001 युधिष्ठिर उवाच 001a स्वाध्यायकृतयत्नस्य ब्राह्मणस्य पितामह 001c धर्मकामस्य धर्मात्मन्किं नु श्रेय इहोच्यते 002a बहुधादर्शने लोके श्रेयो यदिह मन्यसे 002c अस्मिल्ँलोके परे चैव तन्मे ब्रूहि पितामह 003a महानयं धर्मपथो बहुशाखश्च भारत 003c किं स्विदेवेह धर्माणामनुष्ठेयतमं मतम् 004a धर्मस्य महतो राजन्बहुशाखस्य तत्त्वतः 004c यन्मूलं परमं तात तत्सर्वं ब्रूह्यतन्द्रितः 005 भीष्म उवाच 005a हन्त ते कथयिष्यामि येन श्रेयः प्रपत्स्यसे 005c पीत्वामृतमिव प्राज्ञो ज्ञानतृप्तो भविष्यसि 006a धर्मस्य विधयो नैके ते ते प्रोक्ता महर्षिभिः 006c स्वं स्वं विज्ञानमाश्रित्य दमस्तेषां परायणम् 007a दमं निःश्रेयसं प्राहुर्वृद्धा निश्चयदर्शिनः 007c ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः 008a नादान्तस्य क्रियासिद्धिर्यथावदुपलभ्यते 008c दमो दानं तथा यज्ञानधीतं चातिवर्तते 009a दमस्तेजो वर्धयति पवित्रं च दमः परम् 009c विपाप्मा तेजसा युक्तः पुरुषो विन्दते महत् 010a दमेन सदृशं धर्मं नान्यं लोकेषु शुश्रुम 010c दमो हि परमो लोके प्रशस्तः सर्वधर्मिणाम् 011a प्रेत्य चापि मनुष्येन्द्र परमं विन्दते सुखम् 011c दमेन हि समायुक्तो महान्तं धर्ममश्नुते 012a सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते 012c सुखं पर्येति लोकांश्च मनश्चास्य प्रसीदति 013a अदान्तः पुरुषः क्लेशमभीक्ष्णं प्रतिपद्यते 013c अनर्थांश्च बहूनन्यान्प्रसृजत्यात्मदोषजान् 014a आश्रमेषु चतुर्ष्वाहुर्दममेवोत्तमं व्रतम् 014c तस्य लिङ्गानि वक्ष्यामि येषां समुदयो दमः 015a क्षमा धृतिरहिंसा च समता सत्यमार्जवम् 015c इन्द्रियावजयो दाक्ष्यं मार्दवं ह्रीरचापलम् 016a अकार्पण्यमसंरम्भः सन्तोषः प्रियवादिता 016c अविवित्सानसूया चाप्येषां समुदयो दमः 017a गुरुपूजा च कौरव्य दया भूतेष्वपैशुनम् 017c जनवादोऽमृषावादः स्तुतिनिन्दाविवर्जनम् 018a कामः क्रोधश्च लोभश्च दर्पः स्तम्भो विकत्थनम् 018c मोह ईर्ष्यावमानश्चेत्येतद्दान्तो न सेवते 019a अनिन्दितो ह्यकामात्माथाल्पेच्छोऽथानसूयकः 019c समुद्रकल्पः स नरो न कदाचन पूर्यते 020a अहं त्वयि मम त्वं च मयि ते तेषु चाप्यहम् 020c पूर्वसम्बन्धिसंयोगान्नैतद्दान्तो निषेवते 021a सर्वा ग्राम्यास्तथारण्या याश्च लोके प्रवृत्तयः 021c निन्दां चैव प्रशंसां च यो नाश्रयति मुच्यते 022a मैत्रोऽथ शीलसम्पन्नः सुसहायपरश्च यः 022c मुक्तश्च विविधैः सङ्गैस्तस्य प्रेत्य महत्फलम् 023a सुवृत्तः शीलसम्पन्नः प्रसन्नात्मात्मविद्बुधः 023c प्राप्येह लोके सत्कारं सुगतिं प्रतिपद्यते 024a कर्म यच्छुभमेवेह सद्भिराचरितं च यत् 024c तदेव ज्ञानयुक्तस्य मुनेर्धर्मो न हीयते 025a निष्क्रम्य वनमास्थाय ज्ञानयुक्तो जितेन्द्रियः 025c कालाकाङ्क्षी चरन्नेवं ब्रह्मभूयाय कल्पते 026a अभयं यस्य भूतेभ्यो भूतानामभयं यतः 026c तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन 027a अवाचिनोति कर्माणि न च सम्प्रचिनोति ह 027c समः सर्वेषु भूतेषु मैत्रायणगतिश्चरेत् 028a शकुनीनामिवाकाशे जले वारिचरस्य वा 028c यथा गतिर्न दृश्येत तथा तस्य न संशयः 029a गृहानुत्सृज्य यो राजन्मोक्षमेवाभिपद्यते 029c लोकास्तेजोमयास्तस्य कल्पन्ते शाश्वतीः समाः 030a सन्न्यस्य सर्वकर्माणि सन्न्यस्य विधिवत्तपः 030c सन्न्यस्य विविधा विद्याः सर्वं सन्न्यस्य चैव ह 031a कामेषु चाप्यनावृत्तः प्रसन्नात्मात्मविच्छुचिः 031c प्राप्येह लोके सत्कारं स्वर्गं समभिपद्यते 032a यच्च पैतामहं स्थानं ब्रह्मराशिसमुद्भवम् 032c गुहायां पिहितं नित्यं तद्दमेनाभिपद्यते 033a ज्ञानारामस्य बुद्धस्य सर्वभूताविरोधिनः 033c नावृत्तिभयमस्तीह परलोके भयं कुतः 034a एक एव दमे दोषो द्वितीयो नोपपद्यते 034c यदेनं क्षमया युक्तमशक्तं मन्यते जनः 035a एतस्य तु महाप्राज्ञ दोषस्य सुमहान्गुणः 035c क्षमायां विपुला लोकाः सुलभा हि सहिष्णुना 036a दान्तस्य किमरण्येन तथादान्तस्य भारत 036c यत्रैव हि वसेद्दान्तस्तदरण्यं स आश्रमः 037 वैशम्पायन उवाच 037a एतद्भीष्मस्य वचनं श्रुत्वा राजा युधिष्ठिरः 037c अमृतेनेव सन्तृप्तः प्रहृष्टः समपद्यत 038a पुनश्च परिपप्रच्छ भीष्मं धर्मभृतां वरम् 038c तपः प्रति स चोवाच तस्मै सर्वं कुरूद्वह