001 शौनक उवाच 001a तस्मात्तेऽहं प्रवक्ष्यामि धर्ममावृत्तचेतसे 001c श्रीमान्महाबलस्तुष्टो यस्त्वं धर्ममवेक्षसे 001e पुरस्ताद्दारुणो भूत्वा सुचित्रतरमेव तत् 002a अनुगृह्णन्ति भूतानि स्वेन वृत्तेन पार्थिव 002c कृत्स्ने नूनं सदसती इति लोको व्यवस्यति 002e यत्र त्वं तादृशो भूत्वा धर्ममद्यानुपश्यसि 003a हित्वा सुरुचिरं भक्ष्यं भोगांश्च तप आस्थितः 003c इत्येतदपि भूतानामद्भुतं जनमेजय 004a यो दुर्बलो भवेद्दाता कृपणो वा तपोधनः 004c अनाश्चर्यं तदित्याहुर्नातिदूरे हि वर्तते 005a एतदेव हि कार्पण्यं समग्रमसमीक्षितम् 005c तस्मात्समीक्षयैव स्याद्भवेत्तस्मिंस्ततो गुणः 006a यज्ञो दानं दया वेदाः सत्यं च पृथिवीपते 006c पञ्चैतानि पवित्राणि षष्ठं सुचरितं तपः 007a तदेव राज्ञां परमं पवित्रं जनमेजय 007c तेन सम्यग्गृहीतेन श्रेयांसं धर्ममाप्स्यसि 008a पुण्यदेशाभिगमनं पवित्रं परमं स्मृतम् 008c अपि ह्युदाहरन्तीमा गाथा गीता ययातिना 009a यो मर्त्यः प्रतिपद्येत आयुर्जीवेत वा पुनः 009c यज्ञमेकान्ततः कृत्वा तत्सन्न्यस्य तपश्चरेत् 010a पुण्यमाहुः कुरुक्षेत्रं सरस्वत्यां पृथूदकम् 010c यत्रावगाह्य पीत्वा वा नैवं श्वोमरणं तपेत् 011a महासरः पुष्कराणि प्रभासोत्तरमानसे 011c कालोदं त्वेव गन्तासि लब्धायुर्जीविते पुनः 012a सरस्वतीदृषद्वत्यौ सेवमानोऽनुसञ्चरेः 012c स्वाध्यायशीलः स्थानेषु सर्वेषु समुपस्पृशेः 013a त्यागधर्मं पवित्राणां सन्न्यासं परमब्रवीत् 013c अत्राप्युदाहरन्तीमा गाथाः सत्यवता कृताः 014a यथा कुमारः सत्यो वै न पुण्यो न च पापकृत् 014c न ह्यस्ति सर्वभूतेषु दुःखमस्मिन्कुतः सुखम् 015a एवं प्रकृतिभूतानां सर्वसंसर्गयायिनाम् 015c त्यजतां जीवितं प्रायो विवृते पुण्यपातके 016a यत्त्वेव राज्ञो ज्यायो वै कार्याणां तद्वदामि ते 016c बलेन संविभागैश्च जय स्वर्गं पुनीष्व च 017a यस्यैवं बलमोजश्च स धर्मस्य प्रभुर्नरः 017c ब्राह्मणानां सुखार्थं त्वं पर्येहि पृथिवीमिमाम् 018a यथैवैनान्पुराक्षैप्सीस्तथैवैनान्प्रसादय 018c अपि धिक्क्रियमाणोऽपि त्यज्यमानोऽप्यनेकधा 019a आत्मनो दर्शनं विद्वन्नाहन्तास्मीति मा क्रुधः 019c घटमानः स्वकार्येषु कुरु नैःश्रेयसं परम् 020a हिमाग्निघोरसदृशो राजा भवति कश्चन 020c लाङ्गलाशनिकल्पो वा भवत्यन्यः परन्तप 021a न निःशेषेण मन्तव्यमचिकित्स्येन वा पुनः 021c न जातु नाहमस्मीति प्रसक्तव्यमसाधुषु 022a विकर्मणा तप्यमानः पादात्पापस्य मुच्यते 022c नैतत्कार्यं पुनरिति द्वितीयात्परिमुच्यते 022e चरिष्ये धर्ममेवेति तृतीयात्परिमुच्यते 023a कल्याणमनुमन्तव्यं पुरुषेण बुभूषता 023c ये सुगन्धीनि सेवन्ते तथागन्धा भवन्ति ते 023e ये दुर्गन्धीनि सेवन्ते तथागन्धा भवन्ति ते 024a तपश्चर्यापरः सद्यः पापाद्धि परिमुच्यते 024c संवत्सरमुपास्याग्निमभिशस्तः प्रमुच्यते 024e त्रीणि वर्षाण्युपास्याग्निं भ्रूणहा विप्रमुच्यते 025a यावतः प्राणिनो हन्यात्तज्जातीयान्स्वभावतः 025c प्रमीयमाणानुन्मोच्य भ्रूणहा विप्रमुच्यते 026a अपि वाप्सु निमज्जेत त्रिर्जपन्नघमर्षणम् 026c यथाश्वमेधावभृथस्तथा तन्मनुरब्रवीत् 027a क्षिप्रं प्रणुदते पापं सत्कारं लभते तथा 027c अपि चैनं प्रसीदन्ति भूतानि जडमूकवत् 028a बृहस्पतिं देवगुरुं सुरासुराः समेत्य सर्वे नृपतेऽन्वयुञ्जन् 028c धर्मे फलं वेत्थ कृते महर्षे तथेतरस्मिन्नरके पापलोके 029a उभे तु यस्य सुकृते भवेतां किं स्वित्तयोस्तत्र जयोत्तरं स्यात् 029c आचक्ष्व नः कर्मफलं महर्षे कथं पापं नुदते पुण्यशीलः 030 बृहस्पतिरुवाच 030a कृत्वा पापं पूर्वमबुद्धिपूर्वं पुण्यानि यः कुरुते बुद्धिपूर्वम् 030c स तत्पापं नुदते पुण्यशीलो वासो यथा मलिनं क्षारयुक्त्या 031a पापं कृत्वा न मन्येत नाहमस्मीति पूरुषः 031c चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः 032a छिद्राणि वसनस्येव साधुना विवृणोति यः 032c यः पापं पुरुषः कृत्वा कल्याणमभिपद्यते 033a यथादित्यः पुनरुद्यंस्तमः सर्वं व्यपोहति 033c कल्याणमाचरन्नेवं सर्वं पापं व्यपोहति 034 भीष्म उवाच 034a एवमुक्त्वा स राजानमिन्द्रोतो जनमेजयम् 034c याजयामास विधिवद्वाजिमेधेन शौनकः 035a ततः स राजा व्यपनीतकल्मषः श्रिया युतः प्रज्वलिताग्निरूपया 035c विवेश राज्यं स्वममित्रकर्शनो दिवं यथा पूर्णवपुर्निशाकरः