001 भृगुरुवाच 001a न प्रणाशोऽस्ति जीवानां दत्तस्य च कृतस्य च 001c याति देहान्तरं प्राणी शरीरं तु विशीर्यते 002a न शरीराश्रितो जीवस्तस्मिन्नष्टे प्रणश्यति 002c यथा समित्सु दग्धासु न प्रणश्यति पावकः 003 भरद्वाज उवाच 003a अग्नेर्यथा तथा तस्य यदि नाशो न विद्यते 003c इन्धनस्योपयोगान्ते स चाग्निर्नोपलभ्यते 004a नश्यतीत्येव जानामि शान्तमग्निमनिन्धनम् 004c गतिर्यस्य प्रमाणं वा संस्थानं वा न दृश्यते 005 भृगुरुवाच 005a समिधामुपयोगान्ते सन्नेवाग्निर्न दृश्यते 005c आकाशानुगतत्वाद्धि दुर्ग्रहः स निराश्रयः 006a तथा शरीरसन्त्यागे जीवो ह्याकाशवत्स्थितः 006c न गृह्यते सुसूक्ष्मत्वाद्यथा ज्योतिर्न संशयः 007a प्राणान्धारयते ह्यग्निः स जीव उपधार्यताम् 007c वायुसन्धारणो ह्यग्निर्नश्यत्युच्छ्वासनिग्रहात् 008a तस्मिन्नष्टे शरीराग्नौ शरीरं तदचेतनम् 008c पतितं याति भूमित्वमयनं तस्य हि क्षितिः 009a जङ्गमानां हि सर्वेषां स्थावराणां तथैव च 009c आकाशं पवनोऽभ्येति ज्योतिस्तमनुगच्छति 009e तत्र त्रयाणामेकत्वं द्वयं भूमौ प्रतिष्ठितम् 010a यत्र खं तत्र पवनस्तत्राग्निर्यत्र मारुतः 010c अमूर्तयस्ते विज्ञेया आपो मूर्तास्तथा क्षितिः 011 भरद्वाज उवाच 011a यद्यग्निमारुतौ भूमिः खमापश्च शरीरिषु 011c जीवः किंलक्षणस्तत्रेत्येतदाचक्ष्व मेऽनघ 012a पञ्चात्मके पञ्चरतौ पञ्चविज्ञानसंयुते 012c शरीरे प्राणिनां जीवं ज्ञातुमिच्छामि यादृशम् 013a मांसशोणितसङ्घाते मेदःस्नाय्वस्थिसञ्चये 013c भिद्यमाने शरीरे तु जीवो नैवोपलभ्यते 014a यद्यजीवं शरीरं तु पञ्चभूतसमन्वितम् 014c शारीरे मानसे दुःखे कस्तां वेदयते रुजम् 015a शृणोति कथितं जीवः कर्णाभ्यां न शृणोति तत् 015c महर्षे मनसि व्यग्रे तस्माज्जीवो निरर्थकः 016a सर्वं पश्यति यद्दृश्यं मनोयुक्तेन चक्षुषा 016c मनसि व्याकुले तद्धि पश्यन्नपि न पश्यति 017a न पश्यति न च ब्रूते न शृणोति न जिघ्रति 017c न च स्पर्शरसौ वेत्ति निद्रावशगतः पुनः 018a हृष्यति क्रुध्यति च कः शोचत्युद्विजते च कः 018c इच्छति ध्यायति द्वेष्टि वाचमीरयते च कः 019 भृगुरुवाच 019a न पञ्चसाधारणमत्र किञ्चिच्छरीरमेको वहतेऽन्तरात्मा 019c स वेत्ति गन्धांश्च रसाञ्श्रुतिं च स्पर्शं च रूपं च गुणाश्च येऽन्ये 020a पञ्चात्मके पञ्चगुणप्रदर्शी स सर्वगात्रानुगतोऽन्तरात्मा 020c स वेत्ति दुःखानि सुखानि चात्र तद्विप्रयोगात्तु न वेत्ति देहः 021a यदा न रूपं न स्पर्शो नोष्मभावश्च पावके 021c तदा शान्ते शरीराग्नौ देहं त्यक्त्वा स नश्यति 022a अम्मयं सर्वमेवेदमापो मूर्तिः शरीरिणाम् 022c तत्रात्मा मानसो ब्रह्मा सर्वभूतेषु लोककृत् 023a आत्मानं तं विजानीहि सर्वलोकहितात्मकम् 023c तस्मिन्यः सञ्श्रितो देहे ह्यब्बिन्दुरिव पुष्करे 024a क्षेत्रज्ञं तं विजानीहि नित्यं लोकहितात्मकम् 024c तमो रजश्च सत्त्वं च विद्धि जीवगुणानिमान् 025a सचेतनं जीवगुणं वदन्ति स चेष्टते चेष्टयते च सर्वम् 025c ततः परं क्षेत्रविदं वदन्ति प्रावर्तयद्यो भुवनानि सप्त 026a न जीवनाशोऽस्ति हि देहभेदे मिथ्यैतदाहुर्मृत इत्यबुद्धाः 026c जीवस्तु देहान्तरितः प्रयाति दशार्धतैवास्य शरीरभेदः 027a एवं सर्वेषु भूतेषु गूढश्चरति संवृतः 027c दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः 028a तं पूर्वापररात्रेषु युञ्जानः सततं बुधः 028c लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि 029a चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम् 029c प्रसन्नात्मात्मनि स्थित्वा सुखमक्षयमश्नुते 030a मानसोऽग्निः शरीरेषु जीव इत्यभिधीयते 030c सृष्टिः प्रजापतेरेषा भूताध्यात्मविनिश्चये