001 युधिष्ठिर उवाच 001a धर्माः पितामहेनोक्ता राजधर्माश्रिताः शुभाः 001c धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हसि पार्थिव 002 भीष्म उवाच 002a सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलं तपः 002c बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया 003a यस्मिन्यस्मिंस्तु विनये यो यो याति विनिश्चयम् 003c स तमेवाभिजानाति नान्यं भरतसत्तम 004a यथा यथा च पर्येति लोकतन्त्रमसारवत् 004c तथा तथा विरागोऽत्र जायते नात्र संशयः 005a एवं व्यवसिते लोके बहुदोषे युधिष्ठिर 005c आत्ममोक्षनिमित्तं वै यतेत मतिमान्नरः 006 युधिष्ठिर उवाच 006a नष्टे धने वा दारे वा पुत्रे पितरि वा मृते 006c यया बुद्ध्या नुदेच्छोकं तन्मे ब्रूहि पितामह 007 भीष्म उवाच 007a नष्टे धने वा दारे वा पुत्रे पितरि वा मृते 007c अहो दुःखमिति ध्यायञ्शोकस्यापचितिं चरेत् 008a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 008c यथा सेनजितं विप्रः कश्चिदित्यब्रवीद्वचः 009a पुत्रशोकाभिसन्तप्तं राजानं शोकविह्वलम् 009c विषण्णवदनं दृष्ट्वा विप्रो वचनमब्रवीत् 010a किं नु खल्वसि मूढस्त्वं शोच्यः किमनुशोचसि 010c यदा त्वामपि शोचन्तः शोच्या यास्यन्ति तां गतिम् 011a त्वं चैवाहं च ये चान्ये त्वां राजन्पर्युपासते 011c सर्वे तत्र गमिष्यामो यत एवागता वयम् 012 सेनजिदुवाच 012a का बुद्धिः किं तपो विप्र कः समाधिस्तपोधन 012c किं ज्ञानं किं श्रुतं वा ते यत्प्राप्य न विषीदसि 013 ब्राह्मण उवाच 013a पश्य भूतानि दुःखेन व्यतिषक्तानि सर्वशः 013c आत्मापि चायं न मम सर्वा वा पृथिवी मम 014a यथा मम तथान्येषामिति बुद्ध्या न मे व्यथा 014c एतां बुद्धिमहं प्राप्य न प्रहृष्ये न च व्यथे 015a यथा काष्ठं च काष्ठं च समेयातां महोदधौ 015c समेत्य च व्यपेयातां तद्वद्भूतसमागमः 016a एवं पुत्राश्च पौत्राश्च ज्ञातयो बान्धवास्तथा 016c तेषु स्नेहो न कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् 017a अदर्शनादापतितः पुनश्चादर्शनं गतः 017c न त्वासौ वेद न त्वं तं कः सन्कमनुशोचसि 018a तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम् 018c सुखात्सञ्जायते दुःखमेवमेतत्पुनः पुनः 018e सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् 019a सुखात्त्वं दुःखमापन्नः पुनरापत्स्यसे सुखम् 019c न नित्यं लभते दुःखं न नित्यं लभते सुखम् 020a नालं सुखाय सुहृदो नालं दुःखाय शत्रवः 020c न च प्रज्ञालमर्थानां न सुखानामलं धनम् 021a न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये 021c लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः 022a बुद्धिमन्तं च मूढं च शूरं भीरुं जडं कविम् 022c दुर्बलं बलवन्तं च भागिनं भजते सुखम् 023a धेनुर्वत्सस्य गोपस्य स्वामिनस्तस्करस्य च 023c पयः पिबति यस्तस्या धेनुस्तस्येति निश्चयः 024a ये च मूढतमा लोके ये च बुद्धेः परं गताः 024c ते नराः सुखमेधन्ते क्लिश्यत्यन्तरितो जनः 025a अन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे 025c अन्त्यप्राप्तिं सुखामाहुर्दुःखमन्तरमन्तयोः 026a ये तु बुद्धिसुखं प्राप्ता द्वन्द्वातीता विमत्सराः 026c तान्नैवार्था न चानर्था व्यथयन्ति