001 युधिष्ठिर उवाच 001a आनृशंस्यं विजानामि दर्शनेन सतां सदा 001c नृशंसान्न विजानामि तेषां कर्म च भारत 002a कण्टकान्कूपमग्निं च वर्जयन्ति यथा नराः 002c तथा नृशंसकर्माणं वर्जयन्ति नरा नरम् 003a नृशंसो ह्यधमो नित्यं प्रेत्य चेह च भारत 003c तस्माद्ब्रवीहि कौरव्य तस्य धर्मविनिश्चयम् 004 भीष्म उवाच 004a स्पृहास्यान्तर्हिता चैव विदितार्था च कर्मणा 004c आक्रोष्टा क्रुश्यते चैव बन्धिता बध्यते च यः 005a दत्तानुकीर्तिर्विषमः क्षुद्रो नैकृतिकः शठः 005c असम्भोगी च मानी च तथा सङ्गी विकत्थनः 006a सर्वातिशङ्की परुषो बालिशः कृपणस्तथा 006c वर्गप्रशंसी सततमाश्रमद्वेषसङ्करी 007a हिंसाविहारी सततमविशेषगुणागुणः 007c बह्वलीको मनस्वी च लुब्धोऽत्यर्थं नृशंसकृत् 008a धर्मशीलं गुणोपेतं पाप इत्यवगच्छति 008c आत्मशीलानुमानेन न विश्वसिति कस्यचित् 009a परेषां यत्र दोषः स्यात्तद्गुह्यं सम्प्रकाशयेत् 009c समानेष्वेव दोषेषु वृत्त्यर्थमुपघातयेत् 010a तथोपकारिणं चैव मन्यते वञ्चितं परम् 010c दत्त्वापि च धनं काले सन्तपत्युपकारिणे 011a भक्ष्यं भोज्यमथो लेह्यं यच्चान्यत्साधु भोजनम् 011c प्रेक्षमाणेषु योऽश्नीयान्नृशंस इति तं विदुः 012a ब्राह्मणेभ्यः प्रदायाग्रं यः सुहृद्भिः सहाश्नुते 012c स प्रेत्य लभते स्वर्गमिह चानन्त्यमश्नुते 013a एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः 013c सदा विवर्जनीयो वै पुरुषेण बुभूषता