001 भीष्म उवाच 001a अथ तत्र महार्चिष्माननलो वातसारथिः 001c तस्याविदूरे रक्षार्थं खगेन्द्रेण कृतोऽभवत् 002a स चापि पार्श्वे सुष्वाप विश्वस्तो बकराट्तदा 002c कृतघ्नस्तु स दुष्टात्मा तं जिघांसुरजागरत् 003a ततोऽलातेन दीप्तेन विश्वस्तं निजघान तम् 003c निहत्य च मुदा युक्तः सोऽनुबन्धं न दृष्टवान् 004a स तं विपक्षरोमाणं कृत्वाग्नावपचत्तदा 004c तं गृहीत्वा सुवर्णं च ययौ द्रुततरं द्विजः 005a ततोऽन्यस्मिन्गते चाह्नि विरूपाक्षोऽब्रवीत्सुतम् 005c न प्रेक्षे राजधर्माणमद्य पुत्र खगोत्तमम् 006a स पूर्वसन्ध्यां ब्रह्माणं वन्दितुं याति सर्वदा 006c मां चादृष्ट्वा कदाचित्स न गच्छति गृहान्खगः 007a उभे द्विरात्रं सन्ध्ये वै नाभ्यगात्स ममालयम् 007c तस्मान्न शुध्यते भावो मम स ज्ञायतां सुहृत् 008a स्वाध्यायेन वियुक्तो हि ब्रह्मवर्चसवर्जितः 008c तं गतस्तत्र मे शङ्का हन्यात्तं स द्विजाधमः 009a दुराचारस्तु दुर्बुद्धिरिङ्गितैर्लक्षितो मया 009c निष्क्रियो दारुणाकारः कृष्णो दस्युरिवाधमः 010a गौतमः स गतस्तत्र तेनोद्विग्नं मनो मम 010c पुत्र शीघ्रमितो गत्वा राजधर्मनिवेशनम् 010e ज्ञायतां स विशुद्धात्मा यदि जीवति माचिरम् 011a स एवमुक्तस्त्वरितो रक्षोभिः सहितो ययौ 011c न्यग्रोधं तत्र चापश्यत्कङ्कालं राजधर्मणः 012a स रुदन्नगमत्पुत्रो राक्षसेन्द्रस्य धीमतः 012c त्वरमाणः परं शक्त्या गौतमग्रहणाय वै 013a ततोऽविदूरे जगृहुर्गौतमं राक्षसास्तदा 013c राजधर्मशरीरं च पक्षास्थिचरणोज्झितम् 014a तमादायाथ रक्षांसि द्रुतं मेरुव्रजं ययुः 014c राज्ञश्च दर्शयामासुः शरीरं राजधर्मणः 014e कृतघ्नं पुरुषं तं च गौतमं पापचेतसम् 015a रुरोद राजा तं दृष्ट्वा सामात्यः सपुरोहितः 015c आर्तनादश्च सुमहानभूत्तस्य निवेशने 016a सस्त्रीकुमारं च पुरं बभूवास्वस्थमानसम् 016c अथाब्रवीन्नृपः पुत्रं पापोऽयं वध्यतामिति 017a अस्य मांसैरिमे सर्वे विहरन्तु यथेष्टतः 017c पापाचारः पापकर्मा पापात्मा पापनिश्चयः 017e हन्तव्योऽयं मम मतिर्भवद्भिरिति राक्षसाः 018a इत्युक्ता राक्षसेन्द्रेण राक्षसा घोरविक्रमाः 018c नैच्छन्त तं भक्षयितुं पापकर्मायमित्युत 019a दस्यूनां दीयतामेष साध्वद्य पुरुषाधमः 019c इत्यूचुस्तं महाराज राक्षसेन्द्रं निशाचराः 020a शिरोभिश्च गता भूमिमूचू रक्षोगणाधिपम् 020c न दातुमर्हसि त्वं नो भक्षणायास्य किल्बिषम् 021a एवमस्त्विति तानाह राक्षसेन्द्रो निशाचरान् 021c दस्यूनां दीयतामेष कृतघ्नोऽद्यैव राक्षसाः 022a इत्युक्ते तस्य ते दासाः शूलमुद्गरपाणयः 022c छित्त्वा तं खण्डशः पापं दस्युभ्यः प्रददुस्तदा 023a दस्यवश्चापि नैच्छन्त तमत्तुं पापकारिणम् 023c क्रव्यादा अपि राजेन्द्र कृतघ्नं नोपभुञ्जते 024a ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा 024c निष्कृतिर्विहिता राजन्कृतघ्ने नास्ति निष्कृतिः 025a मित्रद्रोही नृशंसश्च कृतघ्नश्च नराधमः 025c क्रव्यादैः कृमिभिश्चान्यैर्न भुज्यन्ते हि तादृशाः