001 भृगुरुवाच 001a असृजद्ब्राह्मणानेव पूर्वं ब्रह्मा प्रजापतिः 001c आत्मतेजोभिनिर्वृत्तान्भास्कराग्निसमप्रभान् 002a ततः सत्यं च धर्मं च तपो ब्रह्म च शाश्वतम् 002c आचारं चैव शौचं च स्वर्गाय विदधे प्रभुः 003a देवदानवगन्धर्वदैत्यासुरमहोरगाः 003c यक्षराक्षसनागाश्च पिशाचा मनुजास्तथा 004a ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च द्विजसत्तम 004c ये चान्ये भूतसङ्घानां सङ्घास्तांश्चापि निर्ममे 005a ब्राह्मणानां सितो वर्णः क्षत्रियाणां तु लोहितः 005c वैश्यानां पीतको वर्णः शूद्राणामसितस्तथा 006 भरद्वाज उवाच 006a चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभज्यते 006c सर्वेषां खलु वर्णानां दृश्यते वर्णसङ्करः 007a कामः क्रोधो भयं लोभः शोकश्चिन्ता क्षुधा श्रमः 007c सर्वेषां नः प्रभवति कस्माद्वर्णो विभज्यते 008a स्वेदमूत्रपुरीषाणि श्लेष्मा पित्तं सशोणितम् 008c तनुः क्षरति सर्वेषां कस्माद्वर्णो विभज्यते 009a जङ्गमानामसङ्ख्येयाः स्थावराणां च जातयः 009c तेषां विविधवर्णानां कुतो वर्णविनिश्चयः 010 भृगुरुवाच 010a न विशेषोऽस्ति वर्णानां सर्वं ब्राह्ममिदं जगत् 010c ब्रह्मणा पूर्वसृष्टं हि कर्मभिर्वर्णतां गतम् 011a कामभोगप्रियास्तीक्ष्णाः क्रोधनाः प्रियसाहसाः 011c त्यक्तस्वधर्मा रक्ताङ्गास्ते द्विजाः क्षत्रतां गताः 012a गोषु वृत्तिं समाधाय पीताः कृष्युपजीविनः 012c स्वधर्मं नानुतिष्ठन्ति ते द्विजा वैश्यतां गताः 013a हिंसानृतप्रिया लुब्धाः सर्वकर्मोपजीविनः 013c कृष्णाः शौचपरिभ्रष्टास्ते द्विजाः शूद्रतां गताः 014a इत्येतैः कर्मभिर्व्यस्ता द्विजा वर्णान्तरं गताः 014c धर्मो यज्ञक्रिया चैषां नित्यं न प्रतिषिध्यते 015a वर्णाश्चत्वार एते हि येषां ब्राह्मी सरस्वती 015c विहिता ब्रह्मणा पूर्वं लोभात्त्वज्ञानतां गताः 016a ब्राह्मणा धर्मतन्त्रस्थास्तपस्तेषां न नश्यति 016c ब्रह्म धारयतां नित्यं व्रतानि नियमांस्तथा 017a ब्रह्म चैतत्पुरा सृष्टं ये न जानन्त्यतद्विदः 017c तेषां बहुविधास्त्वन्यास्तत्र तत्र हि जातयः 018a पिशाचा राक्षसाः प्रेता बहुधा म्लेच्छजातयः 018c प्रनष्टज्ञानविज्ञानाः स्वच्छन्दाचारचेष्टिताः 019a प्रजा ब्राह्मणसंस्काराः स्वधर्मकृतनिश्चयाः 019c ऋषिभिः स्वेन तपसा सृज्यन्ते चापरे परैः 020a आदिदेवसमुद्भूता ब्रह्ममूलाक्षयाव्यया 020c सा सृष्टिर्मानसी नाम धर्मतन्त्रपरायणा