001 वैशम्पायन उवाच 001a इत्युक्तवति भीष्मे तु तूष्णीम्भूते युधिष्ठिरः 001c पप्रच्छावसरं गत्वा भ्रातॄन्विदुरपञ्चमान् 002a धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता 002c तेषां गरीयान्कतमो मध्यमः को लघुश्च कः 003a कस्मिंश्चात्मा नियन्तव्यस्त्रिवर्गविजयाय वै 003c सन्तुष्टा नैष्ठिकं वाक्यं यथावद्वक्तुमर्हथ 004a ततोऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान् 004c जगाद विदुरो वाक्यं धर्मशास्त्रमनुस्मरन् 005a बाहुश्रुत्यं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा 005c भावशुद्धिर्दया सत्यं संयमश्चात्मसम्पदः 006a एतदेवाभिपद्यस्व मा ते भूच्चलितं मनः 006c एतन्मूलौ हि धर्मार्थावेतदेकपदं हितम् 007a धर्मेणैवर्षयस्तीर्णा धर्मे लोकाः प्रतिष्ठिताः 007c धर्मेण देवा दिविगा धर्मे चार्थः समाहितः 008a धर्मो राजन्गुणश्रेष्ठो मध्यमो ह्यर्थ उच्यते 008c कामो यवीयानिति च प्रवदन्ति मनीषिणः 008e तस्माद्धर्मप्रधानेन भवितव्यं यतात्मना 009a समाप्तवचने तस्मिन्नर्थशास्त्रविशारदः 009c पार्थो वाक्यार्थतत्त्वज्ञो जगौ वाक्यमतन्द्रितः 010a कर्मभूमिरियं राजन्निह वार्त्ता प्रशस्यते 010c कृषिवाणिज्यगोरक्ष्यं शिल्पानि विविधानि च 011a अर्थ इत्येव सर्वेषां कर्मणामव्यतिक्रमः 011c न ऋतेऽर्थेन वर्तेते धर्मकामाविति श्रुतिः 012a विजयी ह्यर्थवान्धर्ममाराधयितुमुत्तमम् 012c कामं च चरितुं शक्तो दुष्प्रापमकृतात्मभिः 013a अर्थस्यावयवावेतौ धर्मकामाविति श्रुतिः 013c अर्थसिद्ध्या हि निर्वृत्तावुभावेतौ भविष्यतः 014a उद्भूतार्थं हि पुरुषं विशिष्टतरयोनयः 014c ब्रह्माणमिव भूतानि सततं पर्युपासते 015a जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः 015c मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक् 016a काषायवसनाश्चान्ये श्मश्रुला ह्रीसुसंवृताः 016c विद्वांसश्चैव शान्ताश्च मुक्ताः सर्वपरिग्रहैः 017a अर्थार्थिनः सन्ति केचिदपरे स्वर्गकाङ्क्षिणः 017c कुलप्रत्यागमाश्चैके स्वं स्वं मार्गमनुष्ठिताः 018a आस्तिका नास्तिकाश्चैव नियताः संयमे परे 018c अप्रज्ञानं तमोभूतं प्रज्ञानं तु प्रकाशता 019a भृत्यान्भोगैर्द्विषो दण्डैर्यो योजयति सोऽर्थवान् 019c एतन्मतिमतां श्रेष्ठ मतं मम यथातथम् 019e अनयोस्तु निबोध त्वं वचनं वाक्यकण्ठयोः 020a ततो धर्मार्थकुशलौ माद्रीपुत्रावनन्तरम् 020c नकुलः सहदेवश्च वाक्यं जगदतुः परम् 021a आसीनश्च शयानश्च विचरन्नपि च स्थितः 021c अर्थयोगं दृढं कुर्याद्योगैरुच्चावचैरपि 022a अस्मिंस्तु वै सुसंवृत्ते दुर्लभे परमप्रिये 022c इह कामानवाप्नोति प्रत्यक्षं नात्र संशयः 023a योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः 023c मध्विवामृतसंयुक्तं तस्मादेतौ मताविह 024a अनर्थस्य न कामोऽस्ति तथार्थोऽधर्मिणः कुतः 024c तस्मादुद्विजते लोको धर्मार्थाद्यो बहिष्कृतः 025a तस्माद्धर्मप्रधानेन साध्योऽर्थः संयतात्मना 025c विश्वस्तेषु च भूतेषु कल्पते सर्व एव हि 026a धर्मं समाचरेत्पूर्वं तथार्थं धर्मसंयुतम् 026c