001 भीष्म उवाच 001a तस्यां निशायां व्युष्टायां गते तस्मिन्द्विजोत्तमे 001c निष्क्रम्य गौतमोऽगच्छत्समुद्रं प्रति भारत 002a सामुद्रकान्स वणिजस्ततोऽपश्यत्स्थितान्पथि 002c स तेन सार्थेन सह प्रययौ सागरं प्रति 003a स तु सार्थो महाराज कस्मिंश्चिद्गिरिगह्वरे 003c मत्तेन द्विरदेनाथ निहतः प्रायशोऽभवत् 004a स कथञ्चित्ततस्तस्मात्सार्थान्मुक्तो द्विजस्तदा 004c कान्दिग्भूतो जीवितार्थी प्रदुद्रावोत्तरां दिशम् 005a स सर्वतः परिभ्रष्टः सार्थाद्देशात्तथार्थतः 005c एकाकी व्यद्रवत्तत्र वने किम्पुरुषो यथा 006a स पन्थानमथासाद्य समुद्राभिसरं तदा 006c आससाद वनं रम्यं महत्पुष्पितपादपम् 007a सर्वर्तुकैराम्रवनैः पुष्पितैरुपशोभितम् 007c नन्दनोद्देशसदृशं यक्षकिन्नरसेवितम् 008a शालतालधवाश्वत्थत्वचागुरुवनैस्तथा 008c चन्दनस्य च मुख्यस्य पादपैरुपशोभितम् 008e गिरिप्रस्थेषु रम्येषु शुभेषु सुसुगन्धिषु 009a समन्ततो द्विजश्रेष्ठा वल्गु कूजन्ति तत्र वै 009c मनुष्यवदनास्त्वन्ये भारुण्डा इति विश्रुताः 009e भूलिङ्गशकुनाश्चान्ये समुद्रं सर्वतोऽभवन् 010a स तान्यतिमनोज्ञानि विहङ्गाभिरुतानि वै 010c शृण्वन्सुरमणीयानि विप्रोऽगच्छत गौतमः 011a ततोऽपश्यत्सुरम्ये स सुवर्णसिकताचिते 011c देशभागे समे चित्रे स्वर्गोद्देशसमप्रभे 012a श्रिया जुष्टं महावृक्षं न्यग्रोधं परिमण्डलम् 012c शाखाभिरनुरूपाभिर्भूषितं छत्रसन्निभम् 013a तस्य मूलं सुसंसिक्तं वरचन्दनवारिणा 013c दिव्यपुष्पान्वितं श्रीमत्पितामहसदोपमम् 014a तं दृष्ट्वा गौतमः प्रीतो मुनिकान्तमनुत्तमम् 014c मेध्यं सुरगृहप्रख्यं पुष्पितैः पादपैर्वृतम् 014e तमागम्य मुदा युक्तस्तस्याधस्तादुपाविशत् 015a तत्रासीनस्य कौरव्य गौतमस्य सुखः शिवः 015c पुष्पाणि समुपस्पृश्य प्रववावनिलः शुचिः 015e ह्लादयन्सर्वगात्राणि गौतमस्य तदा नृप 016a स तु विप्रः परिश्रान्तः स्पृष्टः पुण्येन वायुना 016c सुखमासाद्य सुष्वाप भास्करश्चास्तमभ्यगात् 017a ततोऽस्तं भास्करे याते सन्ध्याकाल उपस्थिते 017c आजगाम स्वभवनं ब्रह्मलोकात्खगोत्तमः 018a नाडीजङ्घ इति ख्यातो दयितो ब्रह्मणः सखा 018c बकराजो महाप्राज्ञः कश्यपस्यात्मसम्भवः 019a राजधर्मेति विख्यातो बभूवाप्रतिमो भुवि 019c देवकन्यासुतः श्रीमान्विद्वान्देवपतिप्रभः 020a मृष्टहाटकसञ्छन्नो भूषणैरर्कसन्निभैः 020c भूषितः सर्वगात्रेषु देवगर्भः श्रिया ज्वलन् 021a तमागतं द्विजं दृष्ट्वा विस्मितो गौतमोऽभवत् 021c क्षुत्पिपासापरीतात्मा हिंसार्थी चाप्यवैक्षत 022 राजधर्मोवाच 022a स्वागतं भवते विप्र दिष्ट्या प्राप्तोऽसि मे गृहम् 022c अस्तं च सविता यातः सन्ध्येयं समुपस्थिता 023a मम त्वं निलयं प्राप्तः प्रियातिथिरनिन्दितः 023c पूजितो यास्यसि प्रातर्विधिदृष्टेन कर्मणा