कदाचन 027a अथ ये बुद्धिमप्राप्ता व्यतिक्रान्ताश्च मूढताम् 027c तेऽतिवेलं प्रहृष्यन्ति सन्तापमुपयान्ति च 028a नित्यप्रमुदिता मूढा दिवि देवगणा इव 028c अवलेपेन महता परिदृब्धा विचेतसः 029a सुखं दुःखान्तमालस्यं दुःखं दाक्ष्यं सुखोदयम् 029c भूतिश्चैव श्रिया सार्धं दक्षे वसति नालसे 030a सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम् 030c प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः 031a शोकस्थानसहस्राणि हर्षस्थानशतानि च 031c दिवसे दिवसे मूढमाविशन्ति न पण्डितम् 032a बुद्धिमन्तं कृतप्रज्ञं शुश्रूषुमनसूयकम् 032c दान्तं जितेन्द्रियं चापि शोको न स्पृशते नरम् 033a एतां बुद्धिं समास्थाय गुप्तचित्तश्चरेद्बुधः 033c उदयास्तमयज्ञं हि न शोकः स्प्रष्टुमर्हति 034a यन्निमित्तं भवेच्छोकस्त्रासो वा दुःखमेव वा 034c आयासो वा यतोमूलस्तदेकाङ्गमपि त्यजेत् 035a यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते 035c कामानुसारी पुरुषः कामाननु विनश्यति 036a यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् 036c तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् 037a पूर्वदेहकृतं कर्म शुभं वा यदि वाशुभम् 037c प्राज्ञं मूढं तथा शूरं भजते यादृशं कृतम् 038a एवमेव किलैतानि प्रियाण्येवाप्रियाणि च 038c जीवेषु परिवर्तन्ते दुःखानि च सुखानि च 039a तदेवं बुद्धिमास्थाय सुखं जीवेद्गुणान्वितः 039c सर्वान्कामाञ्जुगुप्सेत सङ्गान्कुर्वीत पृष्ठतः 039e वृत्त एष हृदि प्रौढो मृत्युरेष मनोमयः 040a यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः 040c तदात्मज्योतिरात्मा च आत्मन्येव प्रसीदति 041a किञ्चिदेव ममत्वेन यदा भवति कल्पितम् 041c तदेव परितापार्थं सर्वं सम्पद्यते तदा 042a न बिभेति यदा चायं यदा चास्मान्न बिभ्यति 042c यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा 043a उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये 043c प्रियाप्रिये परित्यज्य प्रशान्तात्मा भविष्यसि 044a यदा न कुरुते धीरः सर्वभूतेषु पापकम् 044c कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा 045a या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः 045c योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् 046a अत्र पिङ्गलया गीता गाथाः श्रूयन्ति पार्थिव 046c यथा सा कृच्छ्रकालेऽपि लेभे धर्मं सनातनम् 047a सङ्केते पिङ्गला वेश्या कान्तेनासीद्विनाकृता 047c अथ कृच्छ्रगता शान्तां बुद्धिमास्थापयत्तदा 048 पिङ्गलोवाच 048a उन्मत्ताहमनुन्मत्तं कान्तमन्ववसं चिरम् 048c अन्तिके रमणं सन्तं नैनमध्यगमं पुरा 049a एकस्थूणं नवद्वारमपिधास्याम्यगारकम् 049c का हि कान्तमिहायान्तमयं कान्तेति मंस्यते 050a अकामाः कामरूपेण धूर्ता नरकरूपिणः 050c न पुनर्वञ्चयिष्यन्ति प्रतिबुद्धास्मि जागृमि 051a अनर्थोऽपि भवत्यर्थो दैवात्पूर्वकृतेन वा 051c सम्बुद्धाहं निराकारा नाहमद्याजितेन्द्रिया 052a सुखं निराशः स्वपिति नैराश्यं परमं सुखम् 052c आशामनाशां कृत्वा हि सुखं स्वपिति पिङ्गला 053 भीष्म उवाच 053a एतैश्चान्यैश्च विप्रस्य हेतुमद्भिः प्रभाषितैः 053c पर्यवस्थापितो राजा सेनजिन्मुमुदे सुखम्