001 युधिष्ठिर उवाच 001a गतीनामुत्तमा प्राप्तिः कथिता जापकेष्विह 001c एकैवैषा गतिस्तेषामुत यान्त्यपरामपि 002 भीष्म उवाच 002a शृणुष्वावहितो राजञ्जापकानां गतिं विभो 002c यथा गच्छन्ति निरयमनेकं पुरुषर्षभ 003a यथोक्तमेतत्पूर्वं यो नानुतिष्ठति जापकः 003c एकदेशक्रियश्चात्र निरयं स निगच्छति 004a अवज्ञानेन कुरुते न तुष्यति न शोचति 004c ईदृशो जापको याति निरयं नात्र संशयः 005a अहङ्कारकृतश्चैव सर्वे निरयगामिनः 005c परावमानी पुरुषो भविता निरयोपगः 006a अभिध्यापूर्वकं जप्यं कुरुते यश्च मोहितः 006c यत्राभिध्यां स कुरुते तं वै निरयमृच्छति 007a अथैश्वर्यप्रवृत्तः सञ्जापकस्तत्र रज्यते 007c स एव निरयस्तस्य नासौ तस्मात्प्रमुच्यते 008a रागेण जापको जप्यं कुरुते तत्र मोहितः 008c यत्रास्य रागः पतति तत्र तत्रोपजायते 009a दुर्बुद्धिरकृतप्रज्ञश्चले मनसि तिष्ठति 009c चलामेव गतिं याति निरयं वाधिगच्छति 010a अकृतप्रज्ञको बालो मोहं गच्छति जापकः 010c स मोहान्निरयं याति तत्र गत्वानुशोचति 011a दृढग्राही करोमीति जप्यं जपति जापकः 011c न सम्पूर्णो न वा युक्तो निरयं सोऽधिगच्छति 012 युधिष्ठिर उवाच 012a अनिमित्तं परं यत्तदव्यक्तं ब्रह्मणि स्थितम् 012c सद्भूतो जापकः कस्मात्स शरीरमथाविशेत् 013 भीष्म उवाच 013a दुष्प्रज्ञानेन निरया बहवः समुदाहृताः 013c प्रशस्तं जापकत्वं च दोषाश्चैते तदात्मकाः