत्र नौ गतिः 009 भीष्म उवाच 009a व्यवसायं तयोस्तत्र विदित्वा त्रिदशेश्वरः 009c सह देवैरुपययौ लोकपालैस्तथैव च 010a साध्या विश्वेऽथ मरुतो ज्योतींषि सुमहान्ति च 010c नद्यः शैलाः समुद्राश्च तीर्थानि विविधानि च 011a तपांसि संयोगविधिर्वेदाः स्तोभाः सरस्वती 011c नारदः पर्वतश्चैव विश्वावसुर्हहा हुहूः 012a गन्धर्वश्चित्रसेनश्च परिवारगणैर्युतः 012c नागाः सिद्धाश्च मुनयो देवदेवः प्रजापतिः 012e विष्णुः सहस्रशीर्षश्च देवोऽचिन्त्यः समागमत् 013a अवाद्यन्तान्तरिक्षे च भेर्यस्तूर्याणि चाभिभो 013c पुष्पवर्षाणि दिव्यानि तत्र तेषां महात्मनाम् 013e ननृतुश्चाप्सरःसङ्घास्तत्र तत्र समन्ततः 014a अथ स्वर्गस्तथा रूपी ब्राह्मणं वाक्यमब्रवीत् 014c संसिद्धस्त्वं महाभाग त्वं च सिद्धस्तथा नृप 015a अथ तौ सहितौ राजन्नन्योन्येन विधानतः 015c विषयप्रतिसंहारमुभावेव प्रचक्रतुः 016a प्राणापानौ तथोदानं समानं व्यानमेव च 016c एवं तान्मनसि स्थाप्य दधतुः प्राणयोर्मनः 017a उपस्थितकृतौ तत्र नासिकाग्रमधो भ्रुवौ 017c कुङ्कुण्यां चैव मनसा शनैर्धारयतः स्म तौ 018a निश्चेष्टाभ्यां शरीराभ्यां स्थिरदृष्टी समाहितौ 018c जितासनौ तथाधाय मूर्धन्यात्मानमेव च 019a तालुदेशमथोद्दाल्य ब्राह्मणस्य महात्मनः 019c ज्योतिर्ज्वाला सुमहती जगाम त्रिदिवं तदा 020a हाहाकारस्ततो दिक्षु सर्वासु सुमहानभूत् 020c तज्ज्योतिः स्तूयमानं स्म ब्रह्माणं प्राविशत्तदा 021a ततः स्वागतमित्याह तत्तेजः स पितामहः 021c प्रादेशमात्रं पुरुषं प्रत्युद्गम्य विशाम्पते 022a भूयश्चैवापरं प्राह वचनं मधुरं स्म सः 022c जापकैस्तुल्यफलता योगानां नात्र संशयः 023a योगस्य तावदेतेभ्यः फलं प्रत्यक्षदर्शनम् 023c जापकानां विशिष्टं तु प्रत्युत्थानं समाधिकम् 024a उष्यतां मयि चेत्युक्त्वाचेतयत्स ततः पुनः 024c अथास्य प्रविवेशास्यं ब्राह्मणो विगतज्वरः 025a राजाप्येतेन विधिना भगवन्तं पितामहम् 025c यथैव द्विजशार्दूलस्तथैव प्राविशत्तदा 026a स्वयम्भुवमथो देवा अभिवाद्य ततोऽब्रुवन् 026c जापकार्थमयं यत्नस्तदर्थं वयमागताः 027a कृतपूजाविमौ तुल्यं त्वया तुल्यफलाविमौ 027c योगजापकयोर्दृष्टं फलं सुमहदद्य वै 027e सर्वाल्ँलोकानतीत्यैतौ गच्छेतां यत्र वाञ्छितम् 028 ब्रह्मोवाच 028a महास्मृतिं पठेद्यस्तु तथैवानुस्मृतिं शुभाम् 028c तावप्येतेन विधिना गच्छेतां मत्सलोकताम् 029a यश्च योगे भवेद्भक्तः सोऽपि नास्त्यत्र संशयः 029c विधिनानेन देहान्ते मम लोकानवाप्नुयात् 029e गम्यतां साधयिष्यामि यथास्थानानि सिद्धये 030 भीष्म उवाच 030a इत्युक्त्वा स तदा देवस्तत्रैवान्तरधीयत 030c आमन्त्र्य तं ततो देवा ययुः स्वं स्वं निवेशनम् 031a ते च सर्वे महात्मानो धर्मं सत्कृत्य तत्र वै 031c पृष्ठतोऽनुययू राजन्सर्वे सुप्रीतमानसाः 032a एतत्फलं जापकानां गतिश्चैव प्रकीर्तिता 032c यथाश्रुतं महाराज किं भूयः श्रोतुमिच्छसि