001 युधिष्ठिर उवाच 001a पितामह महाप्राज्ञ कुरूणां कीर्तिवर्धन 001c प्रश्नं कञ्चित्प्रवक्ष्यामि तन्मे व्याख्यातुमर्हसि 002a कीदृशा मानवाः सौम्याः कैः प्रीतिः परमा भवेत् 002c आयत्यां च तदात्वे च के क्षमास्तान्वदस्व मे 003a न हि तत्र धनं स्फीतं न च सम्बन्धिबान्धवाः 003c तिष्ठन्ति यत्र सुहृदस्तिष्ठन्तीति मतिर्मम 004a दुर्लभो हि सुहृच्छ्रोता दुर्लभश्च हितः सुहृत् 004c एतद्धर्मभृतां श्रेष्ठ सर्वं व्याख्यातुमर्हसि 005 भीष्म उवाच 005a सन्धेयान्पुरुषान्राजन्नसन्धेयांश्च तत्त्वतः 005c वदतो मे निबोध त्वं निखिलेन युधिष्ठिर 006a लुब्धः क्रूरस्त्यक्तधर्मा निकृतः शठ एव च 006c क्षुद्रः पापसमाचारः सर्वशङ्की तथालसः 007a दीर्घसूत्रोऽनृजुः कष्टो गुरुदारप्रधर्षकः 007c व्यसने यः परित्यागी दुरात्मा निरपत्रपः 008a सर्वतः पापदर्शी च नास्तिको वेदनिन्दकः 008c सम्प्रकीर्णेन्द्रियो लोके यः कामनिरतश्चरेत् 009a असत्यो लोकविद्विष्टः समये चानवस्थितः 009c पिशुनोऽथाकृतप्रज्ञो मत्सरी पापनिश्चयः 010a दुःशीलोऽथाकृतात्मा च नृशंसः कितवस्तथा 010c मित्रैरर्थकृती नित्यमिच्छत्यर्थपरश्च यः 011a वहतश्च यथाशक्ति यो न तुष्यति मन्दधीः 011c अमित्रमिव यो भुङ्क्ते सदा मित्रं नरर्षभ 012a अस्थानक्रोधनो यश्च अकस्माच्च विरज्यते 012c सुहृदश्चैव कल्याणानाशु त्यजति किल्बिषी 013a अल्पेऽप्यपकृते मूढस्तथाज्ञानात्कृतेऽपि च 013c कार्योपसेवी मित्रेषु मित्रद्वेषी नराधिप 014a शत्रुर्मित्रमुखो यश्च जिह्मप्रेक्षी विलोभनः 014c न रज्यति च कल्याणे यस्त्यजेत्तादृशं नरम् 015a पानपो द्वेषणः क्रूरो निर्घृणः परुषस्तथा 015c परोपतापी मित्रध्रुक्तथा प्राणिवधे रतः 016a कृतघ्नश्चाधमो लोके न सन्धेयः कथञ्चन 016c छिद्रान्वेषी न सन्धेयः सन्धेयानपि मे शृणु 017a कुलीना वाक्यसम्पन्ना ज्ञानविज्ञानकोविदाः 017c मित्रज्ञाश्च कृतज्ञाश्च सर्वज्ञाः शोकवर्जिताः 018a माधुर्यगुणसम्पन्नाः सत्यसन्धा जितेन्द्रियाः 018c व्यायामशीलाः सततं भृतपुत्राः कुलोद्गताः 019a रूपवन्तो गुणोपेतास्तथालुब्धा जितश्रमाः 019c दोषैर्वियुक्ताः प्रथितैस्ते ग्राह्याः पार्थिवेन ह 020a यथाशक्तिसमाचाराः सन्तस्तुष्यन्ति हि प्रभो 020c नास्थाने क्रोधवन्तश्च न चाकस्माद्विरागिणः 021a विरक्ताश्च न रुष्यन्ति मनसाप्यर्थकोविदाः 021c आत्मानं पीडयित्वापि सुहृत्कार्यपरायणाः 021e न विरज्यन्ति मित्रेभ्यो वासो रक्तमिवाविकम् 022a दोषांश्च लोभमोहादीनर्थेषु युवतिष्वथ 022c न दर्शयन्ति सुहृदां विश्वस्ता बन्धुवत्सलाः 023a लोष्टकाञ्चनतुल्यार्थाः सुहृत्स्वशठबुद्धयः 023c ये चरन्त्यनभीमाना निसृष्टार्थविभूषणाः 023e सङ्गृह्णन्तः परिजनं स्वाम्यर्थपरमाः सदा 024a ईदृशैः पुरुषश्रेष्ठैः सन्धिं यः कुरुते नृपः 024c तस्य विस्तीर्यते राष्ट्रं ज्योत्स्ना ग्रहपतेरिव 025a शास्त्रनित्या जितक्रोधा बलवन्तो रणप्रियाः 025c क्षान्ताः