001 वैशम्पायन उवाच 001a कथान्तरमथासाद्य खड्गयुद्धविशारदः 001c नकुलः शरतल्पस्थमिदमाह पितामहम् 002a धनुः प्रहरणं श्रेष्ठमिति वादः पितामह 002c मतस्तु मम धर्मज्ञ खड्ग एव सुसंशितः 003a विशीर्णे कार्मुके राजन्प्रक्षीणेषु च वाजिषु 003c खड्गेन शक्यते युद्धे साध्वात्मा परिरक्षितुम् 004a शरासनधरांश्चैव गदाशक्तिधरांस्तथा 004c एकः खड्गधरो वीरः समर्थः प्रतिबाधितुम् 005a अत्र मे संशयश्चैव कौतूहलमतीव च 005c किं स्वित्प्रहरणं श्रेष्ठं सर्वयुद्धेषु पार्थिव 006a कथं चोत्पादितः खड्गः कस्यार्थाय च केन वा 006c पूर्वाचार्यं च खड्गस्य प्रब्रूहि प्रपितामह 007a तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः 007c सर्वकौशलसंयुक्तं सूक्ष्मचित्रार्थवच्छुभम् 008a ततस्तस्योत्तरं वाक्यं स्वरवर्णोपपादितम् 008c शिक्षान्यायोपसम्पन्नं द्रोणशिष्याय पृच्छते 009a उवाच सर्वधर्मज्ञो धनुर्वेदस्य पारगः 009c शरतल्पगतो भीष्मो नकुलाय महात्मने 010a तत्त्वं शृणुष्व माद्रेय यदेतत्परिपृच्छसि 010c प्रबोधितोऽस्मि भवता धातुमानिव पर्वतः 011a सलिलैकार्णवं तात पुरा सर्वमभूदिदम् 011c निष्प्रकम्पमनाकाशमनिर्देश्यमहीतलम् 012a तमःसंवृतमस्पर्शमतिगम्भीरदर्शनम् 012c निःशब्दं चाप्रमेयं च तत्र जज्ञे पितामहः 013a सोऽसृजद्वायुमग्निं च भास्करं चापि वीर्यवान् 013c आकाशमसृजच्चोर्ध्वमधो भूमिं च नैर्ऋतिम् 014a नभः सचन्द्रतारं च नक्षत्राणि ग्रहांस्तथा 014c संवत्सरानहोरात्रानृतूनथ लवान्क्षणान् 015a ततः शरीरं लोकस्थं स्थापयित्वा पितामहः 015c जनयामास भगवान्पुत्रानुत्तमतेजसः 016a मरीचिमृषिमत्रिं च पुलस्त्यं पुलहं क्रतुम् 016c वसिष्ठाङ्गिरसौ चोभौ रुद्रं च प्रभुमीश्वरम् 017a प्राचेतसस्तथा दक्षः कन्याः षष्टिमजीजनत् 017c ता वै ब्रह्मर्षयः सर्वाः प्रजार्थं प्रतिपेदिरे 018a ताभ्यो विश्वानि भूतानि देवाः पितृगणास्तथा 018c गन्धर्वाप्सरसश्चैव रक्षांसि विविधानि च 019a पतत्रिमृगमीनाश्च प्लवङ्गाश्च महोरगाः 019c नानाकृतिबलाश्चान्ये जलक्षितिविचारिणः 020a औद्भिदाः स्वेदजाश्चैव अण्डजाश्च जरायुजाः 020c जज्ञे तात तथा सर्वं जगत्स्थावरजङ्गमम् 021a भूतसर्गमिमं कृत्वा सर्वलोकपितामहः 021c शाश्वतं वेदपठितं धर्मं च युयुजे पुनः 022a तस्मिन्धर्मे स्थिता देवाः सहाचार्यपुरोहिताः 022c आदित्या वसवो रुद्राः ससाध्या मरुदश्विनः 023a भृग्वत्र्यङ्गिरसः सिद्धाः काश्यपश्च तपोधनः 023c