001 भरद्वाज उवाच 001a यदि प्राणायते वायुर्वायुरेव विचेष्टते 001c श्वसित्याभाषते चैव तस्माज्जीवो निरर्थकः 002a यद्यूष्मभाव आग्नेयो वह्निना पच्यते यदि 002c अग्निर्जरयते चैव तस्माज्जीवो निरर्थकः 003a जन्तोः प्रमीयमाणस्य जीवो नैवोपलभ्यते 003c वायुरेव जहात्येनमूष्मभावश्च नश्यति 004a यदि वातोपमो जीवः संश्लेषो यदि वायुना 004c वायुमण्डलवद्दृश्यो गच्छेत्सह मरुद्गणैः 005a श्लेषो यदि च वातेन यदि तस्मात्प्रणश्यति 005c महार्णवविमुक्तत्वादन्यत्सलिलभाजनम् 006a कूपे वा सलिलं दद्यात्प्रदीपं वा हुताशने 006c प्रक्षिप्तं नश्यति क्षिप्रं यथा नश्यत्यसौ तथा 007a पञ्चसाधारणे ह्यस्मिञ्शरीरे जीवितं कुतः 007c येषामन्यतरत्यागाच्चतुर्णां नास्ति सङ्ग्रहः 008a नश्यन्त्यापो ह्यनाहाराद्वायुरुच्छ्वासनिग्रहात् 008c नश्यते कोष्ठभेदात्खमग्निर्नश्यत्यभोजनात् 009a व्याधिव्रणपरिक्लेशैर्मेदिनी चैव शीर्यते 009c पीडितेऽन्यतरे ह्येषां सङ्घातो याति पञ्चधा 010a तस्मिन्पञ्चत्वमापन्ने जीवः किमनुधावति 010c किं वेदयति वा जीवः किं शृणोति ब्रवीति वा 011a एषा गौः परलोकस्थं तारयिष्यति मामिति 011c यो दत्त्वा म्रियते जन्तुः सा गौः कं तारयिष्यति 012a गौश्च प्रतिग्रहीता च दाता चैव समं यदा 012c इहैव विलयं यान्ति कुतस्तेषां समागमः 013a विहगैरुपयुक्तस्य शैलाग्रात्पतितस्य वा 013c अग्निना चोपयुक्तस्य कुतः सञ्जीवनं पुनः 014a छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति 014c बीजान्यस्य प्रवर्तन्ते मृतः क्व पुनरेष्यति 015a बीजमात्रं पुरा सृष्टं यदेतत्परिवर्तते 015c मृता मृताः प्रणश्यन्ति बीजाद्बीजं प्रवर्तते