001 युधिष्ठिर उवाच 001a पापस्य यदधिष्ठानं यतः पापं प्रवर्तते 001c एतदिच्छाम्यहं ज्ञातुं तत्त्वेन भरतर्षभ 002 भीष्म उवाच 002a पापस्य यदधिष्ठानं तच्छृणुष्व नराधिप 002c एको लोभो महाग्राहो लोभात्पापं प्रवर्तते 003a अतः पापमधर्मश्च तथा दुःखमनुत्तमम् 003c निकृत्या मूलमेतद्धि येन पापकृतो जनाः 004a लोभात्क्रोधः प्रभवति लोभात्कामः प्रवर्तते 004c लोभान्मोहश्च माया च मानस्तम्भः परासुता 005a अक्षमा ह्रीपरित्यागः श्रीनाशो धर्मसङ्क्षयः 005c अभिध्याप्रज्ञता चैव सर्वं लोभात्प्रवर्तते 006a अन्यायश्चावितर्कश्च विकर्मसु च याः क्रियाः 006c कूटविद्यादयश्चैव रूपैश्वर्यमदस्तथा 007a सर्वभूतेष्वविश्वासः सर्वभूतेष्वनार्जवम् 007c सर्वभूतेष्वभिद्रोहः सर्वभूतेष्वयुक्तता 007e हरणं परवित्तानां परदाराभिमर्शनम् 008a वाग्वेगो मानसो वेगो निन्दावेगस्तथैव च 008c उपस्थोदरयोर्वेगो मृत्युवेगश्च दारुणः 009a ईर्ष्यावेगश्च बलवान्मिथ्यावेगश्च दुस्त्यजः 009c रसवेगश्च दुर्वारः श्रोत्रवेगश्च दुःसहः 010a कुत्सा विकत्था मात्सर्यं पापं दुष्करकारिता 010c साहसानां च सर्वेषामकार्याणां क्रियास्तथा 011a जातौ बाल्येऽथ कौमारे यौवने चापि मानवः 011c न सन्त्यजत्यात्मकर्म यन्न जीर्यति जीर्यतः 012a यो न पूरयितुं शक्यो लोभः प्राप्त्या कुरूद्वह 012c नित्यं गम्भीरतोयाभिरापगाभिरिवोदधिः 012e न प्रहृष्यति लाभैर्यो यश्च कामैर्न तृप्यति 013a यो न देवैर्न गन्धर्वैर्नासुरैर्न महोरगैः 013c ज्ञायते नृप तत्त्वेन सर्वैर्भूतगणैस्तथा 013e स लोभः सह मोहेन विजेतव्यो जितात्मना 014a दम्भो द्रोहश्च निन्दा च पैशुन्यं मत्सरस्तथा 014c भवन्त्येतानि कौरव्य लुब्धानामकृतात्मनाम् 015a सुमहान्त्यपि शास्त्राणि धारयन्ति बहुश्रुताः 015c छेत्तारः संशयानां च क्लिश्यन्तीहाल्पबुद्धयः 016a द्वेषक्रोधप्रसक्ताश्च शिष्टाचारबहिष्कृताः 016c अन्तःक्षुरा वाङ्मधुराः कूपाश्छन्नास्तृणैरिव 016e धर्मवैतंसिकाः क्षुद्रा मुष्णन्ति ध्वजिनो जगत् 017a कुर्वते च बहून्मार्गांस्तांस्तान्हेतुबलाश्रिताः 017c सर्वं मार्गं विलुम्पन्ति लोभाज्ञानेषु निष्ठिताः 018a धर्मस्याह्रियमाणस्य लोभग्रस्तैर्दुरात्मभिः 018c या या विक्रियते संस्था ततः साभिप्रपद्यते 019a दर्पः क्रोधो मदः स्वप्नो हर्षः शोकोऽतिमानिता 019c तत एव हि कौरव्य दृश्यन्ते लुब्धबुद्धिषु 019e एतानशिष्टान्बुध्यस्व नित्यं लोभसमन्वितान् 020a शिष्टांस्तु परिपृच्छेथा यान्वक्ष्यामि शुचिव्रतान् 020c येषु वृत्तिभयं नास्ति परलोकभयं न च 021a नामिषेषु प्रसङ्गोऽस्ति न प्रियेष्वप्रियेषु च 021c शिष्टाचारः प्रियो येषु दमो येषु प्रतिष्ठितः 022a सुखं दुःखं परं येषां सत्यं येषां परायणम् 022c दातारो न गृहीतारो दयावन्तस्तथैव च 023a पितृदेवातिथेयाश्च नित्योद्युक्तास्तथैव च 023c सर्वोपकारिणो धीराः सर्वधर्मानुपालकाः 024a सर्वभूतहिताश्चैव सर्वदेयाश्च भारत 024c न ते चालयितुं शक्या धर्मव्यापारपारगाः 025a न तेषां भिद्यते वृत्तं यत्पुरा साधुभिः कृतम् 025c न त्रासिनो न चपला न रौद्राः सत्पथे स्थिताः 026a ते सेव्याः साधुभिर्नित्यं येष्वहिंसा प्रतिष्ठिता 026c कामक्रोधव्यपेता ये निर्ममा निरहङ्कृताः 026e सुव्रताः स्थिरमर्यादास्तानुपास्स्व च पृच्छ च 027a न गवार्थं यशोर्थं वा धर्मस्तेषां युधिष्ठिर 027c अवश्यकार्य इत्येव शरीरस्य क्रियास्तथा 028a न भयं क्रोधचापल्यं न शोकस्तेषु विद्यते 028c न धर्मध्वजिनश्चैव न गुह्यं किञ्चिदास्थिताः 029a येष्वलोभस्तथामोहो ये च सत्यार्जवे रताः 029c तेषु कौन्तेय रज्येथा येष्वतन्द्रीकृतं मनः 030a ये न हृष्यन्ति लाभेषु नालाभेषु व्यथन्ति च 030c निर्ममा निरहङ्काराः सत्त्वस्थाः समदर्शिनः 031a लाभालाभौ सुखदुःखे च तात प्रियाप्रिये मरणं जीवितं च 031c समानि येषां स्थिरविक्रमाणां बुद्धात्मनां सत्त्वमवस्थितानाम् 032a सुखप्रियैस्तान्सुमहाप्रतापान्यत्तोऽप्रमत्तश्च समर्थयेथाः 032c दैवात्सर्वे गुणवन्तो भवन्ति शुभाशुभा वाक्प्रलापा यथैव