001 युधिष्ठिर उवाच 001a बान्धवाः कर्म वित्तं वा प्रज्ञा वेह पितामह 001c नरस्य का प्रतिष्ठा स्यादेतत्पृष्टो वदस्व मे 002 भीष्म उवाच 002a प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः 002c प्रज्ञा नैःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम् 003a प्रज्ञया प्रापितार्थो हि बलिरैश्वर्यसङ्क्षये 003c प्रह्रादो नमुचिर्मङ्किस्तस्याः किं विद्यते परम् 004a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 004c इन्द्रकाश्यपसंवादं तन्निबोध युधिष्ठिर 005a वैश्यः कश्चिदृषिं तात काश्यपं संशितव्रतम् 005c रथेन पातयामास श्रीमान्दृप्तस्तपस्विनम् 006a आर्तः स पतितः क्रुद्धस्त्यक्त्वात्मानमथाब्रवीत् 006c मरिष्याम्यधनस्येह जीवितार्थो न विद्यते 007a तथा मुमूर्षुमासीनमकूजन्तमचेतसम् 007c इन्द्रः सृगालरूपेण बभाषे क्रुद्धमानसम् 008a मनुष्ययोनिमिच्छन्ति सर्वभूतानि सर्वशः 008c मनुष्यत्वे च विप्रत्वं सर्व एवाभिनन्दति 009a मनुष्यो ब्राह्मणश्चासि श्रोत्रियश्चासि काश्यप 009c सुदुर्लभमवाप्यैतददोषान्मर्तुमिच्छसि 010a सर्वे लाभाः साभिमाना इति सत्या बत श्रुतिः 010c सन्तोषणीयरूपोऽसि लोभाद्यदभिमन्यसे 011a अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः 011c पाणिमद्भ्यः स्पृहास्माकं यथा तव धनस्य वै 012a न पाणिलाभादधिको लाभः कश्चन विद्यते 012c अपाणित्वाद्वयं ब्रह्मन्कण्टकान्नोद्धरामहे 013a अथ येषां पुनः पाणी देवदत्तौ दशाङ्गुली 013c उद्धरन्ति कृमीनङ्गाद्दशमानान्कषन्ति च 014a हिमवर्षातपानां च परित्राणानि कुर्वते 014c चेलमन्नं सुखं शय्यां निवातं चोपभुञ्जते 015a अधिष्ठाय च गां लोके भुञ्जते वाहयन्ति च 015c उपायैर्बहुभिश्चैव वश्यानात्मनि कुर्वते 016a ये खल्वजिह्वाः कृपणा अल्पप्राणा अपाणयः 016c सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा मुने 017a दिष्ट्या त्वं न सृगालो वै न कृमिर्न च मूषकः 017c न सर्पो न च मण्डूको न चान्यः पापयोनिजः 018a एतावतापि लाभेन तोष्टुमर्हसि काश्यप 018c किं पुनर्योऽसि सत्त्वानां सर्वेषां ब्राह्मणोत्तमः 019a इमे मां कृमयोऽदन्ति तेषामुद्धरणाय मे 019c नास्ति शक्तिरपाणित्वात्पश्यावस्थामिमां मम 020a अकार्यमिति चैवेमं नात्मानं सन्त्यजाम्यहम् 020c नेतः पापीयसीं योनिं पतेयमपरामिति 021a मध्ये वै पापयोनीनां सार्गाली यामहं गतः 021c पापीयस्यो बहुतरा इतोऽन्याः पापयोनयः 022a जात्यैवैके सुखतराः सन्त्यन्ये भृशदुःखिताः 022c नैकान्तसुखमेवेह क्वचित्पश्यामि कस्यचित् 023a मनुष्या ह्याढ्यतां प्राप्य राज्यमिच्छन्त्यनन्तरम् 023c राज्याद्देवत्वमिच्छन्ति देवत्वादिन्द्रतामपि 024a भवेस्त्वं यद्यपि त्वाढ्यो न राजा न च दैवतम् 024c देवत्वं प्राप्य चेन्द्रत्वं नैव तुष्येस्तथा सति 025a न तृप्तिः प्रियलाभेऽस्ति तृष्णा नाद्भिः प्रशाम्यति 025c सम्प्रज्वलति सा भूयः समिद्भिरिव पावकः 026a अस्त्येव त्वयि शोको वै