001 भीष्म उवाच 001a एवमुक्तः प्रत्युवाच तं मुनिं जनमेजयः 001c गर्ह्यं भवान्गर्हयति निन्द्यं निन्दति मा भवान् 002a धिक्कार्यं मा धिक्कुरुते तस्मात्त्वाहं प्रसादये 002c सर्वं हीदं स्वकृतं मे ज्वलाम्यग्नाविवाहितः 003a स्वकर्माण्यभिसन्धाय नाभिनन्दति मे मनः 003c प्राप्तं नूनं मया घोरं भयं वैवस्वतादपि 004a तत्तु शल्यमनिर्हृत्य कथं शक्ष्यामि जीवितुम् 004c सर्वमन्यून्विनीय त्वमभि मा वद शौनक 005a महानसं ब्राह्मणानां भविष्याम्यर्थवान्पुनः 005c अस्तु शेषं कुलस्यास्य मा पराभूदिदं कुलम् 006a न हि नो ब्रह्मशप्तानां शेषो भवितुमर्हति 006c श्रुतीरलभमानानां संविदं वेदनिश्चयात् 007a निर्विद्यमानः सुभृशं भूयो वक्ष्यामि साम्प्रतम् 007c भूयश्चैवाभिनङ्क्षन्ति निर्धर्मा निर्जपा इव 008a अर्वाक्च प्रतितिष्ठन्ति पुलिन्दशबरा इव 008c न ह्ययज्ञा अमुं लोकं प्राप्नुवन्ति कथञ्चन 009a अविज्ञायैव मे प्रज्ञां बालस्येव सुपण्डितः 009c ब्रह्मन्पितेव पुत्रेभ्यः प्रति मां वाञ्छ शौनक 010 शौनक उवाच 010a किमाश्चर्यं यतः प्राज्ञो बहु कुर्याद्धि साम्प्रतम् 010c इति वै पण्डितो भूत्वा भूतानां नोपतप्यति 011a प्रज्ञाप्रासादमारुह्य अशोच्यः शोचते जनान् 011c जगतीस्थानिवाद्रिस्थः प्रज्ञया प्रतिपश्यति 012a न चोपलभते तत्र न च कार्याणि पश्यति 012c निर्विण्णात्मा परोक्षो वा धिक्कृतः सर्वसाधुषु 013a विदित्वोभयतो वीर्यं माहात्म्यं वेद आगमे 013c कुरुष्वेह महाशान्तिं ब्रह्मा शरणमस्तु ते 014a तद्वै पारत्रिकं चारु ब्राह्मणानामकुप्यताम् 014c अथ चेत्तप्यसे पापैर्धर्मं चेदनुपश्यसि 015 जनमेजय उवाच 015a अनुतप्ये च पापेन न चाधर्मं चराम्यहम् 015c बुभूषुं भजमानं च प्रतिवाञ्छामि शौनक 016 शौनक उवाच 016a छित्त्वा स्तम्भं च मानं च प्रीतिमिच्छामि ते नृप 016c सर्वभूतहिते तिष्ठ धर्मं चैव प्रतिस्मर 017a न भयान्न च कार्पण्यान्न लोभात्त्वामुपाह्वये 017c तां मे देवा गिरं सत्यां शृण्वन्तु ब्राह्मणैः सह 018a सोऽहं न केनचिच्चार्थी त्वां च धर्ममुपाह्वये 018c क्रोशतां सर्वभूतानामहो धिगिति कुर्वताम् 019a वक्ष्यन्ति मामधर्मज्ञा वक्ष्यन्त्यसुहृदो जनाः 019c वाचस्ताः सुहृदः श्रुत्वा सञ्ज्वरिष्यन्ति मे भृशम् 020a केचिदेव महाप्राज्ञाः परिज्ञास्यन्ति कार्यताम् 020c जानीहि मे कृतं तात ब्राह्मणान्प्रति भारत 021a यथा ते मत्कृते क्षेमं लभेरंस्तत्तथा कुरु 021c प्रतिजानीहि चाद्रोहं ब्राह्मणानां नराधिप 022 जनमेजय उवाच 022a नैव वाचा न मनसा न पुनर्जातु कर्मणा 022c द्रोग्धास्मि ब्राह्मणान्विप्र चरणावेव ते स्पृशे