001 भरद्वाज उवाच 001a पार्थिवं धातुमाश्रित्य शारीरोऽग्निः कथं भवेत् 001c अवकाशविशेषेण कथं वर्तयतेऽनिलः 002 भृगुरुवाच 002a वायोर्गतिमहं ब्रह्मन्कीर्तयिष्यामि तेऽनघ 002c प्राणिनामनिलो देहान्यथा चेष्टयते बली 003a श्रितो मूर्धानमग्निस्तु शरीरं परिपालयन् 003c प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते 004a स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः 004c मनो बुद्धिरहङ्कारो भूतानि विषयाश्च सः 005a एवं त्विह स सर्वत्र प्राणेन परिपाल्यते 005c पृष्ठतश्च समानेन स्वां स्वां गतिमुपाश्रितः 006a वस्तिमूलं गुदं चैव पावकं च समाश्रितः 006c वहन्मूत्रं पुरीषं चाप्यपानः परिवर्तते 007a प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते 007c उदान इति तं प्राहुरध्यात्मविदुषो जनाः 008a सन्धिष्वपि च सर्वेषु सन्निविष्टस्तथानिलः 008c शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते 009a धातुष्वग्निस्तु विततः समानेन समीरितः 009c रसान्धातूंश्च दोषांश्च वर्तयन्नवतिष्ठति 010a अपानप्राणयोर्मध्ये प्राणापानसमाहितः 010c समन्वितः स्वधिष्ठानः सम्यक्पचति पावकः 011a आस्यं हि पायुसंयुक्तमन्ते स्याद्गुदसञ्ज्ञितम् 011c स्रोतस्तस्मात्प्रजायन्ते सर्वस्रोतांसि देहिनाम् 012a प्राणानां सन्निपाताच्च सन्निपातः प्रजायते 012c ऊष्मा चाग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम् 013a अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते 013c स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् 014a पक्वाशयस्त्वधो नाभेरूर्ध्वमामाशयः स्थितः 014c नाभिमध्ये शरीरस्य सर्वे प्राणाः समाहिताः 015a प्रसृता हृदयात्सर्वे तिर्यगूर्ध्वमधस्तथा 015c वहन्त्यन्नरसान्नाड्यो दश प्राणप्रचोदिताः 016a एष मार्गोऽथ योगानां येन गच्छन्ति तत्पदम् 016c जितक्लमासना धीरा मूर्धन्यात्मानमादधुः 017a एवं सर्वेषु विहितः प्राणापानेषु देहिनाम् 017c तस्मिन्स्थितो नित्यमग्निः स्थाल्यामिव समाहितः