ततः कामं चरेत्पश्चात्सिद्धार्थस्य हि तत्फलम् 027a विरेमतुस्तु तद्वाक्यमुक्त्वा तावश्विनोः सुतौ 027c भीमसेनस्तदा वाक्यमिदं वक्तुं प्रचक्रमे 028a नाकामः कामयत्यर्थं नाकामो धर्ममिच्छति 028c नाकामः कामयानोऽस्ति तस्मात्कामो विशिष्यते 029a कामेन युक्ता ऋषयस्तपस्येव समाहिताः 029c पलाशफलमूलाशा वायुभक्षाः सुसंयताः 030a वेदोपवादेष्वपरे युक्ताः स्वाध्यायपारगाः 030c श्राद्धयज्ञक्रियायां च तथा दानप्रतिग्रहे 031a वणिजः कर्षका गोपाः कारवः शिल्पिनस्तथा 031c दैवकर्मकृतश्चैव युक्ताः कामेन कर्मसु 032a समुद्रं चाविशन्त्यन्ये नराः कामेन संयुताः 032c कामो हि विविधाकारः सर्वं कामेन सन्ततम् 033a नास्ति नासीन्नाभविष्यद्भूतं कामात्मकात्परम् 033c एतत्सारं महाराज धर्मार्थावत्र संश्रितौ 034a नवनीतं यथा दध्नस्तथा कामोऽर्थधर्मतः 034c श्रेयस्तैलं च पिण्याकाद्घृतं श्रेय उदश्वितः 035a श्रेयः पुष्पफलं काष्ठात्कामो धर्मार्थयोर्वरः 035c पुष्पतो मध्विव रसः कामात्सञ्जायते सुखम् 036a सुचारुवेषाभिरलङ्कृताभिर्मदोत्कटाभिः प्रियवादिनीभिः 036c रमस्व योषाभिरुपेत्य कामं कामो हि राजंस्तरसाभिपाती 037a बुद्धिर्ममैषा परिषत्स्थितस्य मा भूद्विचारस्तव धर्मपुत्र 037c स्यात्संहितं सद्भिरफल्गुसारं समेत्य वाक्यं परमानृशंस्यम् 038a धर्मार्थकामाः सममेव सेव्या यस्त्वेकसेवी स नरो जघन्यः 038c द्वयोस्तु दक्षं प्रवदन्ति मध्यं स उत्तमो यो निरतस्त्रिवर्गे 039a प्राज्ञः सुहृच्चन्दनसारलिप्तो विचित्रमाल्याभरणैरुपेतः 039c ततो वचः सङ्ग्रहविग्रहेण प्रोक्त्वा यवीयान्विरराम भीमः 040a ततो मुहूर्तादथ धर्मराजो वाक्यानि तेषामनुचिन्त्य सम्यक् 040c उवाच वाचावितथं स्मयन्वै बहुश्रुतो धर्मभृतां वरिष्ठः 041a निःसंशयं निश्चितधर्मशास्त्राः सर्वे भवन्तो विदितप्रमाणाः 041c विज्ञातुकामस्य ममेह वाक्यमुक्तं यद्वै नैष्ठिकं तच्छ्रुतं मे 041e इह त्ववश्यं गदतो ममापि वाक्यं निबोधध्वमनन्यभावाः 042a यो वै न पापे निरतो न पुण्ये नार्थे न धर्मे मनुजो न कामे 042c विमुक्तदोषः समलोष्टकाञ्चनः स मुच्यते दुःखसुखार्थसिद्धेः 043a भूतानि जातीमरणान्वितानि जराविकारैश्च समन्वितानि 043c भूयश्च तैस्तैः प्रतिबोधितानि मोक्षं प्रशंसन्ति न तं च विद्मः 044a स्नेहे नबद्धस्य न सन्ति तानीत्येवं स्वयम्भूर्भगवानुवाच 044c बुधाश्च निर्वाणपरा वदन्ति तस्मान्न कुर्यात्प्रियमप्रियं च 045a एतत्प्रधानं न तु कामकारो यथा नियुक्तोऽस्मि तथा चरामि 045c भूतानि सर्वाणि विधिर्नियुङ्क्ते विधिर्बलीयानिति वित्त सर्वे 046a न कर्मणाप्नोत्यनवाप्यमर्थं यद्भावि सर्वं भवतीति वित्त 046c त्रिवर्गहीनोऽपि हि विन्दतेऽर्थं तस्मादिदं लोकहिताय गुह्यम् 047a ततस्तदग्र्यं वचनं मनोनुगं समस्तमाज्ञाय ततोऽतिहेतुमत् 047c तदा प्रणेदुश्च जहर्षिरे च ते कुरुप्रवीराय च चक्रुरञ्जलीन् 048a सुचारुवर्णाक्षरशब्दभूषितां मनोनुगां निर्धुतवाक्यकण्टकाम् 048c निशम्य तां पार्थिव पार्थभाषितां गिरं नरेन्द्राः प्रशशंसुरेव ते 048e पुनश्च पप्रच्छ सरिद्वरासुतं ततः परं धर्ममहीनसत्त्वः