001 भृगुरुवाच 001a सत्यं ब्रह्म तपः सत्यं सत्यं सृजति च प्रजाः 001c सत्येन धार्यते लोकः स्वर्गं सत्येन गच्छति 002a अनृतं तमसो रूपं तमसा नीयते ह्यधः 002c तमोग्रस्ता न पश्यन्ति प्रकाशं तमसावृतम् 003a स्वर्गः प्रकाश इत्याहुर्नरकं तम एव च 003c सत्यानृतात्तदुभयं प्राप्यते जगतीचरैः 004a तत्र त्वेवंविधा वृत्तिर्लोके सत्यानृता भवेत् 004c धर्माधर्मौ प्रकाशश्च तमो दुःखं सुखं तथा 005A तत्र यत्सत्यं स धर्मो यो धर्मः स प्रकाशो यः प्रकाशस्तत्सुखमिति 005B तत्र यदनृतं सोऽधर्मो योऽधर्मस्तत्तमो यत्तमस्तद्दुःखमिति 006A अत्रोच्यते 006a शारीरैर्मानसैर्दुःखैः सुखैश्चाप्यसुखोदयैः 006c लोकसृष्टिं प्रपश्यन्तो न मुह्यन्ति विचक्षणाः 007a तत्र दुःखविमोक्षार्थं प्रयतेत विचक्षणः 007c सुखं ह्यनित्यं भूतानामिह लोके परत्र च 008a राहुग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते 008c तथा तमोभिभूतानां भूतानां भ्रश्यते सुखम् 009A तत्खलु द्विविधं सुखमुच्यते शारीरं मानसं च 009B इह खल्वमुष्मिंश्च लोके सर्वारम्भप्रवृत्तयः सुखार्था अभिधीयन्ते 009C न ह्यतस्त्रिवर्गफलं विशिष्टतरमस्ति 009D स एष काम्यो गुणविशेषो धर्मार्थयोरारम्भस्तद्धेतुरस्योत्पत्तिः सुखप्रयोजना 010 भरद्वाज उवाच 010A यदेतद्भवताभिहितं सुखानां परमाः स्त्रिय इति तन्न गृह्णीमः 010B न ह्येषामृषीणां महति स्थितानामप्राप्य एष गुणविशेषो न चैनमभिलषन्ति 010C श्रूयते च भगवांस्त्रिलोककृद्ब्रह्मा प्रभुरेकाकी तिष्ठति 010D ब्रह्मचारी न कामसुखेष्वात्मानमवदधाति 010E अपि च भगवान्विश्वेश्वर उमापतिः काममभिवर्तमानमनङ्गत्वेन शममनयत् 010F तस्माद्ब्रूमो न महात्मभिरयं प्रतिगृहीतो न त्वेष तावद्विशिष्टो गुण इति नैतद्भगवतः प्रत्येमि 010G भगवता तूक्तं सुखानां परमाः स्त्रिय इति 010H लोकप्रवादोऽपि च भवति द्विविधः फलोदयः सुकृतात्सुखमवाप्यते दुष्कृताद्दुःखमिति 010I अत्रोच्यताम् 011 भृगुरुवाच 011A अनृतात्खलु तमः प्रादुर्भूतं तमोग्रस्ता अधर्ममेवानुवर्तन्ते न धर्मम् 011B क्रोधलोभमोहमानानृतादिभिरवच्छन्ना न खल्वस्मिल्ँलोके न चामुत्र सुखमाप्नुवन्ति 011C विविधव्याधिगणोपतापैरवकीर्यन्ते 011D वधबन्धरोगपरिक्लेशादिभिश्च क्षुत्पिपासाश्रमकृतैरुपतापैरुपतप्यन्ते 011E चण्डवातात्युष्णातिशीतकृतैश्च प्रतिभयैः शारीरैर्दुःखैरुपतप्यन्ते 011F बन्धुधनविनाशविप्रयोगकृतैश्च मानसैः शोकैरभिभूयन्ते जरामृत्युकृतैश्चान्यैरिति 012A यस्त्वेतैः शारीरैर्मानसैर्दुःखैर्न स्पृश्यते स सुखं वेद 012B न चैते दोषाः स्वर्गे प्रादुर्भवन्ति 012C तत्र भवति खलु 013a सुसुखः पवनः स्वर्गे गन्धश्च सुरभिस्तथा 013c क्षुत्पिपासाश्रमो नास्ति न जरा न च पापकम् 014a नित्यमेव सुखं स्वर्गे सुखं दुःखमिहोभयम् 014c नरके दुःखमेवाहुः समं तु परमं पदम् 015a पृथिवी सर्वभूतानां जनित्री तद्विधाः स्त्रियः 015c पुमान्प्रजापतिस्तत्र शुक्रं तेजोमयं विदुः 016a इत्येतल्लोकनिर्माणं ब्रह्मणा विहितं पुरा 016c प्रजा विपरिवर्तन्ते स्वैः स्वैः कर्मभिरावृताः