001 भीष्म उवाच 001a सर्वमेतत्तपोमूलं कवयः परिचक्षते 001c न ह्यतप्ततपा मूढः क्रियाफलमवाप्यते 002a प्रजापतिरिदं सर्वं तपसैवासृजत्प्रभुः 002c तथैव वेदानृषयस्तपसा प्रतिपेदिरे 003a तपसो ह्यानुपूर्व्येण फलमूलानिलाशनाः 003c त्रील्ँलोकांस्तपसा सिद्धाः पश्यन्ति सुसमाहिताः 004a औषधान्यगदादीनि तिस्रो विद्याश्च संस्कृताः 004c तपसैव हि सिध्यन्ति तपोमूलं हि साधनम् 005a यद्दुरापं दुराम्नायं दुराधर्षं दुरुत्सहम् 005c सर्वं तत्तपसा शक्यं तपो हि दुरतिक्रमम् 006a सुरापोऽसम्मतादायी भ्रूणहा गुरुतल्पगः 006c तपसैव सुतप्तेन नरः पापाद्विमुच्यते 007a तपसो बहुरूपस्य तैस्तैर्द्वारैः प्रवर्ततः 007c निवृत्त्या वर्तमानस्य तपो नानशनात्परम् 008a अहिंसा सत्यवचनं दानमिन्द्रियनिग्रहः 008c एतेभ्यो हि महाराज तपो नानशनात्परम् 009a न दुष्करतरं दानान्नातिमातरमाश्रमः 009c त्रैविद्येभ्यः परं नास्ति सन्न्यासः परमं तपः 010a इन्द्रियाणीह रक्षन्ति धनधान्याभिगुप्तये 010c तस्मादर्थे च धर्मे च तपो नानशनात्परम् 011a ऋषयः पितरो देवा मनुष्या मृगसत्तमाः 011c यानि चान्यानि भूतानि स्थावराणि चराणि च 012a तपःपरायणाः सर्वे सिध्यन्ति तपसा च ते 012c इत्येवं तपसा देवा महत्त्वं चाप्यवाप्नुवन् 013a इमानीष्टविभागानि फलानि तपसा सदा 013c तपसा शक्यते प्राप्तुं देवत्वमपि निश्चयात्