001 युधिष्ठिर उवाच 001a कुतः सृष्टमिदं विश्वं जगत्स्थावरजङ्गमम् 001c प्रलये च कमभ्येति तन्मे ब्रूहि पितामह 002a ससागरः सगगनः सशैलः सबलाहकः 002c सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः 003a कथं सृष्टानि भूतानि कथं वर्णविभक्तयः 003c शौचाशौचं कथं तेषां धर्माधर्मावथो कथम् 004a कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः 004c अस्माल्लोकादमुं लोकं सर्वं शंसतु नो भवान् 005 भीष्म उवाच 005a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 005c भृगुणाभिहितं श्रेष्ठं भरद्वाजाय पृच्छते 006a कैलासशिखरे दृष्ट्वा दीप्यमानमिवौजसा 006c भृगुं महर्षिमासीनं भरद्वाजोऽन्वपृच्छत 007a ससागरः सगगनः सशैलः सबलाहकः 007c सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः 008a कथं सृष्टानि भूतानि कथं वर्णविभक्तयः 008c शौचाशौचं कथं तेषां धर्माधर्मावथो कथम् 009a कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः 009c परलोकमिमं चापि सर्वं शंसतु नो भवान् 010a एवं स भगवान्पृष्टो भरद्वाजेन संशयम् 010c महर्षिर्ब्रह्मसङ्काशः सर्वं तस्मै ततोऽब्रवीत् 011a मानसो नाम विख्यातः श्रुतपूर्वो महर्षिभिः 011c अनादिनिधनो देवस्तथाभेद्योऽजरामरः 012a अव्यक्त इति विख्यातः शाश्वतोऽथाक्षरोऽव्ययः 012c यतः सृष्टानि भूतानि जायन्ते च म्रियन्ति च 013a सोऽसृजत्प्रथमं देवो महान्तं नाम नामतः 013c आकाशमिति विख्यातं सर्वभूतधरः प्रभुः 014a आकाशादभवद्वारि सलिलादग्निमारुतौ 014c अग्निमारुतसंयोगात्ततः समभवन्मही 015a ततस्तेजोमयं दिव्यं पद्मं सृष्टं स्वयम्भुवा 015c तस्मात्पद्मात्समभवद्ब्रह्मा वेदमयो निधिः 016a अहङ्कार इति ख्यातः सर्वभूतात्मभूतकृत् 016c ब्रह्मा वै सुमहातेजा य एते पञ्च धातवः 017a शैलास्तस्यास्थिसञ्ज्ञास्तु मेदो मांसं च मेदिनी 017c समुद्रास्तस्य रुधिरमाकाशमुदरं तथा 018a पवनश्चैव निःश्वासस्तेजोऽग्निर्निम्नगाः सिराः 018c अग्नीषोमौ तु चन्द्रार्कौ नयने तस्य विश्रुते 019a नभश्चोर्ध्वं शिरस्तस्य क्षितिः पादौ दिशो भुजौ 019c दुर्विज्ञेयो ह्यनन्तत्वात्सिद्धैरपि न संशयः 020a स एव भगवान्विष्णुरनन्त इति विश्रुतः 020c सर्वभूतात्मभूतस्थो दुर्विज्ञेयोऽकृतात्मभिः 021a अहङ्कारस्य यः स्रष्टा सर्वभूतभवाय वै 021c यतः समभवद्विश्वं पृष्टोऽहं यदिह त्वया 022 भरद्वाज उवाच 022a गगनस्य दिशां चैव भूतलस्यानिलस्य च 022c कान्यत्र परिमाणानि संशयं छिन्धि मेऽर्थतः 023 भृगुरुवाच 023a अनन्तमेतदाकाशं सिद्धचारणसेवितम् 023c रम्यं नानाश्रयाकीर्णं यस्यान्तो नाधिगम्यते 024a ऊर्ध्वं गतेरधस्तात्तु चन्द्रादित्यौ न दृश्यतः 024c तत्र देवाः स्वयं दीप्ता भास्वराश्चाग्निवर्चसः 025a ते चाप्यन्तं न पश्यन्ति नभसः प्रथितौजसः 025c दुर्गमत्वादनन्तत्वादिति मे विद्धि मानद 026a उपरिष्टोपरिष्टात्तु प्रज्वलद्भिः स्वयम्प्रभैः 026c निरुद्धमेतदाकाशमप्रमेयं सुरैरपि 027a पृथिव्यन्ते समुद्रास्तु समुद्रान्ते तमः स्मृतम् 027c तमसोऽन्ते जलं प्राहुर्जलस्यान्तेऽग्निरेव च 028a रसातलान्ते सलिलं जलान्ते पन्नगाधिपः 028c तदन्ते पुनराकाशमाकाशान्ते पुनर्जलम् 029a एवमन्तं भगवतः प्रमाणं सलिलस्य च 029c अग्निमारुततोयेभ्यो दुर्ज्ञेयं दैवतैरपि 030a अग्निमारुततोयानां वर्णाः क्षितितलस्य च 030c आकाशसदृशा ह्येते भिद्यन्ते तत्त्वदर्शनात् 031a पठन्ति चैव मुनयः शास्त्रेषु विविधेषु च 031c त्रैलोक्ये सागरे चैव प्रमाणं विहितं यथा 031e अदृश्याय त्वगम्याय कः प्रमाणमुदाहरेत् 032a सिद्धानां देवतानां च यदा परिमिता गतिः 032c तदा गौणमनन्तस्य नामानन्तेति विश्रुतम् 032e नामधेयानुरूपस्य मानसस्य महात्मनः 033a यदा तु दिव्यं तद्रूपं ह्रसते वर्धते पुनः 033c कोऽन्यस्तद्वेदितुं शक्तो योऽपि स्यात्तद्विधोऽपरः 034a ततः पुष्करतः सृष्टः सर्वज्ञो मूर्तिमान्प्रभुः 034c ब्रह्मा धर्ममयः पूर्वः प्रजापतिरनुत्तमः 035 भरद्वाज उवाच 035a पुष्कराद्यदि सम्भूतो ज्येष्ठं भवति पुष्करम् 035c ब्रह्माणं पूर्वजं चाह भवान्सन्देह एव मे 036 भृगुरुवाच 036a मानसस्येह या मूर्तिर्ब्रह्मत्वं समुपागता 036c तस्यासनविधानार्थं पृथिवी पद्ममुच्यते 037a कर्णिका तस्य पद्मस्य मेरुर्गगनमुच्छ्रितः 037c तस्य मध्ये स्थितो लोकान्सृजते जगतः प्रभुः