001 युधिष्ठिर उवाच 001a धनिनो वाधना ये च वर्तयन्ति स्वतन्त्रिणः 001c सुखदुःखागमस्तेषां कः कथं वा पितामह 002 भीष्म उवाच 002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002c शम्याकेन विमुक्तेन गीतं शान्तिगतेन ह 003a अब्रवीन्मां पुरा कश्चिद्ब्राह्मणस्त्यागमास्थितः 003c क्लिश्यमानः कुदारेण कुचैलेन बुभुक्षया 004a उत्पन्नमिह लोके वै जन्मप्रभृति मानवम् 004c विविधान्युपवर्तन्ते दुःखानि च सुखानि च 005a तयोरेकतरे मार्गे यद्येनमभिसन्नयेत् 005c न सुखं प्राप्य संहृष्येन्न दुःखं प्राप्य सञ्ज्वरेत् 006a न वै चरसि यच्छ्रेय आत्मनो वा यदीहसे 006c अकामात्मापि हि सदा धुरमुद्यम्य चैव हि 007a अकिञ्चनः परिपतन्सुखमास्वादयिष्यसि 007c अकिञ्चनः सुखं शेते समुत्तिष्ठति चैव हि 008a आकिञ्चन्यं सुखं लोके पथ्यं शिवमनामयम् 008c अनमित्रमथो ह्येतद्दुर्लभं सुलभं सताम् 009a अकिञ्चनस्य शुद्धस्य उपपन्नस्य सर्वशः 009c अवेक्षमाणस्त्रील्ँलोकान्न तुल्यमुपलक्षये 010a आकिञ्चन्यं च राज्यं च तुलया समतोलयम् 010c अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकम् 011a आकिञ्चन्ये च राज्ये च विशेषः सुमहानयम् 011c नित्योद्विग्नो हि धनवान्मृत्योरास्यगतो यथा 012a नैवास्याग्निर्न चादित्यो न मृत्युर्न च दस्यवः 012c प्रभवन्ति धनज्यानिनिर्मुक्तस्य निराशिषः 013a तं वै सदा कामचरमनुपस्तीर्णशायिनम् 013c बाहूपधानं शाम्यन्तं प्रशंसन्ति दिवौकसः 014a धनवान्क्रोधलोभाभ्यामाविष्टो नष्टचेतनः 014c तिर्यगीक्षः शुष्कमुखः पापको भ्रुकुटीमुखः 015a निर्दशंश्चाधरोष्ठं च क्रुद्धो दारुणभाषिता 015c कस्तमिच्छेत्परिद्रष्टुं दातुमिच्छति चेन्महीम् 016a श्रिया ह्यभीक्ष्णं संवासो मोहयत्यविचक्षणम् 016c सा तस्य चित्तं हरति शारदाभ्रमिवानिलः 017a अथैनं रूपमानश्च धनमानश्च विन्दति 017c अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः 017e इत्येभिः कारणैस्तस्य त्रिभिश्चित्तं प्रसिच्यते 018a स प्रसिक्तमना भोगान्विसृज्य पितृसञ्चितान् 018c परिक्षीणः परस्वानामादानं साधु मन्यते 019a तमतिक्रान्तमर्यादमाददानं ततस्ततः 019c प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः 020a एवमेतानि दुःखानि तानि तानीह मानवम् 020c विविधान्युपवर्तन्ते गात्रसंस्पर्शजानि च 021a तेषां परमदुःखानां बुद्ध्या भैषज्यमाचरेत् 021c लोकधर्मं समाज्ञाय ध्रुवाणामध्रुवैः सह 022a नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा विन्दते परम् 022c नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भव 023a इत्येतद्धास्तिनपुरे ब्राह्मणेनोपवर्णितम् 023c शम्याकेन पुरा मह्यं तस्मात्त्यागः परो मतः