वसिष्ठगौतमागस्त्यास्तथा नारदपर्वतौ 024a ऋषयो वालखिल्याश्च प्रभासाः सिकतास्तथा 024c घृताचाः सोमवायव्या वैखानसमरीचिपाः 025a अकृष्टाश्चैव हंसाश्च ऋषयोऽथाग्नियोनिजाः 025c वानप्रस्थाः पृश्नयश्च स्थिता ब्रह्मानुशासने 026a दानवेन्द्रास्त्वतिक्रम्य तत्पितामहशासनम् 026c धर्मस्यापचयं चक्रुः क्रोधलोभसमन्विताः 027a हिरण्यकशिपुश्चैव हिरण्याक्षो विरोचनः 027c शम्बरो विप्रचित्तिश्च प्रह्रादो नमुचिर्बलिः 028a एते चान्ये च बहवः सगणा दैत्यदानवाः 028c धर्मसेतुमतिक्रम्य रेमिरेऽधर्मनिश्चयाः 029a सर्वे स्म तुल्यजातीया यथा देवास्तथा वयम् 029c इत्येवं हेतुमास्थाय स्पर्धमानाः सुरर्षिभिः 030a न प्रियं नाप्यनुक्रोशं चक्रुर्भूतेषु भारत 030c त्रीनुपायानतिक्रम्य दण्डेन रुरुधुः प्रजाः 030e न जग्मुः संविदं तैश्च दर्पादसुरसत्तमाः 031a अथ वै भगवान्ब्रह्मा ब्रह्मर्षिभिरुपस्थितः 031c तदा हिमवतः पृष्ठे सुरम्ये पद्मतारके 032a शतयोजनविस्तारे मणिमुक्ताचयाचिते 032c तस्मिन्गिरिवरे पुत्र पुष्पितद्रुमकानने 032e तस्थौ स विबुधश्रेष्ठो ब्रह्मा लोकार्थसिद्धये 033a ततो वर्षसहस्रान्ते वितानमकरोत्प्रभुः 033c विधिना कल्पदृष्टेन यथोक्तेनोपपादितम् 034a ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः 034c मरुद्भिः परिसंस्तीर्णं दीप्यमानैश्च पावकैः 035a काञ्चनैर्यज्ञभाण्डैश्च भ्राजिष्णुभिरलङ्कृतम् 035c वृतं देवगणैश्चैव प्रबभौ यज्ञमण्डलम् 036a तथा ब्रह्मर्षिभिश्चैव सदस्यैरुपशोभितम् 036c तत्र घोरतमं वृत्तमृषीणां मे परिश्रुतम् 037a चन्द्रमा विमलं व्योम यथाभ्युदिततारकम् 037c विदार्याग्निं तथा भूतमुत्थितं श्रूयते ततः 038a नीलोत्पलसवर्णाभं तीक्ष्णदंष्ट्रं कृशोदरम् 038c प्रांशु दुर्दर्शनं चैवाप्यतितेजस्तथैव च 039a तस्मिन्नुत्पतमाने च प्रचचाल वसुन्धरा 039c तत्रोर्मिकलिलावर्तश्चुक्षुभे च महार्णवः 040a पेतुरुल्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः 040c अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ 040e मुहुर्मुहुश्च भूतानि प्राव्यथन्त भयात्तथा 041a ततः सुतुमुलं दृष्ट्वा तदद्भुतमुपस्थितम् 041c महर्षिसुरगन्धर्वानुवाचेदं पितामहः 042a मयैतच्चिन्तितं भूतमसिर्नामैष वीर्यवान् 042c रक्षणार्थाय लोकस्य वधाय च सुरद्विषाम् 043a ततस्तद्रूपमुत्सृज्य बभौ निस्त्रिंश एव सः 043c विमलस्तीक्ष्णधारश्च कालान्तक इवोद्यतः 044a ततस्तं शितिकण्ठाय रुद्रायर्षभकेतवे 