001 युधिष्ठिर उवाच 001a अध्यात्मं नाम यदिदं पुरुषस्येह चिन्त्यते 001c यदध्यात्मं यतश्चैतत्तन्मे ब्रूहि पितामह 002 भीष्म उवाच 002a अध्यात्ममिति मां पार्थ यदेतदनुपृच्छसि 002c तद्व्याख्यास्यामि ते तात श्रेयस्करतरं सुखम् 003a यज्ज्ञात्वा पुरुषो लोके प्रीतिं सौख्यं च विन्दति 003c फललाभश्च सद्यः स्यात्सर्वभूतहितं च तत् 004a पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् 004c महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ 005a ततः सृष्टानि तत्रैव तानि यान्ति पुनः पुनः 005c महाभूतानि भूतेषु सागरस्योर्मयो यथा 006a प्रसार्य च यथाङ्गानि कूर्मः संहरते पुनः 006c तद्वद्भूतानि भूतात्मा सृष्ट्वा संहरते पुनः 007a महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् 007c अकरोत्तेषु वैषम्यं तत्तु जीवोऽनु पश्यति 008a शब्दः श्रोत्रं तथा खानि त्रयमाकाशयोनिजम् 008c वायोस्त्वक्स्पर्शचेष्टाश्च वागित्येतच्चतुष्टयम् 009a रूपं चक्षुस्तथा पक्तिस्त्रिविधं तेज उच्यते 009c रसः क्लेदश्च जिह्वा च त्रयो जलगुणाः स्मृताः 010a घ्रेयं घ्राणं शरीरं च ते तु भूमिगुणास्त्रयः 010c महाभूतानि पञ्चैव षष्ठं तु मन उच्यते 011a इन्द्रियाणि मनश्चैव विज्ञानान्यस्य भारत 011c सप्तमी बुद्धिरित्याहुः क्षेत्रज्ञः पुनरष्टमः 012a चक्षुरालोकनायैव संशयं कुरुते मनः 012c बुद्धिरध्यवसायाय क्षेत्रज्ञः साक्षिवत्स्थितः 013a ऊर्ध्वं पादतलाभ्यां यदर्वागूर्ध्वं च पश्यति 013c एतेन सर्वमेवेदं विद्ध्यभिव्याप्तमन्तरम् 014a पुरुषे चेन्द्रियाणीह वेदितव्यानि कृत्स्नशः 014c तमो रजश्च सत्त्वं च विद्धि भावांस्तदाश्रयान् 015a एतां बुद्ध्वा नरो बुद्ध्या भूतानामागतिं गतिम् 015c समवेक्ष्य शनैश्चैव लभते शममुत्तमम् 016a गुणान्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि 016c मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः 017a इति तन्मयमेवैतत्सर्वं स्थावरजङ्गमम् 017c प्रलीयते चोद्भवति तस्मान्निर्दिश्यते तथा 018a येन पश्यति तच्चक्षुः शृणोति श्रोत्रमुच्यते 018c जिघ्रति घ्राणमित्याहू रसं जानाति जिह्वया 019a त्वचा स्पृशति च स्पर्शान्बुद्धिर्विक्रियतेऽसकृत् 019c येन सङ्कल्पयत्यर्थं किञ्चिद्भवति तन्मनः 020a अधिष्ठानानि बुद्धेर्हि पृथगर्थानि पञ्चधा 020c पञ्चेन्द्रियाणि यान्याहुस्तान्यदृश्योऽधितिष्ठति 021a पुरुषाधिष्ठिता बुद्धिस्त्रिषु भावेषु वर्तते 021c कदाचिल्लभते प्रीतिं कदाचिदनुशोचति 022a न सुखेन न दुःखेन कदाचिदपि वर्तते 022c एवं नराणां मनसि त्रिषु भावेष्ववस्थिता 023a सेयं भावात्मिका भावांस्त्रीनेतान्नातिवर्तते 023c सरितां सागरो भर्ता महावेलामिवोर्मिमान् 024a अतिभावगता बुद्धिर्भावे मनसि वर्तते 024c प्रवर्तमानं हि रजस्तद्भावमनुवर्तते 025a इन्द्रियाणि हि सर्वाणि प्रदर्शयति सा सदा 025c प्रीतिः सत्त्वं रजः शोकस्तमो मोहश्च ते त्रयः 026a ये ये च भावा लोकेऽस्मिन्सर्वेष्वेतेषु ते त्रिषु 026c इति बुद्धिगतिः सर्वा व्याख्याता तव भारत 027a इन्द्रियाणि च सर्वाणि विजेतव्यानि धीमता 027c सत्त्वं रजस्तमश्चैव प्राणिनां संश्रिताः सदा 028a त्रिविधा वेदना चैव सर्वसत्त्वेषु दृश्यते 028c सात्त्विकी राजसी चैव तामसी चेति भारत 029a सुखस्पर्शः सत्त्वगुणो दुःखस्पर्शो रजोगुणः 029c तमोगुणेन संयुक्तौ भवतोऽव्यावहारिकौ 030a तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत् 030c वर्तते सात्त्विको भाव इत्यवेक्षेत तत्तदा 031a अथ यद्दुःखसंयुक्तमतुष्टिकरमात्मनः 031c प्रवृत्तं रज इत्येव तन्नसंरभ्य चिन्तयेत् 032a अथ यन्मोहसंयुक्तमव्यक्तमिव यद्भवेत् 032c अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् 033a प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता 033c कथञ्चिदभिवर्तन्त इत्येते सात्त्विका गुणाः 034a अतुष्टिः परितापश्च शोको लोभस्तथाक्षमा 034c लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुभिः 035a अभिमानस्तथा मोहः प्रमादः स्वप्नतन्द्रिता 035c कथञ्चिदभिवर्तन्ते विविधास्तामसा गुणाः 036a दूरगं बहुधागामि प्रार्थनासंशयात्मकम् 036c मनः सुनियतं यस्य स सुखी प्रेत्य चेह च 037a सत्त्वक्षेत्रज्ञयोरेतदन्तरं पश्य सूक्ष्मयोः 037c सृजते तु गुणानेक एको न सृजते गुणान् 038a मशकोदुम्बरौ चापि सम्प्रयुक्तौ यथा सदा 038c अन्योन्यमन्यौ च यथा सम्प्रयोगस्तथा तयोः 039a पृथग्भूतौ प्रकृत्या तौ सम्प्रयुक्तौ च सर्वदा 039c यथा मत्स्यो जलं चैव सम्प्रयुक्तौ तथैव तौ 040a न गुणा विदुरात्मानं स गुणान्वेत्ति सर्वशः 040c परिद्रष्टा गुणानां च संस्रष्टा मन्यते सदा 041a इन्द्रियैस्तु प्रदीपार्थं कुरुते बुद्धिसप्तमैः 041c निर्विचेष्टैरजानद्भिः परमात्मा प्रदीपवत् 042a सृजते हि गुणान्सत्त्वं क्षेत्रज्ञः परिपश्यति 042c सम्प्रयोगस्तयोरेष सत्त्वक्षेत्रज्ञयोर्ध्रुवः 043a आश्रयो नास्ति सत्त्वस्य क्षेत्रज्ञस्य च कश्चन 043c सत्त्वं मनः संसृजति न गुणान्वै कदाचन 044a रश्मींस्तेषां स मनसा यदा सम्यङ्नियच्छति 044c तदा प्रकाशतेऽस्यात्मा घटे दीपो ज्वलन्निव 045a त्यक्त्वा यः प्राकृतं कर्म नित्यमात्मरतिर्मुनिः 045c सर्वभूतात्मभूतः स्यात्स गच्छेत्परमां गतिम् 046a यथा वारिचरः पक्षी लिप्यमानो न लिप्यते 046c एवमेव कृतप्रज्ञो भूतेषु परिवर्तते 047a एवंस्वभावमेवैतत्स्वबुद्ध्या विहरेन्नरः 047c अशोचन्नप्रहृष्यंश्च चरेद्विगतमत्सरः 048a स्वभावसिद्ध्या संसिद्धान्स नित्यं सृजते गुणान् 048c ऊर्णनाभिर्यथा स्रष्टा विज्ञेयास्तन्तुवद्गुणाः 049a प्रध्वस्ता न निवर्तन्ते निवृत्तिर्नोपलभ्यते 049c प्रत्यक्षेण परोक्षं तदनुमानेन सिध्यति 050a एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे 050c उभयं सम्प्रधार्यैतदध्यवस्येद्यथामति 051a इतीमं हृदयग्रन्थिं बुद्धिभेदमयं दृढम् 051c विमुच्य सुखमासीत न शोचेच्छिन्नसंशयः 052a मलिनाः प्राप्नुयुः शुद्धिं यथा पूर्णां नदीं नराः 052c अवगाह्य सुविद्वंसो विद्धि ज्ञानमिदं तथा 053a महानदीं हि पारज्ञस्तप्यते न तरन्यथा 053c एवं ये विदुरध्यात्मं कैवल्यं ज्ञानमुत्तमम् 054a एतां बुद्ध्वा नरः सर्वां भूतानामागतिं गतिम् 054c अवेक्ष्य च शनैर्बुद्ध्या लभते शं परं ततः 055a त्रिवर्गो यस्य विदितः प्राग्ज्योतिः स विमुच्यते 055c अन्विष्य मनसा युक्तस्तत्त्वदर्शी निरुत्सुकः 056a न चात्मा शक्यते द्रष्टुमिन्द्रियेषु विभागशः 056c तत्र तत्र विसृष्टेषु दुर्जयेष्वकृतात्मभिः 057a एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम् 057c विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः 058a न भवति विदुषां ततो भयं यदविदुषां सुमहद्भयं भवेत् 058c न हि गतिरधिकास्ति कस्य चित्सति हि गुणे प्रवदन्त्यतुल्यताम् 059a यत्करोत्यनभिसन्धिपूर्वकं तच्च निर्णुदति यत्पुरा कृतम् 059c नाप्रियं तदुभयं कुतः प्रियं तस्य तज्जनयतीह कुर्वतः 060a लोक आतुरजनान्विराविणस्तत्तदेव बहु पश्य शोचतः 060c तत्र पश्य कुशलानशोचतो ये विदुस्तदुभयं पदं सदा