001 भीष्म उवाच 001a ततः स विदितो राज्ञः प्रविश्य गृहमुत्तमम् 001c पूजितो राक्षसेन्द्रेण निषसादासनोत्तमे 002a पृष्टश्च गोत्रचरणं स्वाध्यायं ब्रह्मचारिकम् 002c न तत्र व्याजहारान्यद्गोत्रमात्रादृते द्विजः 003a ब्रह्मवर्चसहीनस्य स्वाध्यायविरतस्य च 003c गोत्रमात्रविदो राजा निवासं समपृच्छत 004a क्व ते निवासः कल्याण किङ्गोत्रा ब्राह्मणी च ते 004c तत्त्वं ब्रूहि न भीः कार्या विश्रमस्व यथासुखम् 005 गौतम उवाच 005a मध्यदेशप्रसूतोऽहं वासो मे शबरालये 005c शूद्रा पुनर्भूर्भार्या मे सत्यमेतद्ब्रवीमि ते 006 भीष्म उवाच 006a ततो राजा विममृशे कथं कार्यमिदं भवेत् 006c कथं वा सुकृतं मे स्यादिति बुद्ध्यान्वचिन्तयत् 007a अयं वै जननाद्विप्रः सुहृत्तस्य महात्मनः 007c सम्प्रेषितश्च तेनायं काश्यपेन ममान्तिकम् 008a तस्य प्रियं करिष्यामि स हि मामाश्रितः सदा 008c भ्राता मे बान्धवश्चासौ सखा च हृदयङ्गमः 009a कार्त्तिक्यामद्य भोक्तारः सहस्रं मे द्विजोत्तमाः 009c तत्रायमपि भोक्ता वै देयमस्मै च मे धनम् 010a ततः सहस्रं विप्राणां विदुषां समलङ्कृतम् 010c स्नातानामनुसम्प्राप्तमहतक्षौमवाससाम् 011a तानागतान्द्विजश्रेष्ठान्विरूपाक्षो विशाम्पते 011c यथार्हं प्रतिजग्राह विधिदृष्टेन कर्मणा 012a बृस्यस्तेषां तु सन्न्यस्ता राक्षसेन्द्रस्य शासनात् 012c भूमौ वरकुथास्तीर्णाः प्रेष्यैर्भरतसत्तम 013a तासु ते पूजिता राज्ञा निषण्णा द्विजसत्तमाः 013c व्यराजन्त महाराज नक्षत्रपतयो यथा 014a ततो जाम्बूनदाः पात्रीर्वज्राङ्का विमलाः शुभाः 014c वरान्नपूर्णा विप्रेभ्यः प्रादान्मधुघृताप्लुताः 015a तस्य नित्यं तथाषाढ्यां माघ्यां च बहवो द्विजाः 015c ईप्सितं भोजनवरं लभन्ते सत्कृतं सदा 016a विशेषतस्तु कार्त्तिक्यां द्विजेभ्यः सम्प्रयच्छति 016c शरद्व्यपाये रत्नानि पौर्णमास्यामिति श्रुतिः 017a सुवर्णं रजतं चैव मणीनथ च मौक्तिकम् 017c वज्रान्महाधनांश्चैव वैडूर्याजिनराङ्कवान् 018a रत्नराशीन्विनिक्षिप्य दक्षिणार्थे स भारत 018c ततः प्राह द्विजश्रेष्ठान्विरूपाक्षो महायशाः 019a गृह्णीत रत्नान्येतानि यथोत्साहं यथेष्टतः 019c येषु येषु च भाण्डेषु भुक्तं वो द्विजसत्तमाः 019e तान्येवादाय गच्छध्वं स्ववेश्मानीति भारत 020a इत्युक्तवचने तस्मिन्राक्षसेन्द्रे महात्मनि 020c यथेष्टं तानि रत्नानि जगृहुर्ब्राह्मणर्षभाः 021a ततो महार्हैस्ते सर्वे रत्नैरभ्यर्चिताः शुभैः 021c ब्राह्मणा मृष्टवसनाः सुप्रीताः स्म तदाभवन् 022a ततस्तान्राक्षसेन्द्रश्च द्विजानाह पुनर्वचः 022c नानादिगागतान्राजन्राक्षसान्प्रतिषिध्य वै 023a अध्यैकदिवसं विप्रा न वोऽस्तीह भयं क्वचित् 023c राक्षसेभ्यः प्रमोदध्वमिष्टतो यात माचिरम् 024a ततः प्रदुद्रुवुः सर्वे विप्रसङ्घाः समन्ततः 024c गौतमोऽपि सुवर्णस्य भारमादाय सत्वरः 025a कृच्छ्रात्समुद्वहन्वीर न्यग्रोधं समुपागमत् 025c न्यषीदच्च परिश्रान्तः क्लान्तश्च क्षुधितश्च ह 026a ततस्तमभ्यगाद्राजन्राजधर्मा खगोत्तमः 026c स्वागतेनाभ्यनन्दच्च गौतमं मित्रवत्सलः 027a तस्य पक्षाग्रविक्षेपैः क्लमं व्यपनयत्खगः 027c पूजां चाप्यकरोद्धीमान्भोजनं चाप्यकल्पयत् 028a स भुक्तवान्सुविश्रान्तो गौतमोऽचिन्तयत्तदा 028c हाटकस्याभिरूपस्य भारोऽयं सुमहान्मया 028e गृहीतो लोभमोहाद्वै दूरं च गमनं मम 029a न चास्ति पथि भोक्तव्यं प्राणसन्धारणं मम 029c किं कृत्वा धारयेयं वै प्राणानित्यभ्यचिन्तयत् 030a ततः स पथि भोक्तव्यं प्रेक्षमाणो न किञ्चन 030c कृतघ्नः पुरुषव्याघ्र मनसेदमचिन्तयत् 031a अयं बकपतिः पार्श्वे मांसराशिः स्थितो मम 031c इमं हत्वा गृहीत्वा च यास्येऽहं समभिद्रुतम्