044c ब्रह्मा ददावसिं दीप्तमधर्मप्रतिवारणम् 045a ततः स भगवान्रुद्रो ब्रह्मर्षिगणसंस्तुतः 045c प्रगृह्यासिममेयात्मा रूपमन्यच्चकार ह 046a चतुर्बाहुः स्पृशन्मूर्ध्ना भूस्थितोऽपि नभस्तलम् 046c ऊर्ध्वदृष्टिर्महालिङ्गो मुखाज्ज्वालाः समुत्सृजन् 046e विकुर्वन्बहुधा वर्णान्नीलपाण्डुरलोहितान् 047a बिभ्रत्कृष्णाजिनं वासो हेमप्रवरतारकम् 047c नेत्रं चैकं ललाटेन भास्करप्रतिमं महत् 047e शुशुभाते च विमले द्वे नेत्रे कृष्णपिङ्गले 048a ततो देवो महादेवः शूलपाणिर्भगाक्षिहा 048c सम्प्रगृह्य तु निस्त्रिंशं कालार्कानलसन्निभम् 049a त्रिकूटं चर्म चोद्यम्य सविद्युतमिवाम्बुदम् 049c चचार विविधान्मार्गान्महाबलपराक्रमः 049e विधुन्वन्नसिमाकाशे दानवान्तचिकीर्षया 050a तस्य नादं विनदतो महाहासं च मुञ्चतः 050c बभौ प्रतिभयं रूपं तदा रुद्रस्य भारत 051a तद्रूपधारिणं रुद्रं रौद्रकर्म चिकीर्षवः 051c निशम्य दानवाः सर्वे हृष्टाः समभिदुद्रुवुः 052a अश्मभिश्चाप्यवर्षन्त प्रदीप्तैश्च तथोल्मुकैः 052c घोरैः प्रहरणैश्चान्यैः शितधारैरयोमुखैः 053a ततस्तद्दानवानीकं सम्प्रणेतारमच्युतम् 053c रुद्रखड्गबलोद्धूतं प्रचचाल मुमोह च 054a चित्रं शीघ्रतरत्वाच्च चरन्तमसिधारिणम् 054c तमेकमसुराः सर्वे सहस्रमिति मेनिरे 055a छिन्दन्भिन्दन्रुजन्कृन्तन्दारयन्प्रमथन्नपि 055c अचरद्दैत्यसङ्घेषु रुद्रोऽग्निरिव कक्षगः 056a असिवेगप्ररुग्णास्ते छिन्नबाहूरुवक्षसः 056c सम्प्रकृत्तोत्तमाङ्गाश्च पेतुरुर्व्यां महासुराः 057a अपरे दानवा भग्ना रुद्रघातावपीडिताः 057c अन्योन्यमभिनर्दन्तो दिशः सम्प्रतिपेदिरे 058a भूमिं केचित्प्रविविशुः पर्वतानपरे तथा 058c अपरे जग्मुराकाशमपरेऽम्भः समाविशन् 059a तस्मिन्महति संवृत्ते समरे भृशदारुणे 059c बभौ भूमिः प्रतिभया तदा रुधिरकर्दमा 060a दानवानां शरीरैश्च महद्भिः शोणितोक्षितैः 060c समाकीर्णा महाबाहो शैलैरिव सकिंशुकैः 061a रुधिरेण परिक्लिन्ना प्रबभौ वसुधा तदा 061c रक्तार्द्रवसना श्यामा नारीव मदविह्वला 062a स रुद्रो दानवान्हत्वा कृत्वा धर्मोत्तरं जगत् 062c रौद्रं रूपं विहायाशु चक्रे रूपं शिवं शिवः 063a ततो महर्षयः सर्वे सर्वे देवगणास्तथा 063c जयेनाद्भुतकल्पेन देवदेवमथार्चयन् 064a ततः स भगवान्रुद्रो दानवक्षतजोक्षितम् 064c असिं धर्मस्य गोप्तारं ददौ सत्कृत्य विष्णवे 065a विष्णुर्मरीचये प्रादान्मरीचिर्भगवांश्च तम् 065c महर्षिभ्यो ददौ खड्गमृषयो