001 युधिष्ठिर उवाच 001a ईहमानः समारम्भान्यदि नासादयेद्धनम् 001c धनतृष्णाभिभूतश्च किं कुर्वन्सुखमाप्नुयात् 002 भीष्म उवाच 002a सर्वसाम्यमनायासः सत्यवाक्यं च भारत 002c निर्वेदश्चाविवित्सा च यस्य स्यात्स सुखी नरः 003a एतान्येव पदान्याहुः पञ्च वृद्धाः प्रशान्तये 003c एष स्वर्गश्च धर्मश्च सुखं चानुत्तमं सताम् 004a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 004c निर्वेदान्मङ्किना गीतं तन्निबोध युधिष्ठिर 005a ईहमानो धनं मङ्किर्भग्नेहश्च पुनः पुनः 005c केनचिद्धनशेषेण क्रीतवान्दम्यगोयुगम् 006a सुसम्बद्धौ तु तौ दम्यौ दमनायाभिनिःसृतौ 006c आसीनमुष्ट्रं मध्येन सहसैवाभ्यधावताम् 007a तयोः सम्प्राप्तयोरुष्ट्रः स्कन्धदेशममर्षणः 007c उत्थायोत्क्षिप्य तौ दम्यौ प्रससार महाजवः 008a ह्रियमाणौ तु तौ दम्यौ तेनोष्ट्रेण प्रमाथिना 008c म्रियमाणौ च सम्प्रेक्ष्य मङ्किस्तत्राब्रवीदिदम् 009a न चैवाविहितं शक्यं दक्षेणापीहितुं धनम् 009c युक्तेन श्रद्धया सम्यगीहां समनुतिष्ठता 010a कृतस्य पूर्वं चानर्थैर्युक्तस्याप्यनुतिष्ठतः 010c इमं पश्यत सङ्गत्या मम दैवमुपप्लवम् 011a उद्यम्योद्यम्य मे दम्यौ विषमेणेव गच्छति 011c उत्क्षिप्य काकतालीयमुन्माथेनेव जम्बुकः 012a मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम 012c शुद्धं हि दैवमेवेदमतो नैवास्ति पौरुषम् 013a यदि वाप्युपपद्येत पौरुषं नाम कर्हिचित् 013c अन्विष्यमाणं तदपि दैवमेवावतिष्ठते 014a तस्मान्निर्वेद एवेह गन्तव्यः सुखमीप्सता 014c सुखं स्वपिति निर्विण्णो निराशश्चार्थसाधने 015a अहो सम्यक्शुकेनोक्तं सर्वतः परिमुच्यता 015c प्रतिष्ठता महारण्यं जनकस्य निवेशनात् 016a यः कामान्प्राप्नुयात्सर्वान्यश्चैनान्केवलांस्त्यजेत् 016c प्रापणात्सर्वकामानां परित्यागो विशिष्यते 017a नान्तं सर्वविवित्सानां गतपूर्वोऽस्ति कश्चन 017c शरीरे जीविते चैव तृष्णा मन्दस्य वर्धते 018a निवर्तस्व विवित्साभ्यः शाम्य निर्विद्य मामक 018c असकृच्चासि निकृतो न च निर्विद्यसे तनो 019a यदि नाहं विनाश्यस्ते यद्येवं रमसे मया 019c मा मां योजय लोभेन वृथा त्वं वित्तकामुक 020a सञ्चितं सञ्चितं द्रव्यं नष्टं तव पुनः पुनः 020c कदा विमोक्ष्यसे मूढ धनेहां धनकामुक 021a अहो नु मम बालिश्यं योऽहं क्रीडनकस्तव 021c किं नैव जातु पुरुषः परेषां प्रेष्यतामियात् 022a न पूर्वे नापरे जातु कामानामन्तमाप्नुवन् 022c त्यक्त्वा सर्वसमारम्भान्प्रतिबुद्धोऽस्मि जागृमि 023a नूनं ते हृदयं काम वज्रसारमयं दृधम् 023c यदनर्थशताविष्टं शतधा न विदीर्यते 024a त्यजामि काम त्वां चैव यच्च किञ्चित्प्रियं तव 024c तवाहं सुखमन्विच्छन्नात्मन्युपलभे सुखम् 025a काम जानामि ते मूलं सङ्कल्पात्किल जायसे 025c न त्वां सङ्कल्पयिष्यामि समूलो न भविष्यसि 026a ईहा धनस्य न सुखा लब्ध्वा चिन्ता च भूयसी 026c लब्धनाशो यथा मृत्युर्लब्धं भवति वा न वा 027a परेत्य यो न लभते ततो दुःखतरं नु किम् 027c न च तुष्यति लब्धेन भूय एव च मार्गति 028a अनुतर्षुल एवार्थः स्वादु गाङ्गमिवोदकम् 028c मद्विलापनमेतत्तु प्रतिबुद्धोऽस्मि सन्त्यज 029a य इमं मामकं देहं भूतग्रामः समाश्रितः 029c स यात्वितो यथाकामं वसतां वा यथासुखम् 030a न युष्मास्विह मे प्रीतिः कामलोभानुसारिषु 030c तस्मादुत्सृज्य सर्वान्वः सत्यमेवाश्रयाम्यहम् 031a सर्वभूतान्यहं देहे पश्यन्मनसि चात्मनः 031c योगे बुद्धिं श्रुते सत्त्वं मनो ब्रह्मणि धारयन् 032a