001 युधिष्ठिर उवाच 001a सत्यं धर्मे प्रशंसन्ति विप्रर्षिपितृदेवताः 001c सत्यमिच्छाम्यहं श्रोतुं तन्मे ब्रूहि पितामह 002a सत्यं किंलक्षणं राजन्कथं वा तदवाप्यते 002c सत्यं प्राप्य भवेत्किं च कथं चैव तदुच्यते 003 भीष्म उवाच 003a चातुर्वर्ण्यस्य धर्माणां सङ्करो न प्रशस्यते 003c अविकारितमं सत्यं सर्ववर्णेषु भारत 004a सत्यं सत्सु सदा धर्मः सत्यं धर्मः सनातनः 004c सत्यमेव नमस्येत सत्यं हि परमा गतिः 005a सत्यं धर्मस्तपो योगः सत्यं ब्रह्म सनातनम् 005c सत्यं यज्ञः परः प्रोक्तः सत्ये सर्वं प्रतिष्ठितम् 006a आचारानिह सत्यस्य यथावदनुपूर्वशः 006c लक्षणं च प्रवक्ष्यामि सत्यस्येह यथाक्रमम् 007a प्राप्यते हि यथा सत्यं तच्च श्रोतुं त्वमर्हसि 007c सत्यं त्रयोदशविधं सर्वलोकेषु भारत 008a सत्यं च समता चैव दमश्चैव न संशयः 008c अमात्सर्यं क्षमा चैव ह्रीस्तितिक्षानसूयता 009a त्यागो ध्यानमथार्यत्वं धृतिश्च सततं स्थिरा 009c अहिंसा चैव राजेन्द्र सत्याकारास्त्रयोदश 010a सत्यं नामाव्ययं नित्यमविकारि तथैव च 010c सर्वधर्माविरुद्धं च योगेनैतदवाप्यते 011a आत्मनीष्टे तथानिष्टे रिपौ च समता तथा 011c इच्छाद्वेषक्षयं प्राप्य कामक्रोधक्षयं तथा 012a दमो नान्यस्पृहा नित्यं धैर्यं गाम्भीर्यमेव च 012c अभयं क्रोधशमनं ज्ञानेनैतदवाप्यते 013a अमात्सर्यं बुधाः प्राहुर्दानं धर्मे च संयमम् 013c अवस्थितेन नित्यं च सत्येनामत्सरी भवेत् 014a अक्षमायाः क्षमायाश्च प्रियाणीहाप्रियाणि च 014c क्षमते सर्वतः साधुः साध्वाप्नोति च सत्यवान् 015a कल्याणं कुरुते गाढं ह्रीमान्न श्लाघते क्वचित् 015c प्रशान्तवाङ्मना नित्यं ह्रीस्तु धर्मादवाप्यते 016a धर्मार्थहेतोः क्षमते तितिक्षा क्षान्तिरुच्यते 016c लोकसङ्ग्रहणार्थं तु सा तु धैर्येण लभ्यते 017a त्यागः स्नेहस्य यस्त्यागो विषयाणां तथैव च 017c रागद्वेषप्रहीणस्य त्यागो भवति नान्यथा 018a आर्यता नाम भूतानां यः करोति प्रयत्नतः 018c शुभं कर्म निराकारो वीतरागत्वमेव च 019a धृतिर्नाम सुखे दुःखे यथा नाप्नोति विक्रियाम् 019c तां भजेत सदा प्राज्ञो य इच्छेद्भूतिमात्मनः 020a सर्वथा क्षमिणा भाव्यं तथा सत्यपरेण च 020c वीतहर्षभयक्रोधो धृतिमाप्नोति पण्डितः 021a अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा 021c अनुग्रहश्च दानं च सतां धर्मः सनातनः 022a एते त्रयोदशाकाराः पृथक्सत्यैकलक्षणाः 022c भजन्ते सत्यमेवेह बृंहयन्ति च भारत 023a नान्तः शक्यो गुणानां हि वक्तुं सत्यस्य भारत 023c अतः सत्यं प्रशंसन्ति विप्राः सपितृदेवताः 024a नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् 024c स्थितिर्हि सत्यं धर्मस्य तस्मात्सत्यं न लोपयेत् 025a उपैति सत्याद्दानं हि तथा यज्ञाः सदक्षिणाः 025c व्रताग्निहोत्रं वेदाश्च ये चान्ये धर्मनिश्चयाः 026a अश्वमेधसहस्रं च सत्यं च तुलया धृतम् 026c अश्वमेधसहस्राद्धि सत्यमेवातिरिच्यते