001 युधिष्ठिर उवाच 001a कालमृत्युयमानां च ब्राह्मणस्य च सत्तम 001c विवादो व्याहृतः पूर्वं तद्भवान्वक्तुमर्हति 002 भीष्म उवाच 002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002c इक्ष्वाकोः सूर्यपुत्रस्य यद्वृत्तं ब्राह्मणस्य च 003a कालस्य मृत्योश्च तथा यद्वृत्तं तन्निबोध मे 003c यथा स तेषां संवादो यस्मिन्स्थानेऽपि चाभवत् 004a ब्राह्मणो जापकः कश्चिद्धर्मवृत्तो महायशाः 004c षडङ्गविन्महाप्राज्ञः पैप्पलादिः स कौशिकः 005a तस्यापरोक्षं विज्ञानं षडङ्गेषु तथैव च 005c वेदेषु चैव निष्णातो हिमवत्पादसंश्रयः 006a सोऽन्त्यं ब्राह्मं तपस्तेपे संहितां संयतो जपन् 006c तस्य वर्षसहस्रं तु नियमेन तथा गतम् 007a स देव्या दर्शितः साक्षात्प्रीतास्मीति तदा किल 007c जप्यमावर्तयंस्तूष्णीं न च तां किञ्चिदब्रवीत् 008a तस्यानुकम्पया देवी प्रीता समभवत्तदा 008c वेदमाता ततस्तस्य तज्जप्यं समपूजयत् 009a समाप्तजप्यस्तूत्थाय शिरसा पादयोस्तथा 009c पपात देव्या धर्मात्मा वचनं चेदमब्रवीत् 010a दिष्ट्या देवि प्रसन्ना त्वं दर्शनं चागता मम 010c यदि वापि प्रसन्नासि जप्ये मे रमतां मनः 011 सावित्र्युवाच 011a किं प्रार्थयसि विप्रर्षे किं चेष्टं करवाणि ते 011c प्रब्रूहि जपतां श्रेष्ठ सर्वं तत्ते भविष्यति 012 भीष्म उवाच 012a इत्युक्तः स तदा देव्या विप्रः प्रोवाच धर्मवित् 012c जप्यं प्रति ममेच्छेयं वर्धत्विति पुनः पुनः 013a मनसश्च समाधिर्मे वर्धेताहरहः शुभे 013c तत्तथेति ततो देवी मधुरं प्रत्यभाषत 014a इदं चैवापरं प्राह देवी तत्प्रियकाम्यया 014c निरयं नैव यातासि यत्र याता द्विजर्षभाः 015a यास्यसि ब्रह्मणः स्थानमनिमित्तमनिन्दितम् 015c साधये भविता चैतद्यत्त्वयाहमिहार्थिता 016a नियतो जप चैकाग्रो धर्मस्त्वां समुपैष्यति 016c कालो मृत्युर्यमश्चैव समायास्यन्ति तेऽन्तिकम् 016e भविता च विवादोऽत्र तव तेषां च धर्मतः 017a एवमुक्त्वा भगवती जगाम भवनं स्वकम् 017c ब्राह्मणोऽपि जपन्नास्ते दिव्यं वर्षशतं तदा 018a समाप्ते नियमे तस्मिन्नथ विप्रस्य धीमतः 018c साक्षात्प्रीतस्तदा धर्मो दर्शयामास तं द्विजम् 019 धर्म उवाच 019a द्विजाते पश्य मां धर्ममहं त्वां द्रष्टुमागतः 019c जप्यस्य च फलं यत्ते सम्प्राप्तं तच्च मे शृणु 020a जिता लोकास्त्वया सर्वे ये दिव्या ये च मानुषाः 020c देवानां निरयान्साधो सर्वानुत्क्रम्य यास्यसि 021a प्राणत्यागं कुरु मुने गच्छ लोकान्यथेप्सितान् 021c त्यक्त्वात्मनः शरीरं च ततो लोकानवाप्स्यसि 022 ब्राह्मण