001 युधिष्ठिर उवाच 001a यद्यस्ति दत्तमिष्टं वा तपस्तप्तं तथैव च 001c गुरूणां चापि शुश्रूषा तन्मे ब्रूहि पितामह 002 भीष्म उवाच 002a आत्मनानर्थयुक्तेन पापे निविशते मनः 002c स कर्म कलुषं कृत्वा क्लेशे महति धीयते 003a दुर्भिक्षादेव दुर्भिक्षं क्लेशात्क्लेशं भयाद्भयम् 003c मृतेभ्यः प्रमृतं यान्ति दरिद्राः पापकारिणः 004a उत्सवादुत्सवं यान्ति स्वर्गात्स्वर्गं सुखात्सुखम् 004c श्रद्दधानाश्च दान्ताश्च धनाढ्याः शुभकारिणः 005a व्यालकुञ्जरदुर्गेषु सर्पचोरभयेषु च 005c हस्तावापेन गच्छन्ति नास्तिकाः किमतः परम् 006a प्रियदेवातिथेयाश्च वदान्याः प्रियसाधवः 006c क्षेम्यमात्मवतां मार्गमास्थिता हस्तदक्षिणम् 007a पुलाका इव धान्येषु पुत्तिका इव पक्षिषु 007c तद्विधास्ते मनुष्येषु येषां धर्मो न कारणम् 008a सुशीघ्रमपि धावन्तं विधानमनुधावति 008c शेते सह शयानेन येन येन यथा कृतम् 009a उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति 009c करोति कुर्वतः कर्म छायेवानुविधीयते 010a येन येन यथा यद्यत्पुरा कर्म समाचितम् 010c तत्तदेव नरो भुङ्क्ते नित्यं विहितमात्मना 011a स्वकर्मफलविक्षिप्तं विधानपरिरक्षितम् 011c भूतग्राममिमं कालः समन्तात्परिकर्षति 012a अचोद्यमानानि यथा पुष्पाणि च फलानि च 012c स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् 013a सम्मानश्चावमानश्च लाभालाभौ क्षयोदयौ 013c प्रवृत्ता विनिवर्तन्ते विधानान्ते पुनः पुनः 014a आत्मना विहितं दुःखमात्मना विहितं सुखम् 014c गर्भशय्यामुपादाय भुज्यते पौर्वदेहिकम् 015a बालो युवा च वृद्धश्च यत्करोति शुभाशुभम् 015c तस्यां तस्यामवस्थायां भुङ्क्ते जन्मनि जन्मनि 016a यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् 016c तथा पूर्वकृतं कर्म कर्तारमनुगच्छति 017a समुन्नमग्रतो वस्त्रं पश्चाच्छुध्यति कर्मणा 017c उपवासैः प्रतप्तानां दीर्घं सुखमनन्तकम् 018a दीर्घकालेन तपसा सेवितेन तपोवने 018c धर्मनिर्धूतपापानां संसिध्यन्ते मनोरथाः 019a शकुनीनामिवाकाशे मत्स्यानामिव चोदके 019c पदं यथा न दृश्येत तथा ज्ञानविदां गतिः 020a अलमन्यैरुपालम्भैः कीर्तितैश्च व्यतिक्रमैः 020c पेशलं चानुरूपं च कर्तव्यं हितमात्मनः