001 भीष्म उवाच 001a शृणु पार्थ यथावृत्तमितिहासं पुरातनम् 001c गृध्रजम्बुकसंवादं यो वृत्तो वैदिशे पुरा 002a दुःखिताः केचिदादाय बालमप्राप्तयौवनम् 002c कुलसर्वस्वभूतं वै रुदन्तः शोकविह्वलाः 003a बालं मृतं गृहीत्वाथ श्मशानाभिमुखाः स्थिताः 003c अङ्केनाङ्कं च सङ्क्रम्य रुरुदुर्भूतले तदा 004a तेषां रुदितशब्देन गृध्रोऽभ्येत्य वचोऽब्रवीत् 004c एकात्मकमिमं लोके त्यक्त्वा गच्छत माचिरम् 005a इह पुंसां सहस्राणि स्त्रीसहस्राणि चैव हि 005c समानीतानि कालेन किं ते वै जात्वबान्धवाः 006a सम्पश्यत जगत्सर्वं सुखदुःखैरधिष्ठितम् 006c संयोगो विप्रयोगश्च पर्यायेणोपलभ्यते 007a गृहीत्वा ये च गच्छन्ति येऽनुयान्ति च तान्मृतान् 007c तेऽप्यायुषः प्रमाणेन स्वेन गच्छन्ति जन्तवः 008a अलं स्थित्वा श्मशानेऽस्मिन्गृध्रगोमायुसङ्कुले 008c कङ्कालबहुले घोरे सर्वप्राणिभयङ्करे 009a न पुनर्जीवितः कश्चित्कालधर्ममुपागतः 009c प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी 010a सर्वेण खलु मर्तव्यं मर्त्यलोके प्रसूयता 010c कृतान्तविहिते मार्गे को मृतं जीवयिष्यति 011a कर्मान्तविहिते लोके चास्तं गच्छति भास्करे 011c गम्यतां स्वमधिष्ठानं सुतस्नेहं विसृज्य वै 012a ततो गृध्रवचः श्रुत्वा विक्रोशन्तस्तदा नृप 012c बान्धवास्तेऽभ्यगच्छन्त पुत्रमुत्सृज्य भूतले 013a विनिश्चित्याथ च ततः सन्त्यजन्तः स्वमात्मजम् 013c निराशा जीविते तस्य मार्गमारुह्य धिष्ठिताः 014a ध्वाङ्क्षाभ्रसमवर्णस्तु बिलान्निःसृत्य जम्बुकः 014c गच्छमानान्स्म तानाह निर्घृणाः खलु मानवाः 015a आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत मा भयम् 015c बहुरूपो मुहूर्तश्च जीवेतापि कदाचन 016a यूयं भूमौ विनिक्षिप्य पुत्रस्नेहविनाकृताः 016c श्मशाने पुत्रमुत्सृज्य कस्माद्गच्छथ निर्घृणाः 017a न वोऽस्त्यस्मिन्सुते स्नेहो बाले मधुरभाषिणि 017c यस्य भाषितमात्रेण प्रसादमुपगच्छथ 018a न पश्यथ सुतस्नेहं यादृशः पशुपक्षिणाम् 018c न येषां धारयित्वा तान्कश्चिदस्ति फलागमः 019a चतुष्पात्पक्षिकीटानां प्राणिनां स्नेहसङ्गिनाम् 019c परलोकगतिस्थानां मुनियज्ञक्रिया इव 020a तेषां पुत्राभिरामाणामिह लोके परत्र च 020c न गुणो दृश्यते कश्चित्प्रजाः सन्धारयन्ति च 021a अपश्यतां प्रियान्पुत्रान्नैषां शोकोऽनुतिष्ठति 021c न च पुष्णन्ति संवृद्धास्ते मातापितरौ क्वचित् 022a मानुषाणां कुतः स्नेहो येषां शोको भविष्यति 022c इमं कुलकरं पुत्रं कथं त्यक्त्वा गमिष्यथ 023a चिरं मुञ्चत बाष्पं च चिरं स्नेहेन पश्यत 023c एवंविधानि हीष्टानि दुस्त्यजानि विशेषतः 024a क्षीणस्याथाभियुक्तस्य श्मशानाभिमुखस्य च 