उवाच 022a कृतं लोकैर्हि मे धर्म गच्छ च त्वं यथासुखम् 022c बहुदुःखसुखं देहं नोत्सृजेयमहं विभो 023 धर्म उवाच 023a अवश्यं भोः शरीरं ते त्यक्तव्यं मुनिपुङ्गव 023c स्वर्ग आरोह्यतां विप्र किं वा ते रोचतेऽनघ 024 ब्राह्मण उवाच 024a न रोचये स्वर्गवासं विना देहादहं विभो 024c गच्छ धर्म न मे श्रद्धा स्वर्गं गन्तुं विनात्मना 025 धर्म उवाच 025a अलं देहे मनः कृत्वा त्यक्त्वा देहं सुखी भव 025c गच्छ लोकानरजसो यत्र गत्वा न शोचसि 026 ब्राह्मण उवाच 026a रमे जपन्महाभाग कृतं लोकैः सनातनैः 026c सशरीरेण गन्तव्यो मया स्वर्गो न वा विभो 027 धर्म उवाच 027a यदि त्वं नेच्छसि त्यक्तुं शरीरं पश्य वै द्विज 027c एष कालस्तथा मृत्युर्यमश्च त्वामुपागताः 028 भीष्म उवाच 028a अथ वैवस्वतः कालो मृत्युश्च त्रितयं विभो 028c ब्राह्मणं तं महाभागमुपागम्येदमब्रुवन् 029a तपसोऽस्य सुतप्तस्य तथा सुचरितस्य च 029c फलप्राप्तिस्तव श्रेष्ठा यमोऽहं त्वामुपब्रुवे 030a यथावदस्य जप्यस्य फलं प्राप्तस्त्वमुत्तमम् 030c कालस्ते स्वर्गमारोढुं कालोऽहं त्वामुपागतः 031a मृत्युं मा विद्धि धर्मज्ञ रूपिणं स्वयमागतम् 031c कालेन चोदितं विप्र त्वामितो नेतुमद्य वै 032 ब्राह्मण उवाच 032a स्वागतं सूर्यपुत्राय कालाय च महात्मने 032c मृत्यवे चाथ धर्माय किं कार्यं करवाणि वः 033 भीष्म उवाच 033a अर्घ्यं पाद्यं च दत्त्वा स तेभ्यस्तत्र समागमे 033c अब्रवीत्परमप्रीतः स्वशक्त्या किं करोमि वः 034a तस्मिन्नेवाथ काले तु तीर्थयात्रामुपागतः 034c इक्ष्वाकुरगमत्तत्र समेता यत्र ते विभो 035a सर्वानेव तु राजर्षिः सम्पूज्याभिप्रणम्य च 035c कुशलप्रश्नमकरोत्सर्वेषां राजसत्तमः 036a तस्मै सोऽथासनं दत्त्वा पाद्यमर्घ्यं तथैव च 036c अब्रवीद्ब्राह्मणो वाक्यं कृत्वा कुशलसंविदम् 037a स्वागतं ते महाराज ब्रूहि यद्यदिहेच्छसि 037c स्वशक्त्या किं करोमीह तद्भवान्प्रब्रवीतु मे 038 राजोवाच 038a राजाहं ब्राह्मणश्च त्वं यदि षट्कर्मसंस्थितः 038c ददामि वसु किञ्चित्ते प्रार्थितं तद्वदस्व मे 039 ब्राह्मण उवाच 039a द्विविधा ब्राह्मणा राजन्धर्मश्च द्विविधः स्मृतः 039c प्रवृत्तश्च निवृत्तश्च निवृत्तोऽस्मि प्रतिग्रहात् 040a तेभ्यः प्रयच्छ दानानि ये प्रवृत्ता नराधिप 040c अहं न प्रतिगृह्णामि किमिष्टं किं ददानि ते 040e ब्रूहि त्वं नृपतिश्रेष्ठ तपसा साधयामि किम् 041 राजोवाच 041a क्षत्रियोऽहं न जानामि देहीति वचनं क्वचित् 041c प्रयच्छ युद्धमित्येवं वादिनः स्मो द्विजोत्तम 042 ब्राह्मण