001 युधिष्ठिर उवाच 001a कीदृशो जापको याति निरयं वर्णयस्व मे 001c कौतूहलं हि मे जातं तद्भवान्वक्तुमर्हति 002 भीष्म उवाच 002a धर्मस्यांशः प्रसूतोऽसि धर्मिष्ठोऽसि स्वभावतः 002c धर्ममूलाश्रयं वाक्यं शृणुष्वावहितोऽनघ 003a अमूनि यानि स्थानानि देवानां परमात्मनाम् 003c नानासंस्थानवर्णानि नानारूपफलानि च 004a दिव्यानि कामचारीणि विमानानि सभास्तथा 004c आक्रीडा विविधा राजन्पद्मिन्यश्चामलोदकाः 005a चतुर्णां लोकपालानां शुक्रस्याथ बृहस्पतेः 005c मरुतां विश्वदेवानां साध्यानामश्विनोरपि 006a रुद्रादित्यवसूनां च तथान्येषां दिवौकसाम् 006c एते वै निरयास्तात स्थानस्य परमात्मनः 007a अभयं चानिमित्तं च न च क्लेशभयावृतम् 007c द्वाभ्यां मुक्तं त्रिभिर्मुक्तमष्टाभिस्त्रिभिरेव च 008a चतुर्लक्षणवर्जं तु चतुष्कारणवर्जितम् 008c अप्रहर्षमनानन्दमशोकं विगतक्लमम् 009a कालः सम्पच्यते तत्र न कालस्तत्र वै प्रभुः 009c स कालस्य प्रभू राजन्स्वर्गस्यापि तथेश्वरः 010a आत्मकेवलतां प्राप्तस्तत्र गत्वा न शोचति 010c ईदृशं परमं स्थानं निरयास्ते च तादृशाः 011a एते ते निरयाः प्रोक्ताः सर्व एव यथातथम् 011c तस्य स्थानवरस्येह सर्वे निरयसञ्ज्ञिताः