001 भीष्म उवाच 001a हन्त वक्ष्यामि ते पार्थ ध्यानयोगं चतुर्विधम् 001c यं ज्ञात्वा शाश्वतीं सिद्धिं गच्छन्ति परमर्षयः 002a यथा स्वनुष्ठितं ध्यानं तथा कुर्वन्ति योगिनः 002c महर्षयो ज्ञानतृप्ता निर्वाणगतमानसाः 003a नावर्तन्ते पुनः पार्थ मुक्ताः संसारदोषतः 003c जन्मदोषपरिक्षीणाः स्वभावे पर्यवस्थिताः 004a निर्द्वन्द्वा नित्यसत्त्वस्था विमुक्ता नित्यमाश्रिताः 004c असङ्गीन्यविवादीनि मनःशान्तिकराणि च 005a तत्र स्वाध्यायसंश्लिष्टमेकाग्रं धारयेन्मनः 005c पिण्डीकृत्येन्द्रियग्राममासीनः काष्ठवन्मुनिः 006a शब्दं न विन्देच्छ्रोत्रेण स्पर्शं त्वचा न वेदयेत् 006c रूपं न चक्षुषा विद्याज्जिह्वया न रसांस्तथा 007a घ्रेयाण्यपि च सर्वाणि जह्याद्ध्यानेन योगवित् 007c पञ्चवर्गप्रमाथीनि नेच्छेच्चैतानि वीर्यवान् 008a ततो मनसि संसज्य पञ्चवर्गं विचक्षणः 008c समादध्यान्मनो भ्रान्तमिन्द्रियैः सह पञ्चभिः 009a विसञ्चारि निरालम्बं पञ्चद्वारं चलाचलम् 009c पूर्वे ध्यानपथे धीरः समादध्यान्मनोऽन्तरम् 010a इन्द्रियाणि मनश्चैव यदा पिण्डीकरोत्ययम् 010c एष ध्यानपथः पूर्वो मया समनुवर्णितः 011a तस्य तत्पूर्वसंरुद्धं मनःषष्ठमनन्तरम् 011c स्फुरिष्यति समुद्भ्रान्तं विद्युदम्बुधरे यथा 012a जलबिन्दुर्यथा लोलः पर्णस्थः सर्वतश्चलः 012c एवमेवास्य तच्चित्तं भवति ध्यानवर्त्मनि 013a समाहितं क्षणं किञ्चिद्ध्यानवर्त्मनि तिष्ठति 013c पुनर्वायुपथं भ्रान्तं मनो भवति वायुवत् 014a अनिर्वेदो गतक्लेशो गततन्द्रीरमत्सरः 014c समादध्यात्पुनश्चेतो ध्यानेन ध्यानयोगवित् 015a विचारश्च वितर्कश्च विवेकश्चोपजायते 015c मुनेः समादधानस्य प्रथमं ध्यानमादितः 016a मनसा क्लिश्यमानस्तु समाधानं च कारयेत् 016c न निर्वेदं मुनिर्गच्छेत्कुर्यादेवात्मनो हितम् 017a पांसुभस्मकरीषाणां यथा वै राशयश्चिताः 017c सहसा वारिणा सिक्ता न यान्ति परिभावनाम् 018a किञ्चित्स्निग्धं यथा च स्याच्छुष्कचूर्णमभावितम् 018c क्रमशस्तु शनैर्गच्छेत्सर्वं तत्परिभावनम् 019a एवमेवेन्द्रियग्रामं शनैः सम्परिभावयेत् 019c संहरेत्क्रमशश्चैव स सम्यक्प्रशमिष्यति 020a स्वयमेव मनश्चैव पञ्चवर्गश्च भारत 020c पूर्वं ध्यानपथं प्राप्य नित्ययोगेन शाम्यति 021a न तत्पुरुषकारेण न च दैवेन केनचित् 021c सुखमेष्यति तत्तस्य यदेवं संयतात्मनः 022a सुखेन तेन संयुक्तो रंस्यते ध्यानकर्मणि 022c गच्छन्ति योगिनो ह्येवं निर्वाणं तन्निरामयम्