उवाच 042a तुष्यसि त्वं स्वधर्मेण तथा तुष्टा वयं नृप 042c अन्योन्यस्योत्तरं नास्ति यदिष्टं तत्समाचर 043 राजोवाच 043a स्वशक्त्याहं ददानीति त्वया पूर्वं प्रभाषितम् 043c याचे त्वां दीयतां मह्यं जप्यस्यास्य फलं द्विज 044 ब्राह्मण उवाच 044a युद्धं मम सदा वाणी याचतीति विकत्थसे 044c न च युद्धं मया सार्धं किमर्थं याचसे पुनः 045 राजोवाच 045a वाग्वज्रा ब्राह्मणाः प्रोक्ताः क्षत्रिया बाहुजीविनः 045c वाग्युद्धं तदिदं तीव्रं मम विप्र त्वया सह 046 ब्राह्मण उवाच 046a सैवाद्यापि प्रतिज्ञा मे स्वशक्त्या किं प्रदीयताम् 046c ब्रूहि दास्यामि राजेन्द्र विभवे सति माचिरम् 047 राजोवाच 047a यत्तद्वर्षशतं पूर्णं जप्यं वै जपता त्वया 047c फलं प्राप्तं तत्प्रयच्छ मम दित्सुर्भवान्यदि 048 ब्राह्मण उवाच 048a परमं गृह्यतां तस्य फलं यज्जपितं मया 048c अर्धं त्वमविचारेण फलं तस्य समाप्नुहि 049a अथ वा सर्वमेवेह जप्यकं मामकं फलम् 049c राजन्प्राप्नुहि कामं त्वं यदि सर्वमिहेच्छसि 050 राजोवाच 050a कृतं सर्वेण भद्रं ते जप्यं यद्याचितं मया 050c स्वस्ति तेऽस्तु गमिष्यामि किं च तस्य फलं वद 051 ब्राह्मण उवाच 051a फलप्राप्तिं न जानामि दत्तं यज्जपितं मया 051c अयं धर्मश्च कालश्च यमो मृत्युश्च साक्षिणः 052 राजोवाच 052a अज्ञातमस्य धर्मस्य फलं मे किं करिष्यति 052c प्राप्नोतु तत्फलं विप्रो नाहमिच्छे ससंशयम् 053 ब्राह्मण उवाच 053a नाददेऽपरवक्तव्यं दत्तं वाचा फलं मया 053c वाक्यं प्रमाणं राजर्षे ममापि तव चैव हि 054a नाभिसन्धिर्मया जप्ये कृतपूर्वः कथञ्चन 054c जप्यस्य राजशार्दूल कथं ज्ञास्याम्यहं फलम् 055a ददस्वेति त्वया चोक्तं ददामीति तथा मया 055c न वाचं दूषयिष्यामि सत्यं रक्ष स्थिरो भव 056a अथैवं वदतो मेऽद्य वचनं न करिष्यसि 056c महानधर्मो भविता तव राजन्मृषाकृतः 057a न युक्तं तु मृषा वाणी त्वया वक्तुमरिन्दम 057c तथा मयाप्यभ्यधिकं मृषा वक्तुं न शक्यते 058a संश्रुतं च मया पूर्वं ददानीत्यविचारितम् 058c तद्गृह्णीष्वाविचारेण यदि सत्ये स्थितो भवान् 059a इहागम्य हि मां राजञ्जाप्यं फलमयाचिथाः 059c तन्मन्निसृष्टं गृह्णीष्व भव सत्ये स्थिरोऽपि च 060a नायं लोकोऽस्ति न परो न च पूर्वान्स तारयेत् 060c कुत एवावरान्राजन्मृषावादपरायणः 061a न यज्ञाध्ययने दानं नियमास्तारयन्ति हि 061c तथा सत्यं परे लोके यथा वै पुरुषर्षभ 062a तपांसि यानि चीर्णानि चरिष्यसि च यत्तपः 062c समाः शतैः सहस्रैश्च तत्सत्यान्न विशिष्यते 063a सत्यमेकाक्षरं ब्रह्म