001 युधिष्ठिर उवाच 001a अनर्थानामधिष्ठानमुक्तो लोभः पितामह 001c अज्ञानमपि वै तात श्रोतुमिच्छामि तत्त्वतः 002 भीष्म उवाच 002a करोति पापं योऽज्ञानान्नात्मनो वेत्ति च क्षमम् 002c प्रद्वेष्टि साधुवृत्तांश्च स लोकस्यैति वाच्यताम् 003a अज्ञानान्निरयं याति तथाज्ञानेन दुर्गतिम् 003c अज्ञानात्क्लेशमाप्नोति तथापत्सु निमज्जति 004 युधिष्ठिर उवाच 004a अज्ञानस्य प्रवृत्तिं च स्थानं वृद्धिं क्षयोदयौ 004c मूलं योगं गतिं कालं कारणं हेतुमेव च 005a श्रोतुमिच्छामि तत्त्वेन यथावदिह पार्थिव 005c अज्ञानप्रभवं हीदं यद्दुःखमुपलभ्यते 006 भीष्म उवाच 006a रागो द्वेषस्तथा मोहो हर्षः शोकोऽभिमानिता 006c कामः क्रोधश्च दर्पश्च तन्द्रीरालस्यमेव च 007a इच्छा द्वेषस्तथा तापः परवृद्ध्युपतापिता 007c अज्ञानमेतन्निर्दिष्टं पापानां चैव याः क्रियाः 008a एतया या प्रवृत्तिश्च वृद्ध्यादीन्यांश्च पृच्छसि 008c विस्तरेण महाबाहो शृणु तच्च विशां पते 009a उभावेतौ समफलौ समदोषौ च भारत 009c अज्ञानं चातिलोभश्चाप्येकं जानीहि पार्थिव 010a लोभप्रभवमज्ञानं वृद्धं भूयः प्रवर्धते 010c स्थाने स्थानं क्षये क्षैण्यमुपैति विविधां गतिम् 011a मूलं लोभस्य महतः कालात्मगतिरेव च 011c छिन्नेऽच्छिन्ने तथा लोभे कारणं काल एव हि 012a तस्याज्ञानात्तु लोभो हि लोभादज्ञानमेव च 012c सर्वे दोषास्तथा लोभात्तस्माल्लोभं विवर्जयेत् 013a जनको युवनाश्वश्च वृषादर्भिः प्रसेनजित् 013c लोभक्षयाद्दिवं प्राप्तास्तथैवान्ये जनाधिपाः 014a प्रत्यक्षं तु कुरुश्रेष्ठ त्यज लोभमिहात्मना 014c त्यक्त्वा लोभं सुखं लोके प्रेत्य चानुचरिष्यसि