024c बान्धवा यत्र तिष्ठन्ति तत्रान्यो नावतिष्ठते 025a सर्वस्य दयिताः प्राणाः सर्वः स्नेहं च विन्दति 025c तिर्यग्योनिष्वपि सतां स्नेहं पश्यत यादृशम् 026a त्यक्त्वा कथं गच्छेथेमं पद्मलोलायताक्षकम् 026c यथा नवोद्वाहकृतं स्नानमाल्यविभूषितम् 027 भीष्म उवाच 027a जम्बुकस्य वचः श्रुत्वा कृपणं परिदेवतः 027c न्यवर्तन्त तदा सर्वे शवार्थं ते स्म मानुषाः 028 गृध्र उवाच 028a अहो धिक्सुनृशंसेन जम्बुकेनाल्पमेधसा 028c क्षुद्रेणोक्ता हीनसत्त्वा मानुषाः किं निवर्तथ 029a पञ्चभूतपरित्यक्तं शून्यं काष्ठत्वमागतम् 029c कस्माच्छोचथ निश्चेष्टमात्मानं किं न शोचथ 030a तपः कुरुत वै तीव्रं मुच्यध्वं येन किल्बिषात् 030c तपसा लभ्यते सर्वं विलापः किं करिष्यति 031a अनिष्टानि च भाग्यानि जानीत सह मूर्तिभिः 031c येन गच्छति लोकोऽयं दत्त्वा शोकमनन्तकम् 032a धनं गाश्च सुवर्णं च मणिरत्नमथापि च 032c अपत्यं च तपोमूलं तपोयोगाच्च लभ्यते 033a यथाकृता च भूतेषु प्राप्यते सुखदुःखता 033c गृहीत्वा जायते जन्तुर्दुःखानि च सुखानि च 034a न कर्मणा पितुः पुत्रः पिता वा पुत्रकर्मणा 034c मार्गेणान्येन गच्छन्ति त्यक्त्वा सुकृतदुष्कृते 035a धर्मं चरत यत्नेन तथाधर्मान्निवर्तत 035c वर्तध्वं च यथाकालं दैवतेषु द्विजेषु च 036a शोकं त्यजत दैन्यं च सुतस्नेहान्निवर्तत 036c त्यज्यतामयमाकाशे ततः शीघ्रं निवर्तत 037a यत्करोति शुभं कर्म तथाधर्मं सुदारुणम् 037c तत्कर्तैव समश्नाति बान्धवानां किमत्र हि 038a इह त्यक्त्वा न तिष्ठन्ति बान्धवा बान्धवं प्रियम् 038c स्नेहमुत्सृज्य गच्छन्ति बाष्पपूर्णाविलेक्षणाः 039a प्राज्ञो वा यदि वा मूर्खः सधनो निर्धनोऽपि वा 039c सर्वः कालवशं याति शुभाशुभसमन्वितः 040a किं करिष्यथ शोचित्वा मृतं किमनुशोचथ 040c सर्वस्य हि प्रभुः कालो धर्मतः समदर्शनः 041a यौवनस्थांश्च बालांश्च वृद्धान्गर्भगतानपि 041c सर्वानाविशते मृत्युरेवम्भूतमिदं जगत् 042 जम्बुक उवाच 042a अहो मन्दीकृतः स्नेहो गृध्रेणेहाल्पमेधसा 042c पुत्रस्नेहाभिभूतानां युष्माकं शोचतां भृशम् 043a समैः सम्यक्प्रयुक्तैश्च वचनैः प्रश्रयोत्तरैः 043c यद्गच्छथ जलस्थायं स्नेहमुत्सृज्य दुस्त्यजम् 044a अहो पुत्रवियोगेन मृतशून्योपसेवनात् 044c क्रोशतां वै भृशं दुःखं विवत्सानां गवामिव 045a अद्य शोकं विजानामि मानुषाणां महीतले 045c स्नेहं हि करुणं दृष्ट्वा ममाप्यश्रूण्यथागमन् 046a यत्नो हि सततं कार्यः कृतो दैवेन सिध्यति 046c दैवं पुरुषकारश्च कृतान्तेनोपपद्यते 047a अनिर्वेदः सदा कार्यो निर्वेदाद्धि कुतः सुखम् 047c प्रयत्नात्प्राप्यते ह्यर्थः कस्माद्गच्छथ निर्दयाः 048a आत्ममांसोपवृत्तं