001 भरद्वाज उवाच 001a ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम 001c वैश्यः शूद्रश्च विप्रर्षे तद्ब्रूहि वदतां वर 002 भृगुरुवाच 002a जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः 002c वेदाध्ययनसम्पन्नः षट्सु कर्मस्ववस्थितः 003a शौचाचारस्थितः सम्यग्विघसाशी गुरुप्रियः 003c नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते 004a सत्यं दानं दमोऽद्रोह आनृशंस्यं क्षमा घृणा 004c तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः 005a क्षत्रजं सेवते कर्म वेदाध्ययनसम्मतः 005c दानादानरतिर्यश्च स वै क्षत्रिय उच्यते 006a कृषिगोरक्ष्यवाणिज्यं यो विशत्यनिशं शुचिः 006c वेदाध्ययनसम्पन्नः स वैश्य इति सञ्ज्ञितः 007a सर्वभक्षरतिर्नित्यं सर्वकर्मकरोऽशुचिः 007c त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः 008a शूद्रे चैतद्भवेल्लक्ष्यं द्विजे चैतन्न विद्यते 008c न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः 009a सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः 009c एतत्पवित्रं ज्ञातव्यं तथा चैवात्मसंयमः 010a नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात् 010c विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः 011a यस्य सर्वे समारम्भा निराशीर्बन्धनास्त्विह 011c त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान् 012a अहिंस्रः सर्वभूतानां मैत्रायणगतश्चरेत् 012c अविस्रम्भे न गन्तव्यं विस्रम्भे धारयेन्मनः 013a परिग्रहान्परित्यज्य भवेद्बुद्ध्या जितेन्द्रियः 013c अशोकं स्थानमातिष्ठेदिह चामुत्र चाभयम् 014a तपोनित्येन दान्तेन मुनिना संयतात्मना 014c अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना 015a इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः 015c अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् 016a मनः प्राणे निगृह्णीयात्प्राणं ब्रह्मणि धारयेत् 016c निर्वाणादेव निर्वाणो न च किञ्चिद्विचिन्तयेत् 016e सुखं वै ब्राह्मणो ब्रह्म स वै तेनाधिगच्छति 017a शौचेन सततं युक्तस्तथाचारसमन्वितः 017c सानुक्रोशश्च भूतेषु तद्द्विजातिषु लक्षणम्