सत्यमेकाक्षरं तपः 063c सत्यमेकाक्षरो यज्ञः सत्यमेकाक्षरं श्रुतम् 064a सत्यं वेदेषु जागर्ति फलं सत्ये परं स्मृतम् 064c सत्याद्धर्मो दमश्चैव सर्वं सत्ये प्रतिष्ठितम् 065a सत्यं वेदास्तथाङ्गानि सत्यं यज्ञस्तथा विधिः 065c व्रतचर्यास्तथा सत्यमोङ्कारः सत्यमेव च 066a प्राणिनां जननं सत्यं सत्यं सन्ततिरेव च 066c सत्येन वायुरभ्येति सत्येन तपते रविः 067a सत्येन चाग्निर्दहति स्वर्गः सत्ये प्रतिष्ठितः 067c सत्यं यज्ञस्तपो वेदाः स्तोभा मन्त्राः सरस्वती 068a तुलामारोपितो धर्मः सत्यं चैवेति नः श्रुतम् 068c समां कक्षां धारयतो यतः सत्यं ततोऽधिकम् 069a यतो धर्मस्ततः सत्यं सर्वं सत्येन वर्धते 069c किमर्थमनृतं कर्म कर्तुं राजंस्त्वमिच्छसि 070a सत्ये कुरु स्थिरं भावं मा राजन्ननृतं कृथाः 070c कस्मात्त्वमनृतं वाक्यं देहीति कुरुषेऽशुभम् 071a यदि जप्यफलं दत्तं मया नेषिष्यसे नृप 071c स्वधर्मेभ्यः परिभ्रष्टो लोकाननुचरिष्यसि 072a संश्रुत्य यो न दित्सेत याचित्वा यश्च नेच्छति 072c उभावानृतिकावेतौ न मृषा कर्तुमर्हसि 073 राजोवाच 073a योद्धव्यं रक्षितव्यं च क्षत्रधर्मः किल द्विज 073c दातारः क्षत्रियाः प्रोक्ता गृह्णीयां भवतः कथम् 074 ब्राह्मण उवाच 074a न छन्दयामि ते राजन्नापि ते गृहमाव्रजम् 074c इहागम्य तु याचित्वा न गृह्णीषे पुनः कथम् 075 धर्म उवाच 075a अविवादोऽस्तु युवयोर्वित्तं मां धर्ममागतम् 075c द्विजो दानफलैर्युक्तो राजा सत्यफलेन च 076 स्वर्ग उवाच 076a स्वर्गं मां विद्धि राजेन्द्र रूपिणं स्वयमागतम् 076c अविवादोऽस्तु युवयोरुभौ तुल्यफलौ युवाम् 077 राजोवाच 077a कृतं स्वर्गेण मे कार्यं गच्छ स्वर्ग यथासुखम् 077c विप्रो यदीच्छते दातुं प्रतीच्छतु च मे धनम् 078 ब्राह्मण उवाच 078a बाल्ये यदि स्यादज्ञानान्मया हस्तः प्रसारितः 078c निवृत्तिलक्षणं धर्ममुपासे संहितां जपन् 079a निवृत्तं मां चिरं राजन्विप्रं लोभयसे कथम् 079c स्वेन कार्यं करिष्यामि त्वत्तो नेच्छे फलं नृप 079e तपःस्वाध्यायशीलोऽहं निवृत्तश्च प्रतिग्रहात् 080 राजोवाच 080a यदि विप्र निसृष्टं ते जप्यस्य फलमुत्तमम् 080c आवयोर्यत्फलं किञ्चित्सहितं नौ तदस्त्विह 081a द्विजाः प्रतिग्रहे युक्ता दातारो राजवंशजाः 081c यदि धर्मः श्रुतो विप्र सहैव फलमस्तु नौ 082a मा वा भूत्सहभोज्यं नौ मदीयं फलमाप्नुहि 082c प्रतीच्छ मत्कृतं धर्मं यदि ते मय्यनुग्रहः 083 भीष्म उवाच 083a ततो विकृतचेष्टौ द्वौ पुरुषौ समुपस्थितौ 083c गृहीत्वान्योन्यमावेष्ट्य कुचेलावूचतुर्वचः 