च शरीरार्धमयीं तनुम् 048c पितॄणां वंशकर्तारं वने त्यक्त्वा क्व यास्यथ 049a अथ वास्तं गते सूर्ये सन्ध्याकाल उपस्थिते 049c ततो नेष्यथ वा पुत्रमिहस्था वा भविष्यथ 050 गृध्र उवाच 050a अद्य वर्षसहस्रं मे साग्रं जातस्य मानुषाः 050c न च पश्यामि जीवन्तं मृतं स्त्रीपुन्नपुंसकम् 051a मृता गर्भेषु जायन्ते म्रियन्ते जातमात्रकाः 051c विक्रमन्तो म्रियन्ते च यौवनस्थास्तथापरे 052a अनित्यानीह भाग्यानि चतुष्पात्पक्षिणामपि 052c जङ्गमाजङ्गमानां चाप्यायुरग्रेऽवतिष्ठते 053a इष्टदारवियुक्ताश्च पुत्रशोकान्वितास्तथा 053c दह्यमानाः स्म शोकेन गृहं गच्छन्ति नित्यदा 054a अनिष्टानां सहस्राणि तथेष्टानां शतानि च 054c उत्सृज्येह प्रयाता वै बान्धवा भृशदुःखिताः 055a त्यज्यतामेष निस्तेजाः शून्यः काष्ठत्वमागतः 055c अन्यदेहविषक्तो हि शावं काष्ठमुपासते 056a भ्रान्तजीवस्य वै बाष्पं कस्माद्धित्वा न गच्छथ 056c निरर्थको ह्ययं स्नेहो निरर्थश्च परिग्रहः 057a न चक्षुर्भ्यां न कर्णाभ्यां संशृणोति समीक्षते 057c तस्मादेनं समुत्सृज्य स्वगृहान्गच्छताशु वै 058a मोक्षधर्माश्रितैर्वाक्यैर्हेतुमद्भिरनिष्ठुरैः 058c मयोक्ता गच्छत क्षिप्रं स्वं स्वमेव निवेशनम् 059a प्रज्ञाविज्ञानयुक्तेन बुद्धिसञ्ज्ञाप्रदायिना 059c वचनं श्राविता रूक्षं मानुषाः सन्निवर्तत 060 जम्बुक उवाच 060a इमं कनकवर्णाभं भूषणैः समलङ्कृतम् 060c गृध्रवाक्यात्कथं पुत्रं त्यजध्वं पितृपिण्डदम् 061a न स्नेहस्य विरोधोऽस्ति विलापरुदितस्य वै 061c मृतस्यास्य परित्यागात्तापो वै भविता ध्रुवम् 062a श्रूयते शम्बुके शूद्रे हते ब्राह्मणदारकः 062c जीवितो धर्ममासाद्य रामात्सत्यपराक्रमात् 063a तथा श्वेतस्य राजर्षेर्बालो दिष्टान्तमागतः 063c श्वोऽभूते धर्मनित्येन मृतः सञ्जीवितः पुनः 064a तथा कश्चिद्भवेत्सिद्धो मुनिर्वा देवतापि वा 064c कृपणानामनुक्रोशं कुर्याद्वो रुदतामिह 065 भीष्म उवाच 065a इत्युक्ताः सन्न्यवर्तन्त शोकार्ताः पुत्रवत्सलाः 065c अङ्के शिरः समाधाय रुरुदुर्बहुविस्तरम् 066 गृध्र उवाच 066a अश्रुपातपरिक्लिन्नः पाणिस्पर्शनपीडितः 066c धर्मराजप्रयोगाच्च दीर्घां निद्रां प्रवेशितः 067a तपसापि हि संयुक्तो न काले नोपहन्यते 067c सर्वस्नेहावसानं तदिदं तत्प्रेतपत्तनम् 068a बालवृद्धसहस्राणि सदा सन्त्यज्य बान्धवाः 068c दिनानि चैव रात्रीश्च दुःखं तिष्ठन्ति भूतले 069a अलं निर्बन्धमागम्य शोकस्य परिवारणम् 069c अप्रत्ययं कुतो ह्यस्य पुनरद्येह जीवितम् 070a नैष जम्बुकवाक्येन पुनः प्राप्स्यति जीवितम् 070c मृतस्योत्सृष्टदेहस्य पुनर्देहो न विद्यते 071a न वै मूर्तिप्रदानेन न जम्बुकशतैरपि 071c शक्यो