001 भीष्म उवाच 001a कृतार्थो यक्ष्यमाणश्च सर्ववेदान्तगश्च यः 001c आचार्यपितृभार्यार्थं स्वाध्यायार्थमथापि वा 002a एते वै साधवो दृष्टा ब्राह्मणा धर्मभिक्षवः 002c अस्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः 003a अन्यत्र दक्षिणा या तु देया भरतसत्तम 003c अन्येभ्यो हि बहिर्वेद्यां नाकृतान्नं विधीयते 004a सर्वरत्नानि राजा च यथार्हं प्रतिपादयेत् 004c ब्राह्मणाश्चैव यज्ञाश्च सहान्नाः सहदक्षिणाः 005a यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये 005c अधिकं वापि विद्येत स सोमं पातुमर्हति 006a यज्ञश्चेत्प्रतिविद्धः स्यादङ्गेनैकेन यज्वनः 006c ब्राह्मणस्य विशेषेण धार्मिके सति राजनि 007a यो वैश्यः स्याद्बहुपशुर्हीनक्रतुरसोमपः 007c कुटुम्बात्तस्य तद्द्रव्यं यज्ञार्थं पार्थिवो हरेत् 008a आहरेद्वेश्मतः किञ्चित्कामं शूद्रस्य द्रव्यतः 008c न हि वेश्मनि शूद्रस्य कश्चिदस्ति परिग्रहः 009a योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः 009c तयोरपि कुटुम्बाभ्यामाहरेदविचारयन् 010a अदातृभ्यो हरेन्नित्यं व्याख्याप्य नृपतिः प्रभो 010c तथा ह्याचरतो धर्मो नृपतेः स्यादथाखिलः 011a तथैव सप्तमे भक्ते भक्तानि षडनश्नता 011c अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः 011e खलात्क्षेत्रात्तथागाराद्यतो वाप्युपपद्यते 012a आख्यातव्यं नृपस्यैतत्पृच्छतोऽपृच्छतोऽपि वा 012c न तस्मै धारयेद्दण्डं राजा धर्मेण धर्मवित् 013a क्षत्रियस्य हि बालिश्याद्ब्राह्मणः क्लिश्यते क्षुधा 013c श्रुतशीले समाज्ञाय वृत्तिमस्य प्रकल्पयेत् 013e अथैनं परिरक्षेत पिता पुत्रमिवौरसम् 014a इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये 014c अविकल्पः पुराधर्मो धर्मवादैस्तु केवलम् 015a विश्वैस्तु देवैः साध्यैश्च ब्राह्मणैश्च महर्षिभिः 015c आपत्सु मरणाद्भीतैर्लिङ्गप्रतिनिधिः कृतः 016a प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते 016c न साम्परायिकं तस्य दुर्मतेर्विद्यते फलम् 017a न ब्राह्मणान्वेदयेत कश्चिद्राजनि मानवः 017c अवीर्यो वेदनाद्विद्यात्सुवीर्यो वीर्यवत्तरम् 018a तस्माद्राज्ञा सदा तेजो दुःसहं ब्रह्मवादिनाम् 018c मन्ता शास्ता विधाता च ब्राह्मणो देव उच्यते 018e तस्मिन्नाकुशलं ब्रूयान्न शुक्तामीरयेद्गिरम् 019a क्षत्रियो बाहुवीर्येण तरत्यापदमात्मनः 019c धनेन वैश्यः शूद्रश्च मन्त्रैर्होमैश्च वै द्विजः 020a न वै कन्या न युवतिर्नामन्त्रो न च बालिशः 020c परिवेष्टाग्निहोत्रस्य भवेन्नासंस्कृतस्तथा 020e नरके निपतन्त्येते जुह्वानाः स च यस्य तत् 021a प्राजापत्यमदत्त्वाश्वमग्न्याधेयस्य दक्षिणाम् 021c अनाहिताग्निरिति स प्रोच्यते धर्मदर्शिभिः 022a पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः 022c अनाप्तदक्षिणैर्यज्ञैर्न यजेत कथञ्चन 023a प्रजाः पशूंश्च स्वर्गं च हन्ति यज्ञो ह्यदक्षिणः 023c इन्द्रियाणि यशः कीर्तिमायुश्चास्योपकृन्तति 024a उदक्या ह्यासते ये च ये च केचिदनग्नयः 024c कुलं चाश्रोत्रियं येषां सर्वे ते