हर्षश्चास्ति तथा त्वयि 026c सुखदुःखे तथा चोभे तत्र का परिदेवना 027a परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम् 027c मूलं रुन्धीन्द्रियग्रामं शकुन्तानिव पञ्जरे 028a न खल्वप्यरसज्ञस्य कामः क्वचन जायते 028c संस्पर्शाद्दर्शनाद्वापि श्रवणाद्वापि जायते 029a न त्वं स्मरसि वारुण्या लट्वाकानां च पक्षिणाम् 029c ताभ्यां चाभ्यधिको भक्ष्यो न कश्चिद्विद्यते क्वचित् 030a यानि चान्यानि दूरेषु भक्ष्यभोज्यानि काश्यप 030c येषामभुक्तपूर्वं ते तेषामस्मृतिरेव च 031a अप्राशनमसंस्पर्शमसन्दर्शनमेव च 031c पुरुषस्यैष नियमो मन्ये श्रेयो न संशयः 032a पाणिमन्तो धनैर्युक्ता बलवन्तो न संशयः 032c मनुष्या मानुषैरेव दासत्वमुपपादिताः 033a वधबन्धपरिक्लेशैः क्लिश्यन्ते च पुनः पुनः 033c ते खल्वपि रमन्ते च मोदन्ते च हसन्ति च 034a अपरे बाहुबलिनः कृतविद्या मनस्विनः 034c जुगुप्सितां सुकृपणां पापां वृत्तिमुपासते 035a उत्सहन्ते च ते वृत्तिमन्यामप्युपसेवितुम् 035c स्वकर्मणा तु नियतं भवितव्यं तु तत्तथा 036a न पुल्कसो न चण्डाल आत्मानं त्यक्तुमिच्छति 036c असन्तुष्टः स्वया योन्या मायां पश्यस्व यादृशीम् 037a दृष्ट्वा कुणीन्पक्षहतान्मनुष्यानामयाविनः 037c सुसम्पूर्णः स्वया योन्या लब्धलाभोऽसि काश्यप 038a यदि ब्राह्मण देहस्ते निरातङ्को निरामयः 038c अङ्गानि च समग्राणि न च लोकेषु धिक्कृतः 039a न केनचित्प्रवादेन सत्येनैवापहारिणा 039c धर्मायोत्तिष्ठ विप्रर्षे नात्मानं त्यक्तुमर्हसि 040a यदि ब्रह्मञ्शृणोष्येतच्छ्रद्दधासि च मे वचः 040c वेदोक्तस्य च धर्मस्य फलं मुख्यमवाप्स्यसि 041a स्वाध्यायमग्निसंस्कारमप्रमत्तोऽनुपालय 041c सत्यं दमं च दानं च स्पर्धिष्ठा मा च केनचित् 042a ये केचन स्वध्ययनाः प्राप्ता यजनयाजनम् 042c कथं ते जातु शोचेयुर्ध्यायेयुर्वाप्यशोभनम् 043a इच्छन्तस्ते विहाराय सुखं महदवाप्नुयुः 043c उत जाताः सुनक्षत्रे सुतीर्थाः सुमुहूर्तजाः 044a नक्षत्रेष्वासुरेष्वन्ये दुस्तीर्था दुर्मुहूर्तजाः 044c सम्पतन्त्यासुरीं योनिं यज्ञप्रसववर्जिताम् 045a अहमासं पण्डितको हैतुको वेदनिन्दकः 045c आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् 046a हेतुवादान्प्रवदिता वक्ता संसत्सु हेतुमत् 046c आक्रोष्टा चाभिवक्ता च ब्रह्मयज्ञेषु वै द्विजान् 047a नास्तिकः सर्वशङ्की च मूर्खः पण्डितमानिकः 047c तस्येयं फलनिर्वृत्तिः सृगालत्वं मम द्विज 048a अपि जातु तथा तत्स्यादहोरात्रशतैरपि 048c यदहं मानुषीं योनिं सृगालः प्राप्नुयां पुनः 049a सन्तुष्टश्चाप्रमत्तश्च यज्ञदानतपोरतिः 049c ज्ञेयज्ञाता भवेयं वै वर्ज्यवर्जयिता तथा 050a ततः स मुनिरुत्थाय काश्यपस्तमुवाच ह 050c अहो बतासि कुशलो बुद्धिमानिति विस्मितः 051a समवैक्षत तं विप्रो ज्ञानदीर्घेण चक्षुषा 051c ददर्श चैनं देवानामिन्द्रं देवं शचीपतिम् 052a ततः सम्पूजयामास काश्यपो हरिवाहनम् 052c अनुज्ञातश्च तेनाथ प्रविवेश स्वमाश्रमम्