001 भरद्वाज उवाच 001a एते ते धातवः पञ्च ब्रह्मा यानसृजत्पुरा 001c आवृता यैरिमे लोका महाभूताभिसञ्ज्ञितैः 002a यदासृजत्सहस्राणि भूतानां स महामतिः 002c पञ्चानामेव भूतत्वं कथं समुपपद्यते 003 भृगुरुवाच 003a अमितानां महाशब्दो यान्ति भूतानि सम्भवम् 003c ततस्तेषां महाभूतशब्दोऽयमुपपद्यते 004a चेष्टा वयूः खमाकाशमूष्माग्निः सलिलं द्रवः 004c पृथिवी चात्र सङ्घातः शरीरं पाञ्चभौतिकम् 005a इत्येतैः पञ्चभिर्भूतैर्युक्तं स्थावरजङ्गमम् 005c श्रोत्रं घ्राणं रसः स्पर्शो दृष्टिश्चेन्द्रियसञ्ज्ञिताः 006 भरद्वाज उवाच 006a पञ्चभिर्यदि भूतैस्तु युक्ताः स्थावरजङ्गमाः 006c स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः 007a अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः 007c वृक्षाणां नोपलभ्यन्ते शरीरे पञ्च धातवः 008a न शृण्वन्ति न पश्यन्ति न गन्धरसवेदिनः 008c न च स्पर्शं विजानन्ति ते कथं पाञ्चभौतिकाः 009a अद्रवत्वादनग्नित्वादभौमत्वादवायुतः 009c आकाशस्याप्रमेयत्वाद्वृक्षाणां नास्ति भौतिकम् 010 भृगुरुवाच 010a घनानामपि वृक्षाणामाकाशोऽस्ति न संशयः 010c तेषां पुष्पफले व्यक्तिर्नित्यं समुपलभ्यते 011a ऊष्मतो ग्लानपर्णानां त्वक्फलं पुष्पमेव च 011c म्लायते चैव शीते न स्पर्शस्तेनात्र विद्यते 012a वाय्वग्न्यशनिनिष्पेषैः फलपुष्पं विशीर्यते 012c श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः 013a वल्ली वेष्टयते वृक्षं सर्वतश्चैव गच्छति 013c न ह्यदृष्टेश्च मार्गोऽस्ति तस्मात्पश्यन्ति पादपाः 014a पुण्यापुण्यैस्तथा गन्धैर्धूपैश्च विविधैरपि 014c अरोगाः पुष्पिताः सन्ति तस्माज्जिघ्रन्ति पादपाः 015a पादैः सलिलपानं च व्याधीनामपि दर्शनम् 015c व्याधिप्रतिक्रियत्वाच्च विद्यते रसनं द्रुमे 016a वक्त्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत् 016c तथा पवनसंयुक्तः पादैः पिबति पादपः 017a ग्रहणात्सुखदुःखस्य छिन्नस्य च विरोहणात् 017c जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते 018a तेन तज्जलमादत्तं जरयत्यग्निमारुतौ 018c आहारपरिणामाच्च स्नेहो वृद्धिश्च जायते 019a जङ्गमानां च सर्वेषां शरीरे पञ्च धातवः 019c प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते 020a त्वक्च मांसं तथास्थीनि मज्जा स्नायु च पञ्चमम् 020c इत्येतदिह सङ्ख्यातं शरीरे पृथिवीमयम् 021a तेजोऽग्निश्च तथा क्रोधश्चक्षुरूष्मा तथैव च 021c अग्निर्जरयते चापि पञ्चाग्नेयाः शरीरिणः 022a श्रोत्रं घ्राणमथास्यं च हृदयं कोष्ठमेव च 022c आकाशात्प्राणिनामेते शरीरे पञ्च धातवः 023a श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च 023c इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा 024a प्राणात्प्रणीयते प्राणी व्यानाद्व्यायच्छते तथा 024c गच्छत्यपानोऽवाक्चैव समानो हृद्यवस्थितः 025a उदानादुच्छ्वसिति च प्रतिभेदाच्च भाषते 025c इत्येते वायवः पञ्च चेष्टयन्तीह देहिनम् 026a भूमेर्गन्धगुणान्वेत्ति रसं चाद्भ्यः शरीरवान् 026c ज्योतिः पश्यति चक्षुर्भ्यां स्पर्शं वेत्ति च वायुना 027a तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान्गुणान् 027c इष्टश्चानिष्टगन्धश्च मधुरः कटुरेव च 028a निर्हारी संहतः स्निग्धो रूक्षो विशद एव च 028c एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः 029a शब्दः स्पर्शश्च रूपं च रसश्चापां गुणाः स्मृताः 029c रसज्ञानं तु वक्ष्यामि तन्मे निगदतः शृणु 030a रसो बहुविधः प्रोक्तः सूरिभिः प्रथितात्मभिः 030c मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा 030e एष षड्विधविस्तारो रसो वारिमयः स्मृतः 031a शब्दः स्पर्शश्च रूपं च त्रिगुणं ज्योतिरुच्यते 031c ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम् 032a ह्रस्वो दीर्घस्तथा स्थूलश्चतुरस्रोऽणु वृत्तवान् 032c शुक्लः कृष्णस्तथा रक्तो नीलः पीतोऽरुणस्तथा 032e एवं द्वादशविस्तारो ज्योतीरूपगुणः स्मृतः 033a शब्दस्पर्शौ तु विज्ञेयौ द्विगुणो वायुरुच्यते 033c वायव्यस्तु गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः 034a कठिनश्चिक्कणः श्लक्ष्णः पिच्छलो मृदुदारुणः 034c उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च 034e एवं द्वादशविस्तारो वायव्यो गुण उच्यते 035a तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम् 035c तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम् 036a षड्ज ऋषभगान्धारौ मध्यमः पञ्चमस्तथा 036c धैवतश्चापि विज्ञेयस्तथा चापि निषादकः 037a एष सप्तविधः प्रोक्तो गुण आकाशलक्षणः 037c त्रैस्वर्येण तु सर्वत्र स्थितोऽपि पटहादिषु 038a आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह 038c अव्याहतैश्चेतयते न वेत्ति विषमागतैः 039a आप्यायन्ते च ते नित्यं धातवस्तैस्तु धातुभिः 039c आपोऽग्निर्मारुतश्चैव नित्यं जाग्रति देहिषु