001 भृगुरुवाच 001A वानप्रस्थाः खलु ऋषिधर्ममनुसरन्तः पुण्यानि तीर्थानि नदीप्रस्रवणानि सुविविक्तेष्वरण्येषु मृगमहिषवराहसृमरगजाकीर्णेषु तपस्यन्तोऽनुसञ्चरन्ति 001B त्यक्तग्राम्यवस्त्राहारोपभोगा वन्यौषधिमूलफलपर्णपरिमितविचित्रनियताहाराः स्थानासनिनो भूमिपाषाणसिकताशर्करावालुकाभस्मशायिनः काशकुशचर्मवल्कलसंवृताङ्गाः केशश्मश्रुनखरोमधारिणो नियतकालोपस्पर्शना अस्कन्नहोमबलिकालानुष्ठायिनः समित्कुशकुसुमोपहारहोमार्जनलब्धविश्रामाः शीतोष्णपवननिष्टप्तविभिन्नसर्वत्वचो विविधनियमयोगचर्याविहितधर्मानुष्ठानहृतमांसशोणितास्त्वगस्थिभूता धृतिपराः सत्त्वयोगाच्छरीराण्युद्वहन्ति 002a यस्त्वेतां नियतश्चर्यां ब्रह्मर्षिविहितां चरेत् 002c स दहेदग्निवद्दोषाञ्जयेल्लोकांश्च दुर्जयान् 003A परिव्राजकानां पुनराचारस्तद्यथा 003B विमुच्याग्निधनकलत्रपरिबर्हसङ्गानात्मनः स्नेहपाशानवधूय परिव्रजन्ति समलोष्टाश्मकाञ्चनास्त्रिवर्गप्रवृत्तेष्वारम्भेष्वसक्तबुद्धयोऽरिमित्रोदासीनेषु तुल्यवृत्तयः स्थावरजरायुजाण्डजस्वेदजोद्भिज्जानां भूतानां वाङ्मनःकर्मभिरनभिद्रोहिणोऽनिकेताः पर्वतपुलिनवृक्षमूलदेवतायतनान्यनुचरन्तो वासार्थमुपेयुर्नगरं ग्रामं वा नगरे पञ्चरात्रिका ग्रामैकरात्रिकाः 003C प्रविश्य च प्राणधारणमात्रार्थं द्विजातीनां भवनान्यसङ्कीर्णकर्मणामुपतिष्ठेयुः पात्रपतितायाचितभैक्षाः कामक्रोधदर्पमोहलोभकार्पण्यदम्भपरिवादाभिमानहिंसानिवृत्ता इति 004A भवति चात्र श्लोकः 004a अभयं सर्वभूतेभ्यो दत्त्वा चरति यो मुनिः 004c न तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्वचित् 005a कृत्वाग्निहोत्रं स्वशरीरसंस्थं; शारीरमग्निं स्वमुखे जुहोति 005c यो भैक्षचर्योपगतैर्हविर्भि;श्चिताग्निनां स व्यतियाति लोकान् 006a मोक्षाश्रमं यः कुरुते यथोक्तं; शुचिः सुसङ्कल्पितबुद्धियुक्तः 006c अनिन्धनं ज्योतिरिव प्रशान्तं; स ब्रह्मलोकं श्रयते द्विजातिः 007 भरद्वाज उवाच 007a अस्माल्लोकात्परो लोकः श्रूयते नोपलभ्यते 007c तमहं ज्ञातुमिच्छामि तद्भवान्वक्तुमर्हति 008 भृगुरुवाच 008a उत्तरे हिमवत्पार्श्वे पुण्ये सर्वगुणान्विते 008c पुण्यः क्षेम्यश्च काम्यश्च स वरो लोक उच्यते 009a तत्र ह्यपापकर्माणः शुचयोऽत्यन्तनिर्मलाः 009c लोभमोहपरित्यक्ता मानवा निरुपद्रवाः 010a स स्वर्गसदृशो देशस्तत्र ह्युक्ताः शुभा गुणाः 010c काले मृत्युः प्रभवति स्पृशन्ति व्याधयो न च 011a न लोभः परदारेषु स्वदारनिरतो जनः 011c न चान्योन्यवधस्तत्र द्रव्येषु न च विस्मयः 011e परोक्षधर्मो नैवास्ति सन्देहो नापि जायते 012a कृतस्य तु फलं तत्र प्रत्यक्षमुपलभ्यते 012c शय्यायानासनोपेताः प्रासादभवनाश्रयाः 012e सर्वकामैर्वृताः केचिद्धेमाभरणभूषिताः 013a प्राणधारणमात्रं तु केषाञ्चिदुपपद्यते 013c श्रमेण महता केचित्कुर्वन्ति प्राणधारणम् 014a इह धर्मपराः केचित्केचिन्नैकृतिका नराः 014c सुखिता दुःखिताः केचिन्निर्धना धनिनोऽपरे 015a इह श्रमो भयं मोहः क्षुधा तीव्रा च जायते 015c लोभश्चार्थकृतो नॄणां येन मुह्यन्ति पण्डिताः 016a इह चिन्ता बहुविधा धर्माधर्मस्य कर्मणः 016c यस्तद्वेदोभयं प्राज्ञः पाप्मना न स लिप्यते 017a सोपधं निकृतिः स्तेयं परिवादोऽभ्यसूयता 017c परोपघातो हिंसा च पैशुन्यमनृतं तथा 018a एतानासेवते यस्तु तपस्तस्य प्रहीयते 018c यस्त्वेतान्नाचरेद्विद्वांस्तपस्तस्याभिवर्धते 019a कर्मभूमिरियं लोक इह कृत्वा शुभाशुभम् 019c शुभैः शुभमवाप्नोति कृत्वाशुभमतोऽन्यथा 020a इह प्रजापतिः पूर्वं देवाः सर्षिगणास्तथा 020c इष्ट्वेष्टतपसः पूता ब्रह्मलोकमुपाश्रिताः 021a उत्तरः पृथिवीभागः सर्वपुण्यतमः शुभः 021c इहत्यास्तत्र जायन्ते ये वै पुण्यकृतो जनाः 022a असत्कर्माणि कुर्वन्तस्तिर्यग्योनिषु चापरे 022c क्षीणायुषस्तथैवान्ये नश्यन्ति पृथिवीतले 023a अन्योन्यभक्षणे सक्ता लोभमोहसमन्विताः 023c इहैव परिवर्तन्ते न ते यान्त्युत्तरां दिशम् 024a ये गुरूनुपसेवन्ते नियता ब्रह्मचारिणः 024c पन्थानं सर्वलोकानां ते जानन्ति मनीषिणः 025a इत्युक्तोऽयं मया धर्मः सङ्क्षेपाद्ब्रह्मनिर्मितः 025c धर्माधर्मौ हि लोकस्य यो वै वेत्ति स बुद्धिमान् 026 भीष्म उवाच 026a इत्युक्तो भृगुणा राजन्भरद्वाजः प्रतापवान् 026c भृगुं परमधर्मात्मा विस्मितः प्रत्यपूजयत् 027a एष ते प्रभवो राजञ्जगतः सम्प्रकीर्तितः 027c निखिलेन महाप्राज्ञ किं भूयः श्रोतुमिच्छसि