001 भीष्म उवाच 001a गिरं तां मधुरां श्रुत्वा गौतमो विस्मितस्तदा 001c कौतूहलान्वितो राजन्राजधर्माणमैक्षत 002 राजधर्मोवाच 002a भोः कश्यपस्य पुत्रोऽहं माता दाक्षायणी च मे 002c अतिथिस्त्वं गुणोपेतः स्वागतं ते द्विजर्षभ 003 भीष्म उवाच 003a तस्मै दत्त्वा स सत्कारं विधिदृष्टेन कर्मणा 003c शालपुष्पमयीं दिव्यां बृसीं समुपकल्पयत् 004a भगीरथरथाक्रान्तान्देशान्गङ्गानिषेवितान् 004c ये चरन्ति महामीनास्तांश्च तस्यान्वकल्पयत् 005a वह्निं चापि सुसन्दीप्तं मीनांश्चैव सुपीवरान् 005c स गौतमायातिथये न्यवेदयत काश्यपः 006a भुक्तवन्तं च तं विप्रं प्रीतात्मानं महामनाः 006c क्लमापनयनार्थं स पक्षाभ्यामभ्यवीजयत् 007a ततो विश्रान्तमासीनं गोत्रप्रश्नमपृच्छत 007c सोऽब्रवीद्गौतमोऽस्मीति ब्राह्म नान्यदुदाहरत् 008a तस्मै पर्णमयं दिव्यं दिव्यपुष्पाधिवासितम् 008c गन्धाढ्यं शयनं प्रादात्स शिश्ये तत्र वै सुखम् 009a अथोपविष्टं शयने गौतमं बकराट्तदा 009c पप्रच्छ काश्यपो वाग्मी किमागमनकारणम् 010a ततोऽब्रवीद्गौतमस्तं दरिद्रोऽहं महामते 010c समुद्रगमनाकाङ्क्षी द्रव्यार्थमिति भारत 011a तं काश्यपोऽब्रवीत्प्रीतो नोत्कण्ठां कर्तुमर्हसि 011c कृतकार्यो द्विजश्रेष्ठ सद्रव्यो यास्यसे गृहान् 012a चतुर्विधा ह्यर्थगतिर्बृहस्पतिमतं यथा 012c पारम्पर्यं तथा दैवं कर्म मित्रमिति प्रभो 013a प्रादुर्भूतोऽस्मि ते मित्रं सुहृत्त्वं च मम त्वयि 013c सोऽहं तथा यतिष्यामि भविष्यसि यथार्थवान् 014a ततः प्रभातसमये सुखं पृष्ट्वाब्रवीदिदम् 014c गच्छ सौम्य पथानेन कृतकृत्यो भविष्यसि 015a इतस्त्रियोजनं गत्वा राक्षसाधिपतिर्महान् 015c विरूपाक्ष इति ख्यातः सखा मम महाबलः 016a तं गच्छ द्विजमुख्य त्वं मम वाक्यप्रचोदितः 016c कामानभीप्सितांस्तुभ्यं दाता नास्त्यत्र संशयः 017a इत्युक्तः प्रययौ राजन्गौतमो विगतक्लमः 017c फलान्यमृतकल्पानि भक्षयन्स्म यथेष्टतः 018a चन्दनागुरुमुख्यानि त्वक्पत्राणां वनानि च 018c तस्मिन्पथि महाराज सेवमानो द्रुतं ययौ 019a ततो मेरुव्रजं नाम नगरं शैलतोरणम् 019c शैलप्राकारवप्रं च शैलयन्त्रार्गलं तथा 020a विदितश्चाभवत्तस्य राक्षसेन्द्रस्य धीमतः 020c प्रहितः सुहृदा राजन्प्रीयता वै प्रियातिथिः 021a ततः स राक्षसेन्द्रः स्वान्प्रेष्यानाह युधिष्ठिर 021c गौतमो नगरद्वाराच्छीघ्रमानीयतामिति 022a ततः पुरवरात्तस्मात्पुरुषाः श्वेतवेष्टनाः 022c गौतमेत्यभिभाषन्तः पुरद्वारमुपागमन् 023a ते तमूचुर्महाराज प्रेष्या रक्षःपतेर्द्विजम् 023c त्वरस्व तूर्णमागच्छ राजा त्वां द्रष्टुमिच्छति 024a राक्षसाधिपतिर्वीरो विरूपाक्ष इति श्रुतः 024c स त्वां त्वरति वै द्रष्टुं तत्क्षिप्रं संविधीयताम् 025a ततः स प्राद्रवद्विप्रो विस्मयाद्विगतक्लमः 025c गौतमो नगरर्द्धिं तां पश्यन्परमविस्मितः 026a तैरेव सहितो राज्ञो वेश्म तूर्णमुपाद्रवत् 026c दर्शनं राक्षसेन्द्रस्य काङ्क्षमाणो द्विजस्तदा