विहरिष्याम्यनासक्तः सुखी लोकान्निरामयः 032c यथा मा त्वं पुनर्नैवं दुःखेषु प्रणिधास्यसि 033a त्वया हि मे प्रणुन्नस्य गतिरन्या न विद्यते 033c तृष्णाशोकश्रमाणां हि त्वं काम प्रभवः सदा 034a धननाशोऽधिकं दुःखं मन्ये सर्वमहत्तरम् 034c ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनच्युतम् 035a अवज्ञानसहस्रैस्तु दोषाः कष्टतराधने 035c धने सुखकला या च सापि दुःखैर्विधीयते 036a धनमस्येति पुरुषं पुरा निघ्नन्ति दस्यवः 036c क्लिश्यन्ति विविधैर्दण्डैर्नित्यमुद्वेजयन्ति च 037a मन्दलोलुपता दुःखमिति बुद्धं चिरान्मया 037c यद्यदालम्बसे काम तत्तदेवानुरुध्यसे 038a अतत्त्वज्ञोऽसि बालश्च दुस्तोषोऽपूरणोऽनलः 038c नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम् 039a पातालमिव दुष्पूरो मां दुःखैर्योक्तुमिच्छसि 039c नाहमद्य समावेष्टुं शक्यः काम पुनस्त्वया 040a निर्वेदमहमासाद्य द्रव्यनाशाद्यदृच्छया 040c निर्वृतिं परमां प्राप्य नाद्य कामान्विचिन्तये 041a अतिक्लेशान्सहामीह नाहं बुध्याम्यबुद्धिमान् 041c निकृतो धननाशेन शये सर्वाङ्गविज्वरः 042a परित्यजामि काम त्वां हित्वा सर्वमनोगतीः 042c न त्वं मया पुनः काम नस्योतेनेव रंस्यसे 043a क्षमिष्येऽक्षममाणानां न हिंसिष्ये च हिंसितः 043c द्वेष्यमुक्तः प्रियं वक्ष्याम्यनादृत्य तदप्रियम् 044a तृप्तः स्वस्थेन्द्रियो नित्यं यथालब्धेन वर्तयन् 044c न सकामं करिष्यामि त्वामहं शत्रुमात्मनः 045a निर्वेदं निर्वृतिं तृप्तिं शान्तिं सत्यं दमं क्षमाम् 045c सर्वभूतदयां चैव विद्धि मां शरणागतम् 046a तस्मात्कामश्च लोभश्च तृष्णा कार्पण्यमेव च 046c त्यजन्तु मां प्रतिष्ठन्तं सत्त्वस्थो ह्यस्मि साम्प्रतम् 047a प्रहाय कामं लोभं च क्रोधं पारुष्यमेव च 047c नाद्य लोभवशं प्राप्तो दुःखं प्राप्स्याम्यनात्मवान् 048a यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते 048c कामस्य वशगो नित्यं दुःखमेव प्रपद्यते 049a कामान्व्युदस्य धुनुते यत्किञ्चित्पुरुषो रजः 049c कामक्रोधोद्भवं दुःखमह्रीररतिरेव च 050a एष ब्रह्मप्रविष्टोऽहं ग्रीष्मे शीतमिव ह्रदम् 050c शाम्यामि परिनिर्वामि सुखमासे च केवलम् 051a यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् 051c तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् 052a आत्मना सप्तमं कामं हत्वा शत्रुमिवोत्तमम् 052c प्राप्यावध्यं ब्रह्मपुरं राजेव स्यामहं सुखी 053a एतां बुद्धिं समास्थाय मङ्किर्निर्वेदमागतः 053c सर्वान्कामान्परित्यज्य प्राप्य ब्रह्म महत्सुखम् 054a दम्यनाशकृते मङ्किरमरत्वं किलागमत् 054c अच्छिनत्काममूलं स तेन प्राप महत्सुखम् 055a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 055c गीतं विदेहराजेन जनकेन प्रशाम्यता 056a अनन्तं बत मे वित्तं यस्य मे नास्ति किञ्चन 056c मिथिलायां प्रदीप्तायां न मे दह्यति किञ्चन 057a अत्रैवोदाहरन्तीमं बोध्यस्य पदसञ्चयम् 057c निर्वेदं प्रति विन्यस्तं प्रतिबोध युधिष्ठिर 058a बोध्यं दान्तमृषिं राजा नहुषः पर्यपृच्छत 058c निर्वेदाच्छान्तिमापन्नं शान्तं प्रज्ञानतर्पितम् 059a उपदेशं महाप्राज्ञ शमस्योपदिशस्व मे 059c कां बुद्धिं समनुध्याय शान्तश्चरसि निर्वृतः 060 बोध्य उवाच 060a उपदेशेन वर्तामि नानुशास्मीह कञ्चन 060c लक्षणं तस्य वक्ष्येऽहं तत्स्वयं प्रविमृश्यताम् 061a पिङ्गला कुररः सर्पः सारङ्गान्वेषणं वने 061c इषुकारः कुमारी च षडेते गुरवो मम