001 युधिष्ठिर उवाच 001a केन वृत्तेन वृत्तज्ञ वीतशोकश्चरेन्महीम् 001c किं च कुर्वन्नरो लोके प्राप्नोति परमां गतिम् 002 भीष्म उवाच 002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002c प्रह्रादस्य च संवादं मुनेराजगरस्य च 003a चरन्तं ब्राह्मणं कञ्चित्कल्यचित्तमनामयम् 003c पप्रच्छ राजन्प्रह्रादो बुद्धिमान्प्राज्ञसम्मतः 004a स्वस्थः शक्तो मृदुर्दान्तो निर्विवित्सोऽनसूयकः 004c सुवाग्बहुमतो लोके प्राज्ञश्चरसि बालवत् 005a नैव प्रार्थयसे लाभं नालाभेष्वनुशोचसि 005c नित्यतृप्त इव ब्रह्मन्न किञ्चिदवमन्यसे 006a स्रोतसा ह्रियमाणासु प्रजास्वविमना इव 006c धर्मकामार्थकार्येषु कूटस्थ इव लक्ष्यसे 007a नानुतिष्ठसि धर्मार्थौ न कामे चापि वर्तसे 007c इन्द्रियार्थाननादृत्य मुक्तश्चरसि साक्षिवत् 008a का नु प्रज्ञा श्रुतं वा किं वृत्तिर्वा का नु ते मुने 008c क्षिप्रमाचक्ष्व मे ब्रह्मञ्श्रेयो यदिह मन्यसे 009a अनुयुक्तः स मेधावी लोकधर्मविधानवित् 009c उवाच श्लक्ष्णया वाचा प्रह्रादमनपार्थया 010a पश्यन्प्रह्राद भूतानामुत्पत्तिमनिमित्ततः 010c ह्रासं वृद्धिं विनाशं च न प्रहृष्ये न च व्यथे 011a स्वभावादेव सन्दृश्य वर्तमानाः प्रवृत्तयः 011c स्वभावनिरताः सर्वाः परितप्ये न केनचित् 012a पश्यन्प्रह्राद संयोगान्विप्रयोगपरायणान् 012c सञ्चयांश्च विनाशान्तान्न क्वचिद्विदधे मनः 013a अन्तवन्ति च भूतानि गुणयुक्तानि पश्यतः 013c उत्पत्तिनिधनज्ञस्य किं कार्यमवशिष्यते 014a जलजानामपि ह्यन्तं पर्यायेणोपलक्षये 014c महतामपि कायानां सूक्ष्माणां च महोदधौ 015a जङ्गमस्थावराणां च भूतानामसुराधिप 015c पार्थिवानामपि व्यक्तं मृत्युं पश्यामि सर्वशः 016a अन्तरिक्षचराणां च दानवोत्तम पक्षिणाम् 016c उत्तिष्ठति यथाकालं मृत्युर्बलवतामपि 017a दिवि सञ्चरमाणानि ह्रस्वानि च महान्ति च 017c ज्योतींषि च यथाकालं पतमानानि लक्षये 018a इति भूतानि सम्पश्यन्ननुषक्तानि मृत्युना 018c सर्वसामान्यतो विद्वान्कृतकृत्यः सुखं स्वपे 019a सुमहान्तमपि ग्रासं ग्रसे लब्धं यदृच्छया 019c शये पुनरभुञ्जानो दिवसानि बहून्यपि 020a आस्रवत्यपि मामन्नं पुनर्बहुगुणं बहु 020c पुनरल्पगुणं स्तोकं पुनर्नैवोपपद्यते 021a कणान्कदाचित्खादामि पिण्याकमपि च ग्रसे 021c भक्षये शालिमांसानि भक्षांश्चोच्चावचान्पुनः 022a शये कदाचित्पर्यङ्के भूमावपि पुनः शये 022c प्रासादेऽपि च मे शय्या कदाचिदुपपद्यते 023a धारयामि च चीराणि शाणीं क्षौमाजिनानि च 023c महार्हाणि च वासांसि धारयाम्यहमेकदा 024a न सन्निपतितं धर्म्यमुपभोगं यदृच्छया 024c प्रत्याचक्षे न चाप्येनमनुरुध्ये सुदुर्लभम् 025a अचलमनिधनं शिवं विशोकं शुचिमतुलं विदुषां मते निविष्टम् 025c अनभिमतमसेवितं च मूढैर्व्रतमिदमाजगरं शुचिश्चरामि 026a अचलितमतिरच्युतः स्वधर्मात्परिमितसंसरणः परावरज्ञः 026c विगतभयकषायलोभमोहो व्रतमिदमाजगरं शुचिश्चरामि 027a अनियतफलभक्ष्यभोज्यपेयं विधिपरिणामविभक्तदेशकालम् 027c हृदयसुखमसेवितं कदर्यैर्व्रतमिदमाजगरं शुचिश्चरामि 028a इदमिदमिति तृष्णयाभिभूतं जनमनवाप्तधनं विषीदमानम् 028c निपुणमनुनिशाम्य तत्त्वबुद्ध्या व्रतमिदमाजगरं शुचिश्चरामि 029a बहुविधमनुदृश्य चार्थहेतोः कृपणमिहार्यमनार्यमाश्रयन्तम् 029c उपशमरुचिरात्मवान्प्रशान्तो व्रतमिदमाजगरं शुचिश्चरामि 030a सुखमसुखमनर्थमर्थलाभं रतिमरतिं मरणं च जीवितं च 030c विधिनियतमवेक्ष्य तत्त्वतोऽहं व्रतमिदमाजगरं शुचिश्चरामि 031a अपगतभयरागमोहदर्पो धृतिमतिबुद्धिसमन्वितः प्रशान्तः 031c उपगतफलभोगिनो निशाम्य; व्रतमिदमाजगरं शुचिश्चरामि 032a अनियतशयनासनः प्रकृत्या दमनियमव्रतसत्यशौचयुक्तः 032c अपगतफलसञ्चयः प्रहृष्टो व्रतमिदमाजगरं शुचिश्चरामि 033a अभिगतमसुखार्थमीहनार्थैरुपगतबुद्धिरवेक्ष्य चात्मसंस्थः 033c तृषितमनियतं मनो नियन्तुं व्रतमिदमाजगरं शुचिश्चरामि 034a न हृदयमनुरुध्यते मनो वा प्रियसुखदुर्लभतामनित्यतां च 034c तदुभयमुपलक्षयन्निवाहं व्रतमिदमाजगरं शुचिश्चरामि 035a बहु कथितमिदं हि बुद्धिमद्भिः कविभिरभिप्रथयद्भिरात्मकीर्तिम् 035c इदमिदमिति तत्र तत्र तत्तत्स्वपरमतैर्गहनं प्रतर्कयद्भिः 036a तदहमनुनिशाम्य विप्रयातं पृथगभिपन्नमिहाबुधैर्मनुष्यैः 036c अनवसितमनन्तदोषपारं नृषु विहरामि विनीतरोषतृष्णः 037 भीष्म उवाच 037a अजगरचरितं व्रतं महात्मा य इह नरोऽनुचरेद्विनीतरागः 037c अपगतभयमन्युलोभमोहः स खलु सुखी विहरेदिमं विहारम्