001 युधिष्ठिर उवाच 001a अतिक्रामति कालेऽस्मिन्सर्वभूतक्षयावहे 001c किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह 002 भीष्म उवाच 002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002c पितुः पुत्रेण संवादं तन्निबोध युधिष्ठिर 003a द्विजातेः कस्यचित्पार्थ स्वाध्यायनिरतस्य वै 003c बभूव पुत्रो मेधावी मेधावी नाम नामतः 004a सोऽब्रवीत्पितरं पुत्रः स्वाध्यायकरणे रतम् 004c मोक्षधर्मार्थकुशलो लोकतत्त्वविचक्षणः 005a धीरः किं स्वित्तात कुर्यात्प्रजानन्क्षिप्रं ह्यायुर्भ्रश्यते मानवानाम् 005c पितस्तदाचक्ष्व यथार्थयोगं ममानुपूर्व्या येन धर्मं चरेयम् 006 पितोवाच 006a वेदानधीत्य ब्रह्मचर्येण पुत्र पुत्रानिच्छेत्पावनार्थं पितॄणाम् 006c अग्नीनाधाय विधिवच्चेष्टयज्ञो वनं प्रविश्याथ मुनिर्बुभूषेत् 007 पुत्र उवाच 007a एवमभ्याहते लोके समन्तात्परिवारिते 007c अमोघासु पतन्तीषु किं धीर इव भाषसे 008 पितोवाच 008a कथमभ्याहतो लोकः केन वा परिवारितः 008c अमोघाः काः पतन्तीह किं नु भीषयसीव माम् 009 पुत्र उवाच 009a मृत्युनाभ्याहतो लोको जरया परिवारितः 009c अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे 010a यदाहमेतज्जानामि न मृत्युस्तिष्ठतीति ह 010c सोऽहं कथं प्रतीक्षिष्ये जालेनापिहितश्चरन् 011a रात्र्यां रात्र्यां व्यतीतायामायुरल्पतरं यदा 011c गाधोदके मत्स्य इव सुखं विन्देत कस्तदा 011e तदेव वन्ध्यं दिवसमिति विद्याद्विचक्षणः 012a अनवाप्तेषु कामेषु मृत्युरभ्येति मानवम् 012c शष्पाणीव विचिन्वन्तमन्यत्रगतमानसम् 012e वृकीवोरणमासाद्य मृत्युरादाय गच्छति 013a अद्यैव कुरु यच्छ्रेयो मा त्वा कालोऽत्यगादयम् 013c अकृतेष्वेव कार्येषु मृत्युर्वै सम्प्रकर्षति 014a श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् 014c न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम् 014e को हि जानाति कस्याद्य मृत्युसेना निवेक्ष्यते 015a युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम् 015c कृते धर्मे भवेत्कीर्तिरिह प्रेत्य च वै सुखम् 016a मोहेन हि समाविष्टः पुत्रदारार्थमुद्यतः 016c कृत्वा कार्यमकार्यं वा पुष्टिमेषां प्रयच्छति 017a तं पुत्रपशुसम्मत्तं व्यासक्तमनसं नरम् 017c सुप्तं व्याघ्रं महौघो वा मृत्युरादाय गच्छति 018a सञ्चिन्वानकमेवैकं कामानामवितृप्तकम् 018c व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति 019a इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम् 019c एवमीहासुखासक्तं कृतान्तः कुरुते वशे 020a कृतानां फलमप्राप्तं कर्मणां फलसङ्गिनम् 020c क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति 021a मृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम् 021c अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि 022a जातमेवान्तकोऽन्ताय जरा चान्वेति देहिनम् 022c अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः 023a मृत्योर्वा गृहमेवैतद्या ग्रामे वसतो रतिः 023c देवानामेष वै गोष्ठो यदरण्यमिति श्रुतिः 024a निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः 024c छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः 025a न हिंसयति यः प्राणान्मनोवाक्कायहेतुभिः 025c जीवितार्थापनयनैः कर्मभिर्न स बध्यते 026a न मृत्युसेनामायान्तीं जातु कश्चित्प्रबाधते 026c ऋते सत्यमसन्त्याज्यं सत्ये ह्यमृतमाश्रितम् 027a तस्मात्सत्यव्रताचारः सत्ययोगपरायणः 027c सत्यारामः समो दान्तः सत्येनैवान्तकं जयेत् 028a अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् 028c मृत्युमापद्यते मोहात्सत्येनापद्यतेऽमृतम् 029a सोऽहं ह्यहिंस्रः सत्यार्थी कामक्रोधबहिष्कृतः 029c समदुःखसुखः क्षेमी मृत्युं हास्याम्यमर्त्यवत् 030a शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः 030c वाङ्मनःकर्मयज्ञश्च भविष्याम्युदगायने 031a पशुयज्ञैः कथं हिंस्रैर्मादृशो यष्टुमर्हति 031c अन्तवद्भिरुत प्राज्ञः क्षत्रयज्ञैः पिशाचवत् 032a यस्य वाङ्मनसी स्यातां सम्यक्प्रणिहिते सदा 032c तपस्त्यागश्च योगश्च स वै सर्वमवाप्नुयात् 033a नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं बलम् 033c नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् 034a आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजोऽपि वा 034c आत्मन्येव भविष्यामि न मां तारयति प्रजा 035a नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च 035c शीले स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः 036a किं ते धनैर्बान्धवैर्वापि किं ते किं ते दारैर्ब्राह्मण यो मरिष्यसि 036c आत्मानमन्विच्छ गुहां प्रविष्टं पितामहस्ते क्व गतः पिता च 037 भीष्म उवाच 037a पुत्रस्यैतद्वचः श्रुत्वा तथाकार्षीत्पिता नृप 037c तथा त्वमपि वर्तस्व सत्यधर्मपरायणः