001 युधिष्ठिर उवाच 001a यतः प्रभवति क्रोधः कामश्च भरतर्षभ 001c शोकमोहौ विवित्सा च परासुत्वं तथा मदः 002a लोभो मात्सर्यमीर्ष्या च कुत्सासूया कृपा तथा 002c एतत्सर्वं महाप्राज्ञ याथातथ्येन मे वद 003 भीष्म उवाच 003a त्रयोदशैतेऽतिबलाः शत्रवः प्राणिनां स्मृताः 003c उपासते महाराज समस्ताः पुरुषानिह 004a एते प्रमत्तं पुरुषमप्रमत्ता नुदन्ति हि 004c वृका इव विलुम्पन्ति दृष्ट्वैव पुरुषेतरान् 005a एभ्यः प्रवर्तते दुःखमेभ्यः पापं प्रवर्तते 005c इति मर्त्यो विजानीयात्सततं भरतर्षभ 006a एतेषामुदयं स्थानं क्षयं च पुरुषोत्तम 006c हन्त ते वर्तयिष्यामि तन्मे निगदतः शृणु 007a लोभात्क्रोधः प्रभवति परदोषैरुदीर्यते 007c क्षमया तिष्ठते राजञ्श्रीमांश्च विनिवर्तते 008a सङ्कल्पाज्जायते कामः सेव्यमानो विवर्धते 008c अवद्यदर्शनाद्व्येति तत्त्वज्ञानाच्च धीमताम् 009a विरुद्धानि हि शास्त्राणि पश्यन्तीहाल्पबुद्धयः 009c विवित्सा जायते तत्र तत्त्वज्ञानान्निवर्तते 010a प्रीतेः शोकः प्रभवति वियोगात्तस्य देहिनः 010c यदा निरर्थकं वेत्ति तदा सद्यः प्रणश्यति 011a परासुता क्रोधलोभादभ्यासाच्च प्रवर्तते 011c दयया सर्वभूतानां निर्वेदात्सा निवर्तते 012a सत्त्वत्यागात्तु मात्सर्यमहितानि च सेवते 012c एतत्तु क्षीयते तात साधूनामुपसेवनात् 013a कुलाज्ज्ञानात्तथैश्वर्यान्मदो भवति देहिनाम् 013c एभिरेव तु विज्ञातैर्मदः सद्यः प्रणश्यति 014a ईर्ष्या कामात्प्रभवति सङ्घर्षाच्चैव भारत 014c इतरेषां तु मर्त्यानां प्रज्ञया सा प्रणश्यति 015a विभ्रमाल्लोकबाह्यानां द्वेष्यैर्वाक्यैरसङ्गतैः 015c कुत्सा सञ्जायते राजन्नुपेक्षाभिः प्रशाम्यति 016a प्रतिकर्तुमशक्याय बलस्थायापकारिणे 016c असूया जायते तीव्रा कारुण्याद्विनिवर्तते 017a कृपणान्सततं दृष्ट्वा ततः सञ्जायते कृपा 017c धर्मनिष्ठां यदा वेत्ति तदा शाम्यति सा कृपा 018a एतान्येव जितान्याहुः प्रशमाच्च त्रयोदश 018c एते हि धार्तराष्ट्राणां सर्वे दोषास्त्रयोदश 018e त्वया सर्वात्मना नित्यं विजिता जेष्यसे च तान्