001 युधिष्ठिर उवाच 001a अबुद्धिपूर्वं यः पापं कुर्याद्भरतसत्तम 001c मुच्यते स कथं तस्मादेनसस्तद्वदस्व मे 002 भीष्म उवाच 002a अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् 002c इन्द्रोतः शौनको विप्रो यदाह जनमेजयम् 003a आसीद्राजा महावीर्यः पारिक्षिज्जनमेजयः 003c अबुद्धिपूर्वं ब्रह्महत्या तमागच्छन्महीपतिम् 004a तं ब्राह्मणाः सर्व एव तत्यजुः सपुरोहिताः 004c जगाम स वनं राजा दह्यमानो दिवानिशम् 005a स प्रजाभिः परित्यक्तश्चकार कुशलं महत् 005c अतिवेलं तपस्तेपे दह्यमानः स मन्युना 006a तत्रेतिहासं वक्ष्यामि धर्मस्यास्योपबृंहणम् 006c दह्यमानः पापकृत्या जगाम जनमेजयः 007a वरिष्यमाण इन्द्रोतं शौनकं संशितव्रतम् 007c समासाद्योपजग्राह पादयोः परिपीडयन् 008a ततो भीतो महाप्राज्ञो जगर्हे सुभृशं तदा 008c कर्ता पापस्य महतो भ्रूणहा किमिहागतः 009a किं तवास्मासु कर्तव्यं मा मा स्प्राक्षीः कथञ्चन 009c गच्छ गच्छ न ते स्थानं प्रीणात्यस्मानिह ध्रुवम् 010a रुधिरस्येव ते गन्धः शवस्येव च दर्शनम् 010c अशिवः शिवसङ्काशो मृतो जीवन्निवाटसि 011a अन्तर्मृत्युरशुद्धात्मा पापमेवानुचिन्तयन् 011c प्रबुध्यसे प्रस्वपिषि वर्तसे चरसे सुखी 012a मोघं ते जीवितं राजन्परिक्लिष्टं च जीवसि 012c पापायेव च सृष्टोऽसि कर्मणे ह यवीयसे 013a बहु कल्याणमिच्छन्त ईहन्ते पितरः सुतान् 013c तपसा देवतेज्याभिर्वन्दनेन तितिक्षया 014a पितृवंशमिमं पश्य त्वत्कृते नरकं गतम् 014c निरर्थाः सर्व एवैषामाशाबन्धास्त्वदाश्रयाः 015a यान्पूजयन्तो विन्दन्ति स्वर्गमायुर्यशः सुखम् 015c तेषु ते सततं द्वेषो ब्राह्मणेषु निरर्थकः 016a इमं लोकं विमुच्य त्वमवाङ्मूर्धा पतिष्यसि 016c अशाश्वतीः शाश्वतीश्च समाः पापेन कर्मणा 017a अद्यमानो जन्तुगृध्रैः शितिकण्ठैरयोमुखैः 017c ततोऽपि पुनरावृत्तः पापयोनिं गमिष्यसि 018a यदिदं मन्यसे राजन्नायमस्ति परः कुतः 018c प्रतिस्मारयितारस्त्वां यमदूता यमक्षये