शूद्रधर्मिणः 025a उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः 025c उषित्वा द्वादश समाः शूद्रकर्मेह गच्छति 026a अनार्यां शयने बिभ्रदुज्झन्बिभ्रच्च यो द्विजाम् 026c अब्राह्मणो मन्यमानस्तृणेष्वासीत पृष्ठतः 026e तथा स शुध्यते राजञ्शृणु चात्र वचो मम 027a यदेकरात्रेण करोति पापं कृष्णं वर्णं ब्राह्मणः सेवमानः 027c स्थानासनाभ्यां विचरन्व्रती संस्त्रिभिर्वर्षैः शमयेदात्मपापम् 028a न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन्न विवाहकाले 028c न गुर्वर्थे नात्मनो जीवितार्थे पञ्चानृतान्याहुरपातकानि 029a श्रद्दधानः शुभां विद्यां हीनादपि समाचरेत् 029c सुवर्णमपि चामेध्यादाददीतेति धारणा 030a स्त्रीरत्नं दुष्कुलाच्चापि विषादप्यमृतं पिबेत् 030c अदुष्टा हि स्त्रियो रत्नमाप इत्येव धर्मतः 031a गोब्राह्मणहितार्थं च वर्णानां सङ्करेषु च 031c गृह्णीयात्तु धनुर्वैश्यः परित्राणाय चात्मनः 032a सुरापानं ब्रह्महत्या गुरुतल्पमथापि वा 032c अनिर्देश्यानि मन्यन्ते प्राणान्तानीति धारणा 033a सुवर्णहरणं स्तैन्यं विप्रासङ्गश्च पातकम् 033c विहरन्मद्यपानं चाप्यगम्यागमनं तथा 034a पतितैः सम्प्रयोगाच्च ब्राह्मणैर्योनितस्तथा 034c अचिरेण महाराज तादृशो वै भवत्युत 035a संवत्सरेण पतति पतितेन सहाचरन् 035c याजनाध्यापनाद्यौनान्न तु यानासनाशनात् 036a एतानि च ततोऽन्यानि निर्देश्यानीति धारणा 036c निर्देश्यकेन विधिना कालेनाव्यसनी भवेत् 037a अन्नं तिर्यङ्न होतव्यं प्रेतकर्मण्यपातिते 037c त्रिषु त्वेतेषु पूर्वेषु न कुर्वीत विचारणाम् 038a अमात्यान्वा गुरून्वापि जह्याद्धर्मेण धार्मिकः 038c प्रायश्चित्तमकुर्वाणैर्नैतैरर्हति संविदम् 039a अधर्मकारी धर्मेण तपसा हन्ति किल्बिषम् 039c ब्रुवन्स्तेन इति स्तेनं तावत्प्राप्नोति किल्बिषम् 039e अस्तेनं स्तेन इत्युक्त्वा द्विगुणं पापमाप्नुयात् 040a त्रिभागं ब्रह्महत्यायाः कन्या प्राप्नोति दुष्यती 040c यस्तु दूषयिता तस्याः शेषं प्राप्नोति किल्बिषम् 041a ब्राह्मणायावगूर्येह स्पृष्ट्वा गुरुतरं भवेत् 041c वर्षाणां हि शतं पापः प्रतिष्ठां नाधिगच्छति 042a सहस्रं त्वेव वर्षाणां निपात्य नरके वसेत् 042c तस्मान्नैवावगूर्याद्धि नैव जातु निपातयेत् 043a शोणितं यावतः पांसून्सङ्गृह्णीयाद्द्विजक्षतात् 043c तावतीः स समा राजन्नरके परिवर्तते 044a भ्रूणहाहवमध्ये तु शुध्यते शस्त्रपातितः 044c आत्मानं जुहुयाद्वह्नौ समिद्धे तेन शुध्यति 045a सुरापो वारुणीमुष्णां पीत्वा पापाद्विमुच्यते 045c तया स काये निर्दग्धे मृत्युना प्रेत्य शुध्यति 045e लोकांश्च लभते विप्रो नान्यथा लभते हि सः 046a गुरुतल्पमधिष्ठाय दुरात्मा पापचेतनः 046c सूर्मीं ज्वलन्तीमाश्लिष्य मृत्युना स विशुध्यति 047a अथ वा शिश्नवृषणावादायाञ्जलिना स्वयम् 047c नैर्ऋतीं दिशमास्थाय निपतेत्स त्वजिह्मगः 048a ब्राह्मणार्थेऽपि वा प्राणान्सन्त्यजेत्तेन शुध्यति 048c अश्वमेधेन वापीष्ट्वा गोमेधेनापि वा पुनः 048e अग्निष्टोमेन वा सम्यगिह प्रेत्य च पूयते 049a तथैव द्वादश समाः कपाली ब्रह्महा