जीवयितुं ह्येष बालो वर्षशतैरपि 072a अपि रुद्रः कुमारो वा ब्रह्मा वा विष्णुरेव वा 072c वरमस्मै प्रयच्छेयुस्ततो जीवेदयं शिशुः 073a न च बाष्पविमोक्षेण न चाश्वासकृतेन वै 073c न दीर्घरुदितेनेह पुनर्जीवो भविष्यति 074a अहं च क्रोष्टुकश्चैव यूयं चैवास्य बान्धवाः 074c धर्माधर्मौ गृहीत्वेह सर्वे वर्तामहेऽध्वनि 075a अप्रियं परुषं चापि परद्रोहं परस्त्रियम् 075c अधर्ममनृतं चैव दूरात्प्राज्ञो निवर्तयेत् 076a सत्यं धर्मं शुभं न्याय्यं प्राणिनां महतीं दयाम् 076c अजिह्मत्वमशाठ्यं च यत्नतः परिमार्गत 077a मातरं पितरं चैव बान्धवान्सुहृदस्तथा 077c जीवतो ये न पश्यन्ति तेषां धर्मविपर्ययः 078a यो न पश्यति चक्षुर्भ्यां नेङ्गते च कथञ्चन 078c तस्य निष्ठावसानान्ते रुदन्तः किं करिष्यथ 079 भीष्म उवाच 079a इत्युक्तास्तं सुतं त्यक्त्वा भूमौ शोकपरिप्लुताः 079c दह्यमानाः सुतस्नेहात्प्रययुर्बान्धवा गृहान् 080 जम्बुक उवाच 080a दारुणो मर्त्यलोकोऽयं सर्वप्राणिविनाशनः 080c इष्टबन्धुवियोगश्च तथैवाल्पं च जीवितम् 081a बह्वलीकमसत्यं च प्रतिवादाप्रियंवदम् 081c इमं प्रेक्ष्य पुनर्भावं दुःखशोकाभिवर्धनम् 082a न मे मानुषलोकोऽयं मुहूर्तमपि रोचते 082c अहो धिग्गृध्रवाक्येन सन्निवर्तथ मानुषाः 083a प्रदीप्ताः पुत्रशोकेन यथैवाबुद्धयस्तथा 083c कथं गच्छथ सस्नेहाः सुतस्नेहं विसृज्य च 083e श्रुत्वा गृध्रस्य वचनं पापस्येहाकृतात्मनः 084a सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् 084c सुखदुःखान्विते लोके नेहास्त्येकमनन्तकम् 085a इमं क्षितितले न्यस्य बालं रूपसमन्वितम् 085c कुलशोकाकरं मूढाः पुत्रं त्यक्त्वा क्व यास्यथ 086a रूपयौवनसम्पन्नं द्योतमानमिव श्रिया 086c जीवन्तमेनं पश्यामि मनसा नात्र संशयः 087a विनाशश्चाप्यनर्होऽस्य सुखं प्राप्स्यथ मानुषाः 087c पुत्रशोकाग्निदग्धानां मृतमप्यद्य वः क्षमम् 088a दुःखसम्भावनां कृत्वा धारयित्वा स्वयं सुखम् 088c त्यक्त्वा गमिष्यथ क्वाद्य समुत्सृज्याल्पबुद्धिवत् 089 भीष्म उवाच 089a तथा धर्मविरोधेन प्रियमिथ्याभिध्यायिना 089c श्मशानवासिना नित्यं रात्रिं मृगयता तदा 090a ततो मध्यस्थतां नीता वचनैरमृतोपमैः 090c जम्बुकेन स्वकार्यार्थं बान्धवास्तस्य धिष्ठिताः 091 गृध्र उवाच 091a अयं प्रेतसमाकीर्णो यक्षराक्षससेवितः 091c दारुणः काननोद्देशः कौशिकैरभिनादितः 092a भीमः सुघोरश्च तथा नीलमेघसमप्रभः 092c अस्मिञ्शवं परित्यज्य प्रेतकार्याण्युपासत 093a भानुर्यावन्न यात्यस्तं यावच्च विमला दिशः 093c तावदेनं परित्यज्य प्रेतकार्याण्युपासत 094a नदन्ति परुषं श्येनाः शिवाः क्रोशन्ति दारुणाः 094c मृगेन्द्राः