084a न मे धारयसीत्येको धारयामीति चापरः 084c इहास्ति नौ विवादोऽयमयं राजानुशासकः 085a सत्यं ब्रवीम्यहमिदं न मे धारयते भवान् 085c अनृतं वदसीह त्वमृणं ते धारयाम्यहम् 086a तावुभौ भृशसन्तप्तौ राजानमिदमूचतुः 086c परीक्ष्यतां यथा स्याव नावामिह विगर्हितौ 087 विरूप उवाच 087a धारयामि नरव्याघ्र विकृतस्येह गोः फलम् 087c ददतश्च न गृह्णाति विकृतो मे महीपते 088 विकृत उवाच 088a न मे धारयते किञ्चिद्विरूपोऽयं नराधिप 088c मिथ्या ब्रवीत्ययं हि त्वा मिथ्याभासं नराधिप 089 राजोवाच 089a विरूप किं धारयते भवानस्य वदस्व मे 089c श्रुत्वा तथा करिष्यामीत्येवं मे धीयते मतिः 090 विरूप उवाच 090a शृणुष्वावहितो राजन्यथैतद्धारयाम्यहम् 090c विकृतस्यास्य राजर्षे निखिलेन नरर्षभ 091a अनेन धर्मप्राप्त्यर्थं शुभा दत्ता पुरानघ 091c धेनुर्विप्राय राजर्षे तपःस्वाध्यायशीलिने 092a तस्याश्चायं मया राजन्फलमभ्येत्य याचितः 092c विकृतेन च मे दत्तं विशूद्धेनान्तरात्मना 093a ततो मे सुकृतं कर्म कृतमात्मविशुद्धये 093c गावौ हि कपिले क्रीत्वा वत्सले बहुदोहने 094a ते चोञ्छवृत्तये राजन्मया समपवर्जिते 094c यथाविधि यथाश्रद्धं तदस्याहं पुनः प्रभो 095a इहाद्य वै गृहीत्वा तत्प्रयच्छे द्विगुणं फलम् 095c एकस्याः पुरुषव्याघ्र कः शुद्धः कोऽत्र दोषवान् 096a एवं विवदमानौ स्वस्त्वामिहाभ्यागतौ नृप 096c कुरु धर्ममधर्मं वा विनये नौ समाधय 097a यदि नेच्छति मे दानं यथा दत्तमनेन वै 097c भवानत्र स्थिरो भूत्वा मार्गे स्थापयतु प्रभुः 098 राजोवाच 098a दीयमानं न गृह्णासि ऋणं कस्मात्त्वमद्य वै 098c यथैव तेऽभ्यनुज्ञातं तथा गृह्णीष्व माचिरम् 099 विकृत उवाच 099a दीयतामित्यनेनोक्तं ददानीति तथा मया 099c नायं मे धारयत्यत्र गम्यतां यत्र वाञ्छति 100 राजोवाच 100a ददतोऽस्य न गृह्णासि विषमं प्रतिभाति मे 100c दण्ड्यो हि त्वं मम मतो नास्त्यत्र खलु संशयः 101 विकृत उवाच 101a मयास्य दत्तं राजर्षे गृह्णीयां तत्कथं पुनः 101c काममत्रापराधो मे दण्ड्यमाज्ञापय प्रभो 102 विरूप उवाच 102a दीयमानं यदि मया नेषिष्यसि कथञ्चन 102c नियंस्यति त्वा नृपतिरयं धर्मानुशासकः 103 विकृत उवाच 103a स्वं मया याचितेनेह दत्तं कथमिहाद्य तत् 103c गृह्णीयां गच्छतु भवानभ्यनुज्ञां ददानि ते 104 ब्राह्मण उवाच 104a श्रुतमेतत्त्वया राजन्ननयोः कथितं द्वयोः 104c प्रतिज्ञातं मया यत्ते तद्गृहाणाविचारितम् 105 राजोवाच 105a प्रस्तुतं सुमहत्कार्यमावयोर्गह्वरं यथा 105c जापकस्य दृढीकारः कथमेतद्भविष्यति 