001 युधिष्ठिर उवाच 001a चातुराश्रम्यमुक्तं ते राजधर्मास्तथैव च 001c नानाश्रयाश्च बहव इतिहासाः पृथग्विधाः 002a श्रुतास्त्वत्तः कथाश्चैव धर्मयुक्ता महामते 002c सन्देहोऽस्ति तु कश्चिन्मे तद्भवान्वक्तुमर्हति 003a जापकानां फलावाप्तिं श्रोतुमिच्छामि भारत 003c किं फलं जपतामुक्तं क्व वा तिष्ठन्ति जापकाः 004a जपस्य च विधिं कृत्स्नं वक्तुमर्हसि मेऽनघ 004c जापका इति किं चैतत्साङ्ख्ययोगक्रियाविधिः 005a किं यज्ञविधिरेवैष किमेतज्जप्यमुच्यते 005c एतन्मे सर्वमाचक्ष्व सर्वज्ञो ह्यसि मे मतः 006 भीष्म उवाच 006a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 006c यमस्य यत्पुरा वृत्तं कालस्य ब्राह्मणस्य च 007a सन्न्यास एव वेदान्ते वर्तते जपनं प्रति 007c वेदवादाभिनिर्वृत्ता शान्तिर्ब्रह्मण्यवस्थितौ 007e मार्गौ तावप्युभावेतौ संश्रितौ न च संश्रितौ 008a यथा संश्रूयते राजन्कारणं चात्र वक्ष्यते 008c मनःसमाधिरत्रापि तथेन्द्रियजयः स्मृतः 009a सत्यमग्निपरीचारो विविक्तानां च सेवनम् 009c ध्यानं तपो दमः क्षान्तिरनसूया मिताशनम् 010a विषयप्रतिसंहारो मितजल्पस्तथा शमः 010c एष प्रवृत्तको धर्मो निवृत्तकमथो शृणु 011a यथा निवर्तते कर्म जपतो ब्रह्मचारिणः 011c एतत्सर्वमशेषेण यथोक्तं परिवर्जयेत् 011e त्रिविधं मार्गमासाद्य व्यक्ताव्यक्तमनाश्रयम् 012a कुशोच्चयनिषण्णः सन्कुशहस्तः कुशैः शिखी 012c चीरैः परिवृतस्तस्मिन्मध्ये छन्नः कुशैस्तथा 013a विषयेभ्यो नमस्कुर्याद्विषयान्न च भावयेत् 013c साम्यमुत्पाद्य मनसो मनस्येव मनो दधत् 014a तद्धिया ध्यायति ब्रह्म जपन्वै संहितां हिताम् 014c सन्न्यस्यत्यथ वा तां वै समाधौ पर्यवस्थितः 015a ध्यानमुत्पादयत्यत्र संहिताबलसंश्रयात् 015c शुद्धात्मा तपसा दान्तो निवृत्तद्वेषकामवान् 016a अरागमोहो निर्द्वन्द्वो न शोचति न सज्जते 016c न कर्ताकरणीयानां न कार्याणामिति स्थितिः 017a न चाहङ्कारयोगेन मनः प्रस्थापयेत्क्वचित् 017c न चात्मग्रहणे युक्तो नावमानी न चाक्रियः 018a ध्यानक्रियापरो युक्तो ध्यानवान्ध्याननिश्चयः 018c ध्याने समाधिमुत्पाद्य तदपि त्यजति क्रमात् 019a स वै तस्यामवस्थायां सर्वत्यागकृतः सुखी 019c निरीहस्त्यजति प्राणान्ब्राह्मीं संश्रयते तनुम् 020a अथ वा नेच्छते तत्र ब्रह्मकायनिषेवणम् 020c उत्क्रामति च मार्गस्थो नैव क्वचन जायते 021a आत्मबुद्धिं समास्थाय शान्तीभूतो निरामयः 021c अमृतं विरजःशुद्धमात्मानं प्रतिपद्यते