001 भीष्म उवाच 001a एवमुक्त्वा तु राजेन्द्र शल्मलिं ब्रह्मवित्तमः 001c नारदः पवने सर्वं शल्मलेर्वाक्यमब्रवीत् 002a हिमवत्पृष्ठजः कश्चिच्छल्मलिः परिवारवान् 002c बृहन्मूलो बृहच्छाखः स त्वां वायोऽवमन्यते 003a बहून्याक्षेपयुक्तानि त्वामाह वचनानि सः 003c न युक्तानि मया वायो तानि वक्तुं त्वयि प्रभो 004a जानामि त्वामहं वायो सर्वप्राणभृतां वरम् 004c वरिष्ठं च गरिष्ठं च क्रोधे वैवस्वतं यथा 005a एवं तु वचनं श्रुत्वा नारदस्य समीरणः 005c शल्मलिं तमुपागम्य क्रुद्धो वचनमब्रवीत् 006a शल्मले नारदे यत्तत्त्वयोक्तं मद्विगर्हणम् 006c अहं वायुः प्रभावं ते दर्शयाम्यात्मनो बलम् 007a नाहं त्वा नाभिजानामि विदितश्चासि मे द्रुम 007c पितामहः प्रजासर्गे त्वयि विश्रान्तवान्प्रभुः 008a तस्य विश्रमणादेव प्रसादो यः कृतस्तव 008c रक्ष्यसे तेन दुर्बुद्धे नात्मवीर्याद्द्रुमाधम 009a यन्मा त्वमवजानीषे यथान्यं प्राकृतं तथा 009c दर्शयाम्येष आत्मानं यथा मामवभोत्स्यसे 010a एवमुक्तस्ततः प्राह शल्मलिः प्रहसन्निव 010c पवन त्वं वने क्रुद्धो दर्शयात्मानमात्मना 011a मयि वै त्यज्यतां क्रोधः किं मे क्रुद्धः करिष्यसि 011c न ते बिभेमि पवन यद्यपि त्वं स्वयम्प्रभुः 012a इत्येवमुक्तः पवनः श्व इत्येवाब्रवीद्वचः 012c दर्शयिष्यामि ते तेजस्ततो रात्रिरुपागमत् 013a अथ निश्चित्य मनसा शल्मलिर्वातकारितम् 013c पश्यमानस्तदात्मानमसमं मातरिश्वनः 014a नारदे यन्मया प्रोक्तं पवनं प्रति तन्मृषा 014c असमर्थो ह्यहं वायोर्बलेन बलवान्हि सः 015a मारुतो बलवान्नित्यं यथैनं नारदोऽब्रवीत् 015c अहं हि दुर्बलोऽन्येभ्यो वृक्षेभ्यो नात्र संशयः 016a किं तु बुद्ध्या समो नास्ति मम कश्चिद्वनस्पतिः 016c तदहं बुद्धिमास्थाय भयं मोक्ष्ये समीरणात् 017a यदि तां बुद्धिमास्थाय चरेयुः पर्णिनो वने 017c अरिष्टाः स्युः सदा क्रुद्धात्पवनान्नात्र संशयः 018a तेऽत्र बाला न जानन्ति यथा नैनान्समीरणः 018c समीरयेत सङ्क्रुद्धो यथा जानाम्यहं तथा 019a ततो निश्चित्य मनसा शल्मलिः क्षुभितस्तदा 019c शाखाः स्कन्धान्प्रशाखाश्च स्वयमेव व्यशातयत् 020a स परित्यज्य शाखाश्च पत्राणि कुसुमानि च 020c प्रभाते वायुमायान्तं प्रत्यैक्षत वनस्पतिः 021a ततः क्रुद्धः श्वसन्वायुः पातयन्वै महाद्रुमान् 021c आजगामाथ तं देशं स्थितो यत्र स शल्मलिः 022a तं हीनपर्णं पतिताग्रशाखं विशीर्णपुष्पं प्रसमीक्ष्य वायुः 022c उवाच वाक्यं स्मयमान एनं मुदा युतं शल्मलिं रुग्णशाखम् 023a अहमप्येवमेव त्वां कुर्वाणः शल्मले रुषा 023c आत्मना यत्कृतं कृत्स्नं शाखानामपकर्षणम् 024a हीनपुष्पाग्रशाखस्त्वं शीर्णाङ्कुरपलाशवान् 024c आत्मदुर्मन्त्रितेनेह मद्वीर्यवशगोऽभवः 025a एतच्छ्रुत्वा वचो वायोः शल्मलिर्व्रीडितस्तदा 025c अतप्यत वचः स्मृत्वा नारदो यत्तदाब्रवीत् 026a एवं यो राजशार्दूल दुर्बलः सन्बलीयसा 026c वैरमासज्जते बालस्तप्यते शल्मलिर्यथा 027a तस्माद्वैरं न कुर्वीत दुर्बलो बलवत्तरैः 027c शोचेद्धि वैरं कुर्वाणो यथा वै शल्मलिस्तथा 028a न हि वैरं महात्मानो विवृण्वन्त्यपकारिषु 028c शनैः शनैर्महाराज दर्शयन्ति स्म ते बलम् 029a वैरं न कुर्वीत नरो दुर्बुद्धिर्बुद्धिजीविना 029c बुद्धिर्बुद्धिमतो याति तूलेष्विव हुताशनः 030a न हि बुद्ध्या समं किञ्चिद्विद्यते पुरुषे नृप 030c तथा बलेन राजेन्द्र न समोऽस्तीति चिन्तयेत् 031a तस्मात्क्षमेत बालाय जडाय बधिराय च 031c बलाधिकाय राजेन्द्र तद्दृष्टं त्वयि शत्रुहन् 032a अक्षौहिण्यो दशैका च सप्त चैव महाद्युते 032c बलेन न समा राजन्नर्जुनस्य महात्मनः 033a हतास्ताश्चैव भग्नाश्च पाण्डवेन यशस्विना 033c चरता बलमास्थाय पाकशासनिना मृधे 034a उक्तास्ते राजधर्माश्च आपद्धर्माश्च भारत 034c विस्तरेण महाराज किं भूयः प्रब्रवीमि ते