106a यदि तावन्न गृह्णामि ब्राह्मणेनापवर्जितम् 106c कथं न लिप्येयमहं दोषेण महताद्य वै 107 भीष्म उवाच 107a तौ चोवाच स राजर्षिः कृतकार्यौ गमिष्यथः 107c नेदानीं मामिहासाद्य राजधर्मो भवेन्मृषा 108a स्वधर्मः परिपाल्यश्च राज्ञामेष विनिश्चयः 108c विप्रधर्मश्च सुगुरुर्मामनात्मानमाविशत् 109 ब्राह्मण उवाच 109a गृहाण धारयेऽहं ते याचितं ते श्रुतं मया 109c न चेद्ग्रहीष्यसे राजञ्शपिष्ये त्वां न संशयः 110 राजोवाच 110a धिग्राजधर्मं यस्यायं कार्यस्येह विनिश्चयः 110c इत्यर्थं मे ग्रहीतव्यं कथं तुल्यं भवेदिति 111a एष पाणिरपूर्वं भो निक्षेपार्थं प्रसारितः 111c यन्मे धारयसे विप्र तदिदानीं प्रदीयताम् 112 ब्राह्मण उवाच 112a संहितां जपता यावान्मया कश्चिद्गुणः कृतः 112c तत्सर्वं प्रतिगृह्णीष्व यदि किञ्चिदिहास्ति मे 113 राजोवाच 113a जलमेतन्निपतितं मम पाणौ द्विजोत्तम 113c सममस्तु सहैवास्तु प्रतिगृह्णातु वै भवान् 114 विरूप उवाच 114a कामक्रोधौ विद्धि नौ त्वमावाभ्यां कारितो भवान् 114c समेति च यदुक्तं ते समा लोकास्तवास्य च 115a नायं धारयते किञ्चिज्जिज्ञासा त्वत्कृते कृता 115c कालो धर्मस्तथा मृत्युः कामक्रोधौ तथा युवाम् 116a सर्वमन्योन्यनिकषे निघृष्टं पश्यतस्तव 116c गच्छ लोकाञ्जितान्स्वेन कर्मणा यत्र वाञ्छसि 117 भीष्म उवाच 117a जापकानां फलावाप्तिर्मया ते सम्प्रकीर्तिता 117c गतिः स्थानं च लोकाश्च जापकेन यथा जिताः 118a प्रयाति संहिताध्यायी ब्रह्माणं परमेष्ठिनम् 118c अथ वाग्निं समायाति सूर्यमाविशतेऽपि वा 119a स तैजसेन भावेन यदि तत्राश्नुते रतिम् 119c गुणांस्तेषां समादत्ते रागेण प्रतिमोहितः 120a एवं सोमे तथा वायौ भूम्याकाशशरीरगः 120c सरागस्तत्र वसति गुणांस्तेषां समाचरन् 121a अथ तत्र विरागी स गच्छति त्वथ संशयम् 121c परमव्ययमिच्छन्स तमेवाविशते पुनः 122a अमृताच्चामृतं प्राप्तः शीतीभूतो निरात्मवान् 122c ब्रह्मभूतः स निर्द्वन्द्वः सुखी शान्तो निरामयः 123a ब्रह्मस्थानमनावर्तमेकमक्षरसञ्ज्ञकम् 123c अदुःखमजरं शान्तं स्थानं तत्प्रतिपद्यते 124a चतुर्भिर्लक्षणैर्हीनं तथा षड्भिः सषोडशैः 124c पुरुषं समतिक्रम्य आकाशं प्रतिपद्यते 125a अथ वेच्छति रागात्मा सर्वं तदधितिष्ठति 125c यच्च प्रार्थयते तच्च मनसा प्रतिपद्यते 126a अथ वा वीक्षते लोकान्सर्वान्निरयसंस्थितान् 126c निःस्पृहः सर्वतो मुक्तस्तत्रैव रमते सुखी 127a एवमेषा महाराज जापकस्य गतिर्यथा 127c एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि