001 भीष्म उवाच 001a ततश्चितां बकपतेः कारयामास राक्षसः 001c रत्नैर्गन्धैश्च बहुभिर्वस्त्रैश्च समलङ्कृताम् 002a तत्र प्रज्वाल्य नृपते बकराजं प्रतापवान् 002c प्रेतकार्याणि विधिवद्राक्षसेन्द्रश्चकार ह 003a तस्मिन्कालेऽथ सुरभिर्देवी दाक्षायणी शुभा 003c उपरिष्टात्ततस्तस्य सा बभूव पयस्विनी 004a तस्या वक्त्राच्च्युतः फेनः क्षीरमिश्रस्तदानघ 004c सोऽपतद्वै ततस्तस्यां चितायां राजधर्मणः 005a ततः सञ्जीवितस्तेन बकराजस्तदानघ 005c उत्पत्य च समेयाय विरूपाक्षं बकाधिपः 006a ततोऽभ्ययाद्देवराजो विरूपाक्षपुरं तदा 006c प्राह चेदं विरूपाक्षं दिष्ट्यायं जीवतीत्युत 007a श्रावयामास चेन्द्रस्तं विरूपाक्षं पुरातनम् 007c यथा शापः पुरा दत्तो ब्रह्मणा राजधर्मणः 008a यदा बकपती राजन्ब्रह्माणं नोपसर्पति 008c ततो रोषादिदं प्राह बकेन्द्राय पितामहः 009a यस्मान्मूढो मम सदो नागतोऽसौ बकाधमः 009c तस्माद्वधं स दुष्टात्मा नचिरात्समवाप्स्यति 010a तदायं तस्य वचनान्निहतो गौतमेन वै 010c तेनैवामृतसिक्तश्च पुनः सञ्जीवितो बकः 011a राजधर्मा ततः प्राह प्रणिपत्य पुरन्दरम् 011c यदि तेऽनुग्रहकृता मयि बुद्धिः पुरन्दर 011e सखायं मे सुदयितं गौतमं जीवयेत्युत 012a तस्य वाक्यं समाज्ञाय वासवः पुरुषर्षभ 012c सञ्जीवयित्वा सख्ये वै प्रादात्तं गौतमं तदा 013a सभाण्डोपस्करं राजंस्तमासाद्य बकाधिपः 013c सम्परिष्वज्य सुहृदं प्रीत्या परमया युतः 014a अथ तं पापकर्माणं राजधर्मा बकाधिपः 014c विसर्जयित्वा सधनं प्रविवेश स्वमालयम् 015a यथोचितं च स बको ययौ ब्रह्मसदस्तदा 015c ब्रह्मा च तं महात्मानमातिथ्येनाभ्यपूजयत् 016a गौतमश्चापि सम्प्राप्य पुनस्तं शबरालयम् 016c शूद्रायां जनयामास पुत्रान्दुष्कृतकारिणः 017a शापश्च सुमहांस्तस्य दत्तः सुरगणैस्तदा 017c कुक्षौ पुनर्भ्वां भार्यायां जनयित्वा चिरात्सुतान् 017e निरयं प्राप्स्यति महत्कृतघ्नोऽयमिति प्रभो 018a एतत्प्राह पुरा सर्वं नारदो मम भारत 018c संस्मृत्य चापि सुमहदाख्यानं पुरुषर्षभ 018e मयापि भवते सर्वं यथावदुपवर्णितम् 019a कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् 019c अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः 020a मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः 020c मित्रध्रुङ्निरयं घोरमनन्तं प्रतिपद्यते 021a कृतज्ञेन सदा भाव्यं मित्रकामेन चानघ 021c मित्रात्प्रभवते सत्यं मित्रात्प्रभवते बलम् 021e सत्कारैरुत्तमैर्मित्रं पूजयेत विचक्षणः 022a परित्याज्यो बुधैः पापः कृतघ्नो निरपत्रपः 022c मित्रद्रोही कुलाङ्गारः पापकर्मा नराधमः 023a एष धर्मभृतां श्रेष्ठ प्रोक्तः पापो मया तव 023c मित्रद्रोही कृतघ्नो वै किं भूयः श्रोतुमिच्छसि 024 वैशम्पायन उवाच 024a एतच्छ्रुत्वा तदा वाक्यं भीष्मेणोक्तं महात्मना 024c युधिष्ठिरः प्रीतमना बभूव जनमेजय