001 युधिष्ठिर उवाच 001a आचारस्य विधिं तात प्रोच्यमानं त्वयानघ 001c श्रोतुमिच्छामि धर्मज्ञ सर्वज्ञो ह्यसि मे मतः 002 भीष्म उवाच 002a दुराचारा दुर्विचेष्टा दुष्प्रज्ञाः प्रियसाहसाः 002c असन्तो ह्यभिविख्याताः सन्तश्चाचारलक्षणाः 003a पुरीषं यदि वा मूत्रं ये न कुर्वन्ति मानवाः 003c राजमार्गे गवां मध्ये धान्यमध्ये च ते शुभाः 004a शौचमावश्यकं कृत्वा देवतानां च तर्पणम् 004c धर्ममाहुर्मनुष्याणामुपस्पृश्य नदीं तरेत् 005a सूर्यं सदोपतिष्ठेत न स्वप्याद्भास्करोदये 005c सायं प्रातर्जपन्सन्ध्यां तिष्ठेत्पूर्वां तथापराम् 006a पञ्चार्द्रो भोजनं कुर्यात्प्राङ्मुखो मौनमास्थितः 006c न निन्देदन्नभक्ष्यांश्च स्वाद्वस्वादु च भक्षयेत् 007a नार्द्रपाणिः समुत्तिष्ठेन्नार्द्रपादः स्वपेन्निशि 007c देवर्षिनारदप्रोक्तमेतदाचारलक्षणम् 008a शुचिकाममनड्वाहं देवगोष्ठं चतुष्पथम् 008c ब्राह्मणं धार्मिकं चैव नित्यं कुर्यात्प्रदक्षिणम् 009a अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च 009c सामान्यं भोजनं भृत्यैः पुरुषस्य प्रशस्यते 010a सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् 010c नान्तरा भोजनं दृष्टमुपवासी तथा भवेत् 011a होमकाले तथा जुह्वन्नृतुकाले तथा व्रजन् 011c अनन्यस्त्रीजनः प्राज्ञो ब्रह्मचारी तथा भवेत् 012a अमृतं ब्राह्मणोच्छिष्टं जनन्या हृदयं कृतम् 012c उपासीत जनः सत्यं सत्यं सन्त उपासते 013a यजुषा संस्कृतं मांसं निवृत्तो मांसभक्षणात् 013c न भक्षयेद्वृथामांसं पृष्ठमांसं च वर्जयेत् 014a स्वदेशे परदेशे वा अतिथिं नोपवासयेत् 014c काम्यं कर्मफलं लब्ध्वा गुरूणामुपपादयेत् 015a गुरुभ्य आसनं देयं कर्तव्यं चाभिवादनम् 015c गुरूनभ्यर्च्य युज्यन्ते आयुषा यशसा श्रिया 016a नेक्षेतादित्यमुद्यन्तं न च नग्नां परस्त्रियम् 016c मैथुनं समये धर्म्यं गुह्यं चैव समाचरेत् 017a तीर्थानां हृदयं तीर्थं शुचीनां हृदयं शुचिः 017c सर्वमार्यकृतं शौचं वालसंस्पर्शनानि च 018a दर्शने दर्शने नित्यं सुखप्रश्नमुदाहरेत् 018c सायं प्रातश्च विप्राणां प्रदिष्टमभिवादनम् 019a देवगोष्ठे गवां मध्ये ब्राह्मणानां क्रियापथे 019c स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् 020a पण्यानां शोभनं पण्यं कृषीणां बाद्यते कृषिः 020c बहुकारं च सस्यानां वाह्ये वाह्यं तथा गवाम् 021a सम्पन्नं भोजने नित्यं पानीये तर्पणं तथा 021c सुशृतं पायसे ब्रूयाद्यवाग्वां कृसरे तथा 022a श्मश्रुकर्मणि सम्प्राप्ते क्षुते स्नानेऽथ भोजने 022c व्याधितानां च सर्वेषामायुष्यमभिनन्दनम् 023a प्रत्यादित्यं न मेहेत न पश्येदात्मनः शकृत् 023c सुतस्त्रिया च शयनं सहभोज्यं च वर्जयेत् 024a त्वङ्कारं नामधेयं च ज्येष्ठानां परिवर्जयेत् 024c अवराणां समानानामुभयेषां न दुष्यति 025a हृदयं पापवृत्तानां पापमाख्याति वैकृतम् 025c ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने 026a ज्ञानपूर्वं कृतं पापं छादयन्त्यबहुश्रुताः 026c नैनं मनुष्याः पश्यन्ति पश्यन्ति त्रिदिवौकसः 027a पापेन हि कृतं पापं पापमेवानुवर्तते 027c धार्मिकेण कृतो धर्मः कर्तारमनुवर्तते 028a पापं कृतं न स्मरतीह मूढो विवर्तमानस्य तदेति कर्तुः 028c राहुर्यथा चन्द्रमुपैति चापि तथाबुधं पापमुपैति कर्म 029a आशया सञ्चितं द्रव्यं यत्काले नेह भुज्यते 029c तद्बुधा न प्रशंसन्ति मरणं न प्रतीक्षते 030a मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः 030c तस्मात्सर्वेषु भूतेषु मनसा शिवमाचरेत् 031a एक एव चरेद्धर्मं नास्ति धर्मे सहायता 031c केवलं विधिमासाद्य सहायः किं करिष्यति 032a देवा योनिर्मनुष्याणां देवानाममृतं दिवि 032c प्रेत्यभावे सुखं धर्माच्छश्वत्तैरुपभुज्यते