001 भरद्वाज उवाच 001a प्रजाविसर्गं विविधं कथं स सृजते प्रभुः 001c मेरुमध्ये स्थितो ब्रह्मा तद्ब्रूहि द्विजसत्तम 002 भृगुरुवाच 002a प्रजाविसर्गं विविधं मानसो मनसासृजत् 002c सन्धुक्षणार्थं भूतानां सृष्टं प्रथमतो जलम् 003a यत्प्राणाः सर्वभूतानां वर्धन्ते येन च प्रजाः 003c परित्यक्ताश्च नश्यन्ति तेनेदं सर्वमावृतम् 004a पृथिवी पर्वता मेघा मूर्तिमन्तश्च ये परे 004c सर्वं तद्वारुणं ज्ञेयमापस्तस्तम्भिरे पुनः 005 भरद्वाज उवाच 005a कथं सलिलमुत्पन्नं कथं चैवाग्निमारुतौ 005c कथं च मेदिनी सृष्टेत्यत्र मे संशयो महान् 006 भृगुरुवाच 006a ब्रह्मकल्पे पुरा ब्रह्मन्ब्रह्मर्षीणां समागमे 006c लोकसम्भवसन्देहः समुत्पन्नो महात्मनाम् 007a तेऽतिष्ठन्ध्यानमालम्ब्य मौनमास्थाय निश्चलाः 007c त्यक्ताहाराः पवनपा दिव्यं वर्षशतं द्विजाः 008a तेषां धर्ममयी वाणी सर्वेषां श्रोत्रमागमत् 008c दिव्या सरस्वती तत्र सम्बभूव नभस्तलात् 009a पुरा स्तिमितनिःशब्दमाकाशमचलोपमम् 009c नष्टचन्द्रार्कपवनं प्रसुप्तमिव सम्बभौ 010a ततः सलिलमुत्पन्नं तमसीवापरं तमः 010c तस्माच्च सलिलोत्पीडादुदतिष्ठत मारुतः 011a यथा भाजनमच्छिद्रं निःशब्दमिव लक्ष्यते 011c तच्चाम्भसा पूर्यमाणं सशब्दं कुरुतेऽनिलः 012a तथा सलिलसंरुद्धे नभसोऽन्ते निरन्तरे 012c भित्त्वार्णवतलं वायुः समुत्पतति घोषवान् 013a स एष चरते वायुरर्णवोत्पीडसम्भवः 013c आकाशस्थानमासाद्य प्रशान्तिं नाधिगच्छति 014a तस्मिन्वाय्वम्बुसङ्घर्षे दीप्ततेजा महाबलः 014c प्रादुर्भवत्यूर्ध्वशिखः कृत्वा वितिमिरं नभः 015a अग्निः पवनसंयुक्तः खात्समुत्पतते जलम् 015c सोऽग्निर्मारुतसंयोगाद्घनत्वमुपपद्यते 016a तस्याकाशे निपतितः स्नेहस्तिष्ठति योऽपरः 016c स सङ्घातत्वमापन्नो भूमित्वमुपगच्छति 017a रसानां सर्वगन्धानां स्नेहानां प्राणिनां तथा 017c भूमिर्योनिरिह ज्ञेया यस्यां सर्वं प्रसूयते