शीलगुणोपेताः सन्धेयाः पुरुषोत्तमाः 026a ये च दोषसमायुक्ता नराः प्रोक्ता मयानघ 026c तेषामप्यधमो राजन्कृतघ्नो मित्रघातकः 026e त्यक्तव्यः स दुराचारः सर्वेषामिति निश्चयः 027 युधिष्ठिर उवाच 027a विस्तरेणार्थसम्बन्धं श्रोतुमिच्छामि पार्थिव 027c मित्रद्रोही कृतघ्नश्च यः प्रोक्तस्तं च मे वद 028 भीष्म उवाच 028a हन्त ते वर्तयिष्येऽहमितिहासं पुरातनम् 028c उदीच्यां दिशि यद्वृत्तं म्लेच्छेषु मनुजाधिप 029a ब्राह्मणो मध्यदेशीयः कृष्णाङ्गो ब्रह्मवर्जितः 029c ग्रामं प्रेक्ष्य जनाकीर्णं प्राविशद्भैक्षकाङ्क्षया 030a तत्र दस्युर्धनयुतः सर्ववर्णविशेषवित् 030c ब्रह्मण्यः सत्यसन्धश्च दाने च निरतोऽभवत् 031a तस्य क्षयमुपागम्य ततो भिक्षामयाचत 031c प्रतिश्रयं च वासार्थं भिक्षां चैवाथ वार्षिकीम् 032a प्रादात्तस्मै स विप्राय वस्त्रं च सदृशं नवम् 032c नारीं चापि वयोपेतां भर्त्रा विरहितां तदा 033a एतत्सम्प्राप्य हृष्टात्मा दस्योः सर्वं द्विजस्तदा 033c तस्मिन्गृहवरे राजंस्तया रेमे स गौतमः 034a कुटुम्बार्थेषु दस्योः स साहाय्यं चाप्यथाकरोत् 034c तत्रावसत्सोऽथ वर्षाः समृद्धे शबरालये 034e बाणवेध्ये परं यत्नमकरोच्चैव गौतमः 035a वक्राङ्गांस्तु स नित्यं वै सर्वतो बाणगोचरे 035c जघान गौतमो राजन्यथा दस्युगणस्तथा 036a हिंसापरो घृणाहीनः सदा प्राणिवधे रतः 036c गौतमः सन्निकर्षेण दस्युभिः समतामियात् 037a तथा तु वसतस्तस्य दस्युग्रामे सुखं तदा 037c अगच्छन्बहवो मासा निघ्नतः पक्षिणो बहून् 038a ततः कदाचिदपरो द्विजस्तं देशमागमत् 038c जटी चीराजिनधरः स्वाध्यायपरमः शुचिः 039a विनीतो नियताहारो ब्रह्मण्यो वेदपारगः 039c सब्रह्मचारी तद्देश्यः सखा तस्यैव सुप्रियम् 039e तं दस्युग्राममगमद्यत्रासौ गौतमोऽभवत् 040a स तु विप्रगृहान्वेषी शूद्रान्नपरिवर्जकः 040c ग्रामे दस्युजनाकीर्णे व्यचरत्सर्वतोदिशम् 041a ततः स गौतमगृहं प्रविवेश द्विजोत्तमः 041c गौतमश्चापि सम्प्राप्तस्तावन्योन्येन सङ्गतौ 042a वक्राङ्गभारहस्तं तं धनुष्पाणिं कृतागसम् 042c रुधिरेणावसिक्ताङ्गं गृहद्वारमुपागतम् 043a तं दृष्ट्वा पुरुषादाभमपध्वस्तं क्षयागतम् 043c अभिज्ञाय द्विजो व्रीडामगमद्वाक्यमाह च 044a किमिदं कुरुषे मौढ्याद्विप्रस्त्वं हि कुलोद्गतः 044c मध्यदेशपरिज्ञातो दस्युभावं गतः कथम् 045a पूर्वान्स्मर द्विजाग्र्यांस्तान्प्रख्यातान्वेदपारगान् 045c येषां वंशेऽभिजातस्त्वमीदृशः कुलपांसनः 046a अवबुध्यात्मनात्मानं सत्यं शीलं श्रुतं दमम् 046c अनुक्रोशं च संस्मृत्य त्यज वासमिमं द्विज 047a एवमुक्तः स सुहृदा तदा तेन हितैषिणा 047c प्रत्युवाच ततो राजन्विनिश्चित्य तदार्तवत् 048a अधनोऽस्मि द्विजश्रेष्ठ न च वेदविदप्यहम् 048c वृत्त्यर्थमिह सम्प्राप्तं विद्धि मां द्विजसत्तम 049a त्वद्दर्शनात्तु विप्रर्षे कृतार्थं वेद्म्यहं द्विज 049c आत्मानं सह यास्यावः श्वो वसाद्येह शर्वरीम्