प्रतिनन्दन्ति रविरस्तं च गच्छति 095a चिताधूमेन नीलेन संरज्यन्ते च पादपाः 095c श्मशाने च निराहाराः प्रतिनन्दन्ति देहिनः 096a सर्वे विक्रान्तवीर्याश्च अस्मिन्देशे सुदारुणाः 096c युष्मान्प्रधर्षयिष्यन्ति विकृता मांसभोजनाः 097a दूराच्चायं वनोद्देशो भयमत्र भविष्यति 097c त्यज्यतां काष्ठभूतोऽयं मृष्यतां जाम्बुकं वचः 098a यदि जम्बुकवाक्यानि निष्फलान्यनृतानि च 098c श्रोष्यथ भ्रष्टविज्ञानास्ततः सर्वे विनङ्क्ष्यथ 099 जम्बुक उवाच 099a स्थीयतां नेह भेतव्यं यावत्तपति भास्करः 099c तावदस्मिन्सुतस्नेहादनिर्वेदेन वर्तत 100a स्वैरं रुदत विस्रब्धाः स्वैरं स्नेहेन पश्यत 100c स्थीयतां यावदादित्यः किं वः क्रव्यादभाषितैः 101a यदि गृध्रस्य वाक्यानि तीव्राणि रभसानि च 101c गृह्णीत मोहितात्मानः सुतो वो न भविष्यति 102 भीष्म उवाच 102a गृध्रोऽनस्तमिते त्वाह गतेऽस्तमिति जम्बुकः 102c मृतस्य तं परिजनमूचतुस्तौ क्षुधान्वितौ 103a स्वकार्यदक्षिणौ राजन्गृध्रो जम्बुक एव च 103c क्षुत्पिपासापरिश्रान्तौ शास्त्रमालम्ब्य जल्पतः 104a तयोर्विज्ञानविदुषोर्द्वयोर्जम्बुकपत्रिणोः 104c वाक्यैरमृतकल्पैर्हि प्रातिष्ठन्त व्रजन्ति च 105a शोकदैन्यसमाविष्टा रुदन्तस्तस्थिरे तदा 105c स्वकार्यकुशलाभ्यां ते सम्भ्राम्यन्ते ह नैपुणात् 106a तथा तयोर्विवदतोर्विज्ञानविदुषोर्द्वयोः 106c बान्धवानां स्थितानां च उपातिष्ठत शङ्करः 107a ततस्तानाह मनुजान्वरदोऽस्मीति शूलभृत् 107c ते प्रत्यूचुरिदं वाक्यं दुःखिताः प्रणताः स्थिताः 108a एकपुत्रविहीनानां सर्वेषां जीवितार्थिनाम् 108c पुत्रस्य नो जीवदानाज्जीवितं दातुमर्हसि 109a एवमुक्तः स भगवान्वारिपूर्णेन पाणिना 109c जीवं तस्मै कुमाराय प्रादाद्वर्षशताय वै 110a तथा गोमायुगृध्राभ्यामददत्क्षुद्विनाशनम् 110c वरं पिनाकी भगवान्सर्वभूतहिते रतः 111a ततः प्रणम्य तं देवं श्रेयोहर्षसमन्विताः 111c कृतकृत्याः सुखं हृष्टाः प्रातिष्ठन्त तदा विभो 112a अनिर्वेदेन दीर्घेण निश्चयेन ध्रुवेण च 112c देवदेवप्रसादाच्च क्षिप्रं फलमवाप्यते 113a पश्य देवस्य संयोगं बान्धवानां च निश्चयम् 113c कृपणानां हि रुदतां कृतमश्रुप्रमार्जनम् 114a पश्य चाल्पेन कालेन निश्चयान्वेषणेन च 114c प्रसादं शङ्करात्प्राप्य दुःखिताः सुखमाप्नुवन् 115a ते विस्मिताः प्रहृष्टाश्च पुत्रसञ्जीवनात्पुनः 115c बभूवुर्भरतश्रेष्ठ प्रसादाच्छङ्करस्य वै 116a ततस्ते त्वरिता राजञ्श्रुत्वा शोकमघोद्भवम् 116c विविशुः पुत्रमादाय नगरं हृष्टमानसाः 116e एषा बुद्धिः समस्तानां चातुर्वर्ण्ये निदर्शिता 117a धर्मार्थमोक्षसंयुक्तमितिहासमिमं शुभम् 117c श्रुत्वा मनुष्यः सततमिह प्रेत्य च मोदते