भवेत् 049c ब्रह्मचारी चरेद्भैक्षं स्वकर्मोदाहरन्मुनिः 050a एवं वा तपसा युक्तो ब्रह्महा सवनी भवेत् 050c एवं वा गर्भमज्ञाता चात्रेयीं योऽभिगच्छति 050e द्विगुणा ब्रह्महत्या वै आत्रेयीव्यसने भवेत् 051a सुरापो नियताहारो ब्रह्मचारी क्षमाचरः 051c ऊर्ध्वं त्रिभ्योऽथ वर्षेभ्यो यजेताग्निष्टुता परम् 051e ऋषभैकसहस्रं गा दत्त्वा शुभमवाप्नुयात् 052a वैश्यं हत्वा तु वर्षे द्वे ऋषभैकशताश्च गाः 052c शूद्रं हत्वाब्दमेवैकमृषभैकादशाश्च गाः 053a श्वबर्बरखरान्हत्वा शौद्रमेव व्रतं चरेत् 053c मार्जारचाषमण्डूकान्काकं भासं च मूषकम् 054a उक्तः पशुसमो धर्मो राजन्प्राणिनिपातनात् 054c प्रायश्चित्तान्यथान्यानि प्रवक्ष्याम्यनुपूर्वशः 055a तल्पे चान्यस्य चौर्ये च पृथक्संवत्सरं चरेत् 055c त्रीणि श्रोत्रियभार्यायां परदारे तु द्वे स्मृते 056a काले चतुर्थे भुञ्जानो ब्रह्मचारी व्रती भवेत् 056c स्थानासनाभ्यां विहरेत्त्रिरह्नोऽभ्युदितादपः 056e एवमेव निराचान्तो यश्चाग्नीनपविध्यति 057a त्यजत्यकारणे यश्च पितरं मातरं तथा 057c पतितः स्यात्स कौरव्य तथा धर्मेषु निश्चयः 058a ग्रासाच्छादनमत्यर्थं दद्यादिति निदर्शनम् 058c भार्यायां व्यभिचारिण्यां निरुद्धायां विशेषतः 058e यत्पुंसां परदारेषु तच्चैनां चारयेद्व्रतम् 059a श्रेयांसं शयने हित्वा या पापीयांसमृच्छति 059c श्वभिस्तां खादयेद्राजा संस्थाने बहुसंवृते 060a पुमांसं बन्धयेत्प्राज्ञः शयने तप्त आयसे 060c अप्यादधीत दारूणि तत्र दह्येत पापकृत् 061a एष दण्डो महाराज स्त्रीणां भर्तृव्यतिक्रमे 061c संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो भवेत् 062a द्वे तस्य त्रीणि वर्षाणि चत्वारि सहसेविनः 062c कुचरः पञ्च वर्षाणि चरेद्भैक्षं मुनिव्रतः 063a परिवित्तिः परिवेत्ता यया च परिविद्यते 063c पाणिग्राहश्च धर्मेण सर्वे ते पतिताः स्मृताः 064a चरेयुः सर्व एवैते वीरहा यद्व्रतं चरेत् 064c चान्द्रायणं चरेन्मासं कृच्छ्रं वा पापशुद्धये 065a परिवेत्ता प्रयच्छेत परिवित्ताय तां स्नुषाम् 065c ज्येष्ठेन त्वभ्यनुज्ञातो यवीयान्प्रत्यनन्तरम् 065e एनसो मोक्षमाप्नोति सा च तौ चैव धर्मतः 066a अमानुषीषु गोवर्जमनावृष्टिर्न दुष्यति 066c अधिष्ठातारमत्तारं पशूनां पुरुषं विदुः 067a परिधायोर्ध्ववालं तु पात्रमादाय मृन्मयम् 067c चरेत्सप्त गृहान्भैक्षं स्वकर्म परिकीर्तयन् 068a तत्रैव लब्धभोजी स्याद्द्वादशाहात्स शुध्यति 068c चरेत्संवत्सरं चापि तद्व्रतं यन्निराकृति 069a भवेत्तु मानुषेष्वेवं प्रायश्चित्तमनुत्तमम् 069c दानं वादानसक्तेषु सर्वमेव प्रकल्पयेत् 069e अनास्तिकेषु गोमात्रं प्राणमेकं प्रचक्षते 070a श्ववराहमनुष्याणां कुक्कुटस्य खरस्य च 070c मांसं मूत्रपुरीषं च प्राश्य संस्कारमर्हति 071a ब्राह्मणस्य सुरापस्य गन्धमाघ्राय सोमपः 071c अपस्त्र्यहं पिबेदुष्णास्त्र्यहमुष्णं पयः पिबेत् 071e त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्त्र्यहम् 072a एवमेतत्समुद्दिष्टं प्रायश्चित्तं सनातनम् 072c ब्राह्मणस्य विशेषेण तत्त्वज्ञानेन जायते