वासवाय तु 066a महेन्द्रो लोकपालेभ्यो लोकपालास्तु पुत्रक 066c मनवे सूर्यपुत्राय ददुः खड्गं सुविस्तरम् 067a ऊचुश्चैनं तथैवाद्यं मानुषाणां त्वमीश्वरः 067c असिना धर्मगर्भेण पालयस्व प्रजा इति 068a धर्मसेतुमतिक्रान्ताः सूक्ष्मस्थूलार्थकारणात् 068c विभज्य दण्डं रक्ष्याः स्युर्धर्मतो न यदृच्छया 069a दुर्वाचा निग्रहो दण्डो हिरण्यबहुलस्तथा 069c व्यङ्गनं च शरीरस्य वधो वानल्पकारणात् 070a असेरेतानि रूपाणि दुर्वाचादीनि निर्दिशेत् 070c असेरेव प्रमाणानि परिमाणव्यतिक्रमात् 071a अधिसृज्याथ पुत्रं स्वं प्रजानामधिपं ततः 071c मनुः प्रजानां रक्षार्थं क्षुपाय प्रददावसिम् 072a क्षुपाज्जग्राह चेक्ष्वाकुरिक्ष्वाकोश्च पुरूरवाः 072c आयुश्च तस्माल्लेभे तं नहुषश्च ततो भुवि 073a ययातिर्नहुषाच्चापि पूरुस्तस्माच्च लब्धवान् 073c आमूर्तरयसस्तस्मात्ततो भूमिशयो नृपः 074a भरतश्चापि दौःषन्तिर्लेभे भूमिशयादसिम् 074c तस्माच्च लेभे धर्मज्ञो राजन्नैडबिडस्तथा 075a ततश्चैडबिडाल्लेभे धुन्धुमारो जनेश्वरः 075c धुन्धुमाराच्च काम्बोजो मुचुकुन्दस्ततोऽलभत् 076a मुचुकुन्दान्मरुत्तश्च मरुत्तादपि रैवतः 076c रैवताद्युवनाश्वश्च युवनाश्वात्ततो रघुः 077a इक्ष्वाकुवंशजस्तस्माद्धरिणाश्वः प्रतापवान् 077c हरिणाश्वादसिं लेभे शुनकः शुनकादपि 078a उशीनरो वै धर्मात्मा तस्माद्भोजाः सयादवाः 078c यदुभ्यश्च शिबिर्लेभे शिबेश्चापि प्रतर्दनः 079a प्रतर्दनादष्टकश्च रुशदश्वोऽष्टकादपि 079c रुशदश्वाद्भरद्वाजो द्रोणस्तस्मात्कृपस्ततः 079e ततस्त्वं भ्रातृभिः सार्धं परमासिमवाप्तवान् 080a कृत्तिकाश्चास्य नक्षत्रमसेरग्निश्च दैवतम् 080c रोहिण्यो गोत्रमस्याथ रुद्रश्च गुरुरुत्तमः 081a असेरष्टौ च नामानि रहस्यानि निबोध मे 081c पाण्डवेय सदा यानि कीर्तयल्ँलभते जयम् 082a असिर्विशसनः खड्गस्तीक्ष्णवर्त्मा दुरासदः 082c श्रीगर्भो विजयश्चैव धर्मपालस्तथैव च 083a अग्र्यः प्रहरणानां च खड्गो माद्रवतीसुत 083c महेश्वरप्रणीतश्च पुराणे निश्चयं गतः 084a पृथुस्तूत्पादयामास धनुराद्यमरिन्दम 084c तेनेयं पृथिवी पूर्वं वैन्येन परिरक्षिता 085a तदेतदार्षं माद्रेय प्रमाणं कर्तुमर्हसि 085c असेश्च पूजा कर्तव्या सदा युद्धविशारदैः 086a इत्येष प्रथमः कल्पो व्याख्यातस्ते सुविस्तरः 086c असेरुत्पत्तिसंसर्गो यथावद्भरतर्षभ 087a सर्वथैतदिह श्रुत्वा खड्गसाधनमुत्तमम् 087c लभते पुरुषः कीर्तिं प